Click on words to see what they mean.

बृहदश्व उवाच ।अथ काले शुभे प्राप्ते तिथौ पुण्ये क्षणे तथा ।आजुहाव महीपालान्भीमो राजा स्वयंवरे ॥ १ ॥
तच्छ्रुत्वा पृथिवीपालाः सर्वे हृच्छयपीडिताः ।त्वरिताः समुपाजग्मुर्दमयन्तीमभीप्सवः ॥ २ ॥
कनकस्तम्भरुचिरं तोरणेन विराजितम् ।विविशुस्ते महारङ्गं नृपाः सिंहा इवाचलम् ॥ ३ ॥
तत्रासनेषु विविधेष्वासीनाः पृथिवीक्षितः ।सुरभिस्रग्धराः सर्वे सुमृष्टमणिकुण्डलाः ॥ ४ ॥
तां राजसमितिं पूर्णां नागैर्भोगवतीमिव ।संपूर्णां पुरुषव्याघ्रैर्व्याघ्रैर्गिरिगुहामिव ॥ ५ ॥
तत्र स्म पीना दृश्यन्ते बाहवः परिघोपमाः ।आकारवन्तः सुश्लक्ष्णाः पञ्चशीर्षा इवोरगाः ॥ ६ ॥
सुकेशान्तानि चारूणि सुनासानि शुभानि च ।मुखानि राज्ञां शोभन्ते नक्षत्राणि यथा दिवि ॥ ७ ॥
दमयन्ती ततो रङ्गं प्रविवेश शुभानना ।मुष्णन्ती प्रभया राज्ञां चक्षूंषि च मनांसि च ॥ ८ ॥
तस्या गात्रेषु पतिता तेषां दृष्टिर्महात्मनाम् ।तत्र तत्रैव सक्ताभून्न चचाल च पश्यताम् ॥ ९ ॥
ततः संकीर्त्यमानेषु राज्ञां नामसु भारत ।ददर्श भैमी पुरुषान्पञ्च तुल्याकृतीनिव ॥ १० ॥
तान्समीक्ष्य ततः सर्वान्निर्विशेषाकृतीन्स्थितान् ।संदेहादथ वैदर्भी नाभ्यजानान्नलं नृपम् ।यं यं हि ददृशे तेषां तं तं मेने नलं नृपम् ॥ ११ ॥
सा चिन्तयन्ती बुद्ध्याथ तर्कयामास भामिनी ।कथं नु देवाञ्जानीयां कथं विद्यां नलं नृपम् ॥ १२ ॥
एवं संचिन्तयन्ती सा वैदर्भी भृशदुःखिता ।श्रुतानि देवलिङ्गानि चिन्तयामास भारत ॥ १३ ॥
देवानां यानि लिङ्गानि स्थविरेभ्यः श्रुतानि मे ।तानीह तिष्ठतां भूमावेकस्यापि न लक्षये ॥ १४ ॥
सा विनिश्चित्य बहुधा विचार्य च पुनः पुनः ।शरणं प्रति देवानां प्राप्तकालममन्यत ॥ १५ ॥
वाचा च मनसा चैव नमस्कारं प्रयुज्य सा ।देवेभ्यः प्राञ्जलिर्भूत्वा वेपमानेदमब्रवीत् ॥ १६ ॥
हंसानां वचनं श्रुत्वा यथा मे नैषधो वृतः ।पतित्वे तेन सत्येन देवास्तं प्रदिशन्तु मे ॥ १७ ॥
वाचा च मनसा चैव यथा नाभिचराम्यहम् ।तेन सत्येन विबुधास्तमेव प्रदिशन्तु मे ॥ १८ ॥
यथा देवैः स मे भर्ता विहितो निषधाधिपः ।तेन सत्येन मे देवास्तमेव प्रदिशन्तु मे ॥ १९ ॥
स्वं चैव रूपं पुष्यन्तु लोकपालाः सहेश्वराः ।यथाहमभिजानीयां पुण्यश्लोकं नराधिपम् ॥ २० ॥
निशम्य दमयन्त्यास्तत्करुणं परिदेवितम् ।निश्चयं परमं तथ्यमनुरागं च नैषधे ॥ २१ ॥
मनोविशुद्धिं बुद्धिं च भक्तिं रागं च भारत ।यथोक्तं चक्रिरे देवाः सामर्थ्यं लिङ्गधारणे ॥ २२ ॥
सापश्यद्विबुधान्सर्वानस्वेदान्स्तब्धलोचनान् ।हृषितस्रग्रजोहीनान्स्थितानस्पृशतः क्षितिम् ॥ २३ ॥
छायाद्वितीयो म्लानस्रग्रजःस्वेदसमन्वितः ।भूमिष्ठो नैषधश्चैव निमेषेण च सूचितः ॥ २४ ॥
सा समीक्ष्य ततो देवान्पुण्यश्लोकं च भारत ।नैषधं वरयामास भैमी धर्मेण भारत ॥ २५ ॥
विलज्जमाना वस्त्रान्ते जग्राहायतलोचना ।स्कन्धदेशेऽसृजच्चास्य स्रजं परमशोभनाम् ।वरयामास चैवैनं पतित्वे वरवर्णिनी ॥ २६ ॥
ततो हा हेति सहसा शब्दो मुक्तो नराधिपैः ।देवैर्महर्षिभिश्चैव साधु साध्विति भारत ।विस्मितैरीरितः शब्दः प्रशंसद्भिर्नलं नृपम् ॥ २७ ॥
वृते तु नैषधे भैम्या लोकपाला महौजसः ।प्रहृष्टमनसः सर्वे नलायाष्टौ वरान्ददुः ॥ २८ ॥
प्रत्यक्षदर्शनं यज्ञे गतिं चानुत्तमां शुभाम् ।नैषधाय ददौ शक्रः प्रीयमाणः शचीपतिः ॥ २९ ॥
अग्निरात्मभवं प्रादाद्यत्र वाञ्छति नैषधः ।लोकानात्मप्रभांश्चैव ददौ तस्मै हुताशनः ॥ ३० ॥
यमस्त्वन्नरसं प्रादाद्धर्मे च परमां स्थितिम् ।अपांपतिरपां भावं यत्र वाञ्छति नैषधः ॥ ३१ ॥
स्रजं चोत्तमगन्धाढ्यां सर्वे च मिथुनं ददुः ।वरानेवं प्रदायास्य देवास्ते त्रिदिवं गताः ॥ ३२ ॥
पार्थिवाश्चानुभूयास्या विवाहं विस्मयान्विताः ।दमयन्त्याः प्रमुदिताः प्रतिजग्मुर्यथागतम् ॥ ३३ ॥
अवाप्य नारीरत्नं तत्पुण्यश्लोकोऽपि पार्थिवः ।रेमे सह तया राजा शच्येव बलवृत्रहा ॥ ३४ ॥
अतीव मुदितो राजा भ्राजमानोंऽशुमानिव ।अरञ्जयत्प्रजा वीरो धर्मेण परिपालयन् ॥ ३५ ॥
ईजे चाप्यश्वमेधेन ययातिरिव नाहुषः ।अन्यैश्च क्रतुभिर्धीमान्बहुभिश्चाप्तदक्षिणैः ॥ ३६ ॥
पुनश्च रमणीयेषु वनेषूपवनेषु च ।दमयन्त्या सह नलो विजहारामरोपमः ॥ ३७ ॥
एवं स यजमानश्च विहरंश्च नराधिपः ।ररक्ष वसुसंपूर्णां वसुधां वसुधाधिपः ॥ ३८ ॥
« »