Click on words to see what they mean.

वैशंपायन उवाच ।कस्यचित्त्वथ कालस्य धर्मराजो युधिष्ठिरः ।संस्मृत्य मुनिसंदेशमिदं वचनमब्रवीत् ॥ १ ॥
विविक्ते विदितप्रज्ञमर्जुनं भरतर्षभम् ।सान्त्वपूर्वं स्मितं कृत्वा पाणिना परिसंस्पृशन् ॥ २ ॥
स मुहूर्तमिव ध्यात्वा वनवासमरिंदमः ।धनंजयं धर्मराजो रहसीदमुवाच ह ॥ ३ ॥
भीष्मे द्रोणे कृपे कर्णे द्रोणपुत्रे च भारत ।धनुर्वेदश्चतुष्पाद एतेष्वद्य प्रतिष्ठितः ॥ ४ ॥
ब्राह्मं दैवमासुरं च सप्रयोगचिकित्सितम् ।सर्वास्त्राणां प्रयोगं च तेऽभिजानन्ति कृत्स्नशः ॥ ५ ॥
ते सर्वे धृतराष्ट्रस्य पुत्रेण परिसान्त्विताः ।संविभक्ताश्च तुष्टाश्च गुरुवत्तेषु वर्तते ॥ ६ ॥
सर्वयोधेषु चैवास्य सदा वृत्तिरनुत्तमा ।शक्तिं न हापयिष्यन्ति ते काले प्रतिपूजिताः ॥ ७ ॥
अद्य चेयं मही कृत्स्ना दुर्योधनवशानुगा ।त्वयि व्यपाश्रयोऽस्माकं त्वयि भारः समाहितः ।तत्र कृत्यं प्रपश्यामि प्राप्तकालमरिंदम ॥ ८ ॥
कृष्णद्वैपायनात्तात गृहीतोपनिषन्मया ।तया प्रयुक्तया सम्यग्जगत्सर्वं प्रकाशते ।तेन त्वं ब्रह्मणा तात संयुक्तः सुसमाहितः ॥ ९ ॥
देवतानां यथाकालं प्रसादं प्रतिपालय ।तपसा योजयात्मानमुग्रेण भरतर्षभ ॥ १० ॥
धनुष्मान्कवची खड्गी मुनिः सारसमन्वितः ।न कस्यचिद्ददन्मार्गं गच्छ तातोत्तरां दिशम् ।इन्द्रे ह्यस्त्राणि दिव्यानि समस्तानि धनंजय ॥ ११ ॥
वृत्राद्भीतैस्तदा देवैर्बलमिन्द्रे समर्पितम् ।तान्येकस्थानि सर्वाणि ततस्त्वं प्रतिपत्स्यसे ॥ १२ ॥
शक्रमेव प्रपद्यस्व स तेऽस्त्राणि प्रदास्यति ।दीक्षितोऽद्यैव गच्छ त्वं द्रष्टुं देवं पुरंदरम् ॥ १३ ॥
एवमुक्त्वा धर्मराजस्तमध्यापयत प्रभुः ।दीक्षितं विधिना तेन यतवाक्कायमानसम् ।अनुजज्ञे ततो वीरं भ्राता भ्रातरमग्रजः ॥ १४ ॥
निदेशाद्धर्मराजस्य द्रष्टुं देवं पुरंदरम् ।धनुर्गाण्डीवमादाय तथाक्षय्यौ महेषुधी ॥ १५ ॥
कवची सतलत्राणो बद्धगोधाङ्गुलित्रवान् ।हुत्वाग्निं ब्राह्मणान्निष्कैः स्वस्ति वाच्य महाभुजः ॥ १६ ॥
प्रातिष्ठत महाबाहुः प्रगृहीतशरासनः ।वधाय धार्तराष्ट्राणां निःश्वस्योर्ध्वमुदीक्ष्य च ॥ १७ ॥
तं दृष्ट्वा तत्र कौन्तेयं प्रगृहीतशरासनम् ।अब्रुवन्ब्राह्मणाः सिद्धा भूतान्यन्तर्हितानि च ।क्षिप्रं प्राप्नुहि कौन्तेय मनसा यद्यदिच्छसि ॥ १८ ॥
तं सिंहमिव गच्छन्तं शालस्कन्धोरुमर्जुनम् ।मनांस्यादाय सर्वेषां कृष्णा वचनमब्रवीत् ॥ १९ ॥
यत्ते कुन्ती महाबाहो जातस्यैच्छद्धनंजय ।तत्तेऽस्तु सर्वं कौन्तेय यथा च स्वयमिच्छसि ॥ २० ॥
मास्माकं क्षत्रियकुले जन्म कश्चिदवाप्नुयात् ।ब्राह्मणेभ्यो नमो नित्यं येषां युद्धे न जीविका ॥ २१ ॥
नूनं ते भ्रातरः सर्वे त्वत्कथाभिः प्रजागरे ।रंस्यन्ते वीरकर्माणि कीर्तयन्तः पुनः पुनः ॥ २२ ॥
नैव नः पार्थ भोगेषु न धने नोत जीविते ।तुष्टिर्बुद्धिर्भवित्री वा त्वयि दीर्घप्रवासिनि ॥ २३ ॥
त्वयि नः पार्थ सर्वेषां सुखदुःखे समाहिते ।जीवितं मरणं चैव राज्यमैश्वर्यमेव च ।आपृष्टो मेऽसि कौन्तेय स्वस्ति प्राप्नुहि पाण्डव ॥ २४ ॥
नमो धात्रे विधात्रे च स्वस्ति गच्छ ह्यनामयम् ।स्वस्ति तेऽस्त्वान्तरिक्षेभ्यः पार्थिवेभ्यश्च भारत ।दिव्येभ्यश्चैव भूतेभ्यो ये चान्ये परिपन्थिनः ॥ २५ ॥
ततः प्रदक्षिणं कृत्वा भ्रातॄन्धौम्यं च पाण्डवः ।प्रातिष्ठत महाबाहुः प्रगृह्य रुचिरं धनुः ॥ २६ ॥
तस्य मार्गादपाक्रामन्सर्वभूतानि गच्छतः ।युक्तस्यैन्द्रेण योगेन पराक्रान्तस्य शुष्मिणः ॥ २७ ॥
सोऽगच्छत्पर्वतं पुण्यमेकाह्नैव महामनाः ।मनोजवगतिर्भूत्वा योगयुक्तो यथानिलः ॥ २८ ॥
हिमवन्तमतिक्रम्य गन्धमादनमेव च ।अत्यक्रामत्स दुर्गाणि दिवारात्रमतन्द्रितः ॥ २९ ॥
इन्द्रकीलं समासाद्य ततोऽतिष्ठद्धनंजयः ।अन्तरिक्षे हि शुश्राव तिष्ठेति स वचस्तदा ॥ ३० ॥
ततोऽपश्यत्सव्यसाची वृक्षमूले तपस्विनम् ।ब्राह्म्या श्रिया दीप्यमानं पिङ्गलं जटिलं कृशम् ॥ ३१ ॥
सोऽब्रवीदर्जुनं तत्र स्थितं दृष्ट्वा महातपाः ।कस्त्वं तातेह संप्राप्तो धनुष्मान्कवची शरी ।निबद्धासितलत्राणः क्षत्रधर्ममनुव्रतः ॥ ३२ ॥
नेह शस्त्रेण कर्तव्यं शान्तानामयमालयः ।विनीतक्रोधहर्षाणां ब्राह्मणानां तपस्विनाम् ॥ ३३ ॥
नेहास्ति धनुषा कार्यं न संग्रामेण कर्हिचित् ।निक्षिपैतद्धनुस्तात प्राप्तोऽसि परमां गतिम् ॥ ३४ ॥
इत्यनन्तौजसं वीरं यथा चान्यं पृथग्जनम् ।तथा वाचमथाभीक्ष्णं ब्राह्मणोऽर्जुनमब्रवीत् ।न चैनं चालयामास धैर्यात्सुदृढनिश्चयम् ॥ ३५ ॥
तमुवाच ततः प्रीतः स द्विजः प्रहसन्निव ।वरं वृणीष्व भद्रं ते शक्रोऽहमरिसूदन ॥ ३६ ॥
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ।प्राञ्जलिः प्रणतो भूत्वा शूरः कुरुकुलोद्वहः ॥ ३७ ॥
ईप्सितो ह्येष मे कामो वरं चैनं प्रयच्छ मे ।त्वत्तोऽद्य भगवन्नस्त्रं कृत्स्नमिच्छामि वेदितुम् ॥ ३८ ॥
प्रत्युवाच महेन्द्रस्तं प्रीतात्मा प्रहसन्निव ।इह प्राप्तस्य किं कार्यमस्त्रैस्तव धनंजय ।कामान्वृणीष्व लोकांश्च प्राप्तोऽसि परमां गतिम् ॥ ३९ ॥
एवमुक्तः प्रत्युवाच सहस्राक्षं धनंजयः ।न लोकान्न पुनः कामान्न देवत्वं कुतः सुखम् ॥ ४० ॥
न च सर्वामरैश्वर्यं कामये त्रिदशाधिप ।भ्रातॄंस्तान्विपिने त्यक्त्वा वैरमप्रतियात्य च ।अकीर्तिं सर्वलोकेषु गच्छेयं शाश्वतीः समाः ॥ ४१ ॥
एवमुक्तः प्रत्युवाच वृत्रहा पाण्डुनन्दनम् ।सान्त्वयञ्श्लक्ष्णया वाचा सर्वलोकनमस्कृतः ॥ ४२ ॥
यदा द्रक्ष्यसि भूतेशं त्र्यक्षं शूलधरं शिवम् ।तदा दातास्मि ते तात दिव्यान्यस्त्राणि सर्वशः ॥ ४३ ॥
क्रियतां दर्शने यत्नो देवस्य परमेष्ठिनः ।दर्शनात्तस्य कौन्तेय संसिद्धः स्वर्गमेष्यसि ॥ ४४ ॥
इत्युक्त्वा फल्गुनं शक्रो जगामादर्शनं ततः ।अर्जुनोऽप्यथ तत्रैव तस्थौ योगसमन्वितः ॥ ४५ ॥
« »