Click on words to see what they mean.

वैशंपायन उवाच ।तस्य संपश्यतस्त्वेव पिनाकी वृषभध्वजः ।जगामादर्शनं भानुर्लोकस्येवास्तमेयिवान् ॥ १ ॥
ततोऽर्जुनः परं चक्रे विस्मयं परवीरहा ।मया साक्षान्महादेवो दृष्ट इत्येव भारत ॥ २ ॥
धन्योऽस्म्यनुगृहीतोऽस्मि यन्मया त्र्यम्बको हरः ।पिनाकी वरदो रूपी दृष्टः स्पृष्टश्च पाणिना ॥ ३ ॥
कृतार्थं चावगच्छामि परमात्मानमात्मना ।शत्रूंश्च विजितान्सर्वान्निर्वृत्तं च प्रयोजनम् ॥ ४ ॥
ततो वैडूर्यवर्णाभो भासयन्सर्वतो दिशः ।यादोगणवृतः श्रीमानाजगाम जलेश्वरः ॥ ५ ॥
नागैर्नदैर्नदीभिश्च दैत्यैः साध्यैश्च दैवतैः ।वरुणो यादसां भर्ता वशी तं देशमागमत् ॥ ६ ॥
अथ जाम्बूनदवपुर्विमानेन महार्चिषा ।कुबेरः समनुप्राप्तो यक्षैरनुगतः प्रभुः ॥ ७ ॥
विद्योतयन्निवाकाशमद्भुतोपमदर्शनः ।धनानामीश्वरः श्रीमानर्जुनं द्रष्टुमागतः ॥ ८ ॥
तथा लोकान्तकृच्छ्रीमान्यमः साक्षात्प्रतापवान् ।मूर्त्यमूर्तिधरैः सार्धं पितृभिर्लोकभावनैः ॥ ९ ॥
दण्डपाणिरचिन्त्यात्मा सर्वभूतविनाशकृत् ।वैवस्वतो धर्मराजो विमानेनावभासयन् ॥ १० ॥
त्रीँल्लोकान्गुह्यकांश्चैव गन्धर्वांश्च सपन्नगान् ।द्वितीय इव मार्तण्डो युगान्ते समुपस्थिते ॥ ११ ॥
भानुमन्ति विचित्राणि शिखराणि महागिरेः ।समास्थायार्जुनं तत्र ददृशुस्तपसान्वितम् ॥ १२ ॥
ततो मुहूर्ताद्भगवानैरावतशिरोगतः ।आजगाम सहेन्द्राण्या शक्रः सुरगणैर्वृतः ॥ १३ ॥
पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।शुशुभे तारकाराजः सितमभ्रमिवास्थितः ॥ १४ ॥
संस्तूयमानो गन्धर्वैरृषिभिश्च तपोधनैः ।शृङ्गं गिरेः समासाद्य तस्थौ सूर्य इवोदितः ॥ १५ ॥
अथ मेघस्वनो धीमान्व्याजहार शुभां गिरम् ।यमः परमधर्मज्ञो दक्षिणां दिशमास्थितः ॥ १६ ॥
अर्जुनार्जुन पश्यास्माँल्लोकपालान्समागतान् ।दृष्टिं ते वितरामोऽद्य भवानर्हो हि दर्शनम् ॥ १७ ॥
पूर्वर्षिरमितात्मा त्वं नरो नाम महाबलः ।नियोगाद्ब्रह्मणस्तात मर्त्यतां समुपागतः ।त्वं वासवसमुद्भूतो महावीर्यपराक्रमः ॥ १८ ॥
क्षत्रं चाग्निसमस्पर्शं भारद्वाजेन रक्षितम् ।दानवाश्च महावीर्या ये मनुष्यत्वमागताः ।निवातकवचाश्चैव संसाध्याः कुरुनन्दन ॥ १९ ॥
पितुर्ममांशो देवस्य सर्वलोकप्रतापिनः ।कर्णः स सुमहावीर्यस्त्वया वध्यो धनंजय ॥ २० ॥
अंशाश्च क्षितिसंप्राप्ता देवगन्धर्वरक्षसाम् ।तया निपातिता युद्धे स्वकर्मफलनिर्जिताम् ।गतिं प्राप्स्यन्ति कौन्तेय यथास्वमरिकर्शन ॥ २१ ॥
अक्षया तव कीर्तिश्च लोके स्थास्यति फल्गुन ।त्वया साक्षान्महादेवस्तोषितो हि महामृधे ।लघ्वी वसुमती चापि कर्तव्या विष्णुना सह ॥ २२ ॥
गृहाणास्त्रं महाबाहो दण्डमप्रतिवारणम् ।अनेनास्त्रेण सुमहत्त्वं हि कर्म करिष्यसि ॥ २३ ॥
प्रतिजग्राह तत्पार्थो विधिवत्कुरुनन्दनः ।समन्त्रं सोपचारं च समोक्षं सनिवर्तनम् ॥ २४ ॥
ततो जलधरश्यामो वरुणो यादसां पतिः ।पश्चिमां दिशमास्थाय गिरमुच्चारयन्प्रभुः ॥ २५ ॥
पार्थ क्षत्रियमुख्यस्त्वं क्षत्रधर्मे व्यवस्थितः ।पश्य मां पृथुताम्राक्ष वरुणोऽस्मि जलेश्वरः ॥ २६ ॥
मया समुद्यतान्पाशान्वारुणाननिवारणान् ।प्रतिगृह्णीष्व कौन्तेय सरहस्यनिवर्तनान् ॥ २७ ॥
एभिस्तदा मया वीर संग्रामे तारकामये ।दैतेयानां सहस्राणि संयतानि महात्मनाम् ॥ २८ ॥
तस्मादिमान्महासत्त्व मत्प्रसादात्समुत्थितान् ।गृहाण न हि ते मुच्येदन्तकोऽप्याततायिनः ॥ २९ ॥
अनेन त्वं यदास्त्रेण संग्रामे विचरिष्यसि ।तदा निःक्षत्रिया भूमिर्भविष्यति न संशयः ॥ ३० ॥
ततः कैलासनिलयो धनाध्यक्षोऽभ्यभाषत ।दत्तेष्वस्त्रेषु दिव्येषु वरुणेन यमेन च ॥ ३१ ॥
सव्यसाचिन्महाबाहो पूर्वदेव सनातन ।सहास्माभिर्भवाञ्श्रान्तः पुराकल्पेषु नित्यशः ॥ ३२ ॥
मत्तोऽपि त्वं गृहाणास्त्रमन्तर्धानं प्रियं मम ।ओजस्तेजोद्युतिहरं प्रस्वापनमरातिहन् ॥ ३३ ॥
ततोऽर्जुनो महाबाहुर्विधिवत्कुरुनन्दनः ।कौबेरमपि जग्राह दिव्यमस्त्रं महाबलः ॥ ३४ ॥
ततोऽब्रवीद्देवराजः पार्थमक्लिष्टकारिणम् ।सान्त्वयञ्श्लक्ष्णया वाचा मेघदुन्दुभिनिस्वनः ॥ ३५ ॥
कुन्तीमातर्महाबाहो त्वमीशानः पुरातनः ।परां सिद्धिमनुप्राप्तः साक्षाद्देवगतिं गतः ॥ ३६ ॥
देवकार्यं हि सुमहत्त्वया कार्यमरिंदम ।आरोढव्यस्त्वया स्वर्गः सज्जीभव महाद्युते ॥ ३७ ॥
रथो मातलिसंयुक्त आगन्ता त्वत्कृते महीम् ।तत्र तेऽहं प्रदास्यामि दिव्यान्यस्त्राणि कौरव ॥ ३८ ॥
तान्दृष्ट्वा लोकपालांस्तु समेतान्गिरिमूर्धनि ।जगाम विस्मयं धीमान्कुन्तीपुत्रो धनंजयः ॥ ३९ ॥
ततोऽर्जुनो महातेजा लोकपालान्समागतान् ।पूजयामास विधिवद्वाग्भिरद्भिः फलैरपि ॥ ४० ॥
ततः प्रतिययुर्देवाः प्रतिपूज्य धनंजयम् ।यथागतेन विबुधाः सर्वे काममनोजवाः ॥ ४१ ॥
ततोऽर्जुनो मुदं लेभे लब्धास्त्रः पुरुषर्षभः ।कृतार्थमिव चात्मानं स मेने पूर्णमानसः ॥ ४२ ॥
« »