Click on words to see what they mean.

भीमसेन उवाच ।संधिं कृत्वैव कालेन अन्तकेन पतत्रिणा ।अनन्तेनाप्रमेयेन स्रोतसा सर्वहारिणा ॥ १ ॥
प्रत्यक्षं मन्यसे कालं मर्त्यः सन्कालबन्धनः ।फेनधर्मा महाराज फलधर्मा तथैव च ॥ २ ॥
निमेषादपि कौन्तेय यस्यायुरपचीयते ।सूच्येवाञ्जनचूर्णस्य किमिति प्रतिपालयेत् ॥ ३ ॥
यो नूनममितायुः स्यादथ वापि प्रमाणवित् ।स कालं वै प्रतीक्षेत सर्वप्रत्यक्षदर्शिवान् ॥ ४ ॥
प्रतीक्षमाणान्कालो नः समा राजंस्त्रयोदश ।आयुषोऽपचयं कृत्वा मरणायोपनेष्यति ॥ ५ ॥
शरीरिणां हि मरणं शरीरे नित्यमाश्रितम् ।प्रागेव मरणात्तस्माद्राज्यायैव घटामहे ॥ ६ ॥
यो न याति प्रसंख्यानमस्पष्टो भूमिवर्धनः ।अयातयित्वा वैराणि सोऽवसीदति गौरिव ॥ ७ ॥
यो न यातयते वैरमल्पसत्त्वोद्यमः पुमान् ।अफलं तस्य जन्माहं मन्ये दुर्जातजायिनः ॥ ८ ॥
हैरण्यौ भवतो बाहू श्रुतिर्भवति पार्थिव ।हत्वा द्विषन्तं संग्रामे भुक्त्वा बाह्वर्जितं वसु ॥ ९ ॥
हत्वा चेत्पुरुषो राजन्निकर्तारमरिंदम ।अह्नाय नरकं गच्छेत्स्वर्गेणास्य स संमितः ॥ १० ॥
अमर्षजो हि संतापः पावकाद्दीप्तिमत्तरः ।येनाहमभिसंतप्तो न नक्तं न दिवा शये ॥ ११ ॥
अयं च पार्थो बीभत्सुर्वरिष्ठो ज्याविकर्षणे ।आस्ते परमसंतप्तो नूनं सिंह इवाशये ॥ १२ ॥
योऽयमेकोऽभिमनुते सर्वाँल्लोके धनुर्भृतः ।सोऽयमात्मजमूष्माणं महाहस्तीव यच्छति ॥ १३ ॥
नकुलः सहदेवश्च वृद्धा माता च वीरसूः ।तवैव प्रियमिच्छन्त आसते जडमूकवत् ॥ १४ ॥
सर्वे ते प्रियमिच्छन्ति बान्धवाः सह सृञ्जयैः ।अहमेकोऽभिसंतप्तो माता च प्रतिविन्ध्यतः ॥ १५ ॥
प्रियमेव तु सर्वेषां यद्ब्रवीम्युत किंचन ।सर्वे ही व्यसनं प्राप्ताः सर्वे युद्धाभिनन्दिनः ॥ १६ ॥
नेतः पापीयसी काचिदापद्राजन्भविष्यति ।यन्नो नीचैरल्पबलै राज्यमाच्छिद्य भुज्यते ॥ १७ ॥
शीलदोषाद्घृणाविष्ट आनृशंस्यात्परंतप ।क्लेशांस्तितिक्षसे राजन्नान्यः कश्चित्प्रशंसति ॥ १८ ॥
घृणी ब्राह्मणरूपोऽसि कथं क्षत्रे अजायथाः ।अस्यां हि योनौ जायन्ते प्रायशः क्रूरबुद्धयः ॥ १९ ॥
अश्रौषीस्त्वं राजधर्मान्यथा वै मनुरब्रवीत् ।क्रूरान्निकृतिसंयुक्तान्विहितानशमात्मकान् ॥ २० ॥
कर्तव्ये पुरुषव्याघ्र किमास्से पीठसर्पवत् ।बुद्ध्या वीर्येण संयुक्तः श्रुतेनाभिजनेन च ॥ २१ ॥
तृणानां मुष्टिनैकेन हिमवन्तं तु पर्वतम् ।छन्नमिच्छसि कौन्तेय योऽस्मान्संवर्तुमिच्छसि ॥ २२ ॥
अज्ञातचर्या गूढेन पृथिव्यां विश्रुतेन च ।दिवीव पार्थ सूर्येण न शक्या चरितुं त्वया ॥ २३ ॥
बृहच्छाल इवानूपे शाखापुष्पपलाशवान् ।हस्ती श्वेत इवाज्ञातः कथं जिष्णुश्चरिष्यति ॥ २४ ॥
इमौ च सिंहसंकाशौ भ्रातरौ सहितौ शिशू ।नकुलः सहदेवश्च कथं पार्थ चरिष्यतः ॥ २५ ॥
पुण्यकीर्ती राजपुत्री द्रौपदी वीरसूरियम् ।विश्रुता कथमज्ञाता कृष्णा पार्थ चरिष्यति ॥ २६ ॥
मां चापि राजञ्जानन्ति आकुमारमिमाः प्रजाः ।अज्ञातचर्यां पश्यामि मेरोरिव निगूहनम् ॥ २७ ॥
तथैव बहवोऽस्माभी राष्ट्रेभ्यो विप्रवासिताः ।राजानो राजपुत्राश्च धृतराष्ट्रमनुव्रताः ॥ २८ ॥
न हि तेऽप्युपशाम्यन्ति निकृतानां निराकृताः ।अवश्यं तैर्निकर्तव्यमस्माकं तत्प्रियैषिभिः ॥ २९ ॥
तेऽप्यस्मासु प्रयुञ्जीरन्प्रच्छन्नान्सुबहूञ्जनान् ।आचक्षीरंश्च नो ज्ञात्वा तन्नः स्यात्सुमहद्भयम् ॥ ३० ॥
अस्माभिरुषिताः सम्यग्वने मासास्त्रयोदश ।परिमाणेन तान्पश्य तावतः परिवत्सरान् ॥ ३१ ॥
अस्ति मासः प्रतिनिधिर्यथा प्राहुर्मनीषिणः ।पूतिकानिव सोमस्य तथेदं क्रियतामिति ॥ ३२ ॥
अथ वानडुहे राजन्साधवे साधुवाहिने ।सौहित्यदानादेकस्मादेनसः प्रतिमुच्यते ॥ ३३ ॥
तस्माच्छत्रुवधे राजन्क्रियतां निश्चयस्त्वया ।क्षत्रियस्य तु सर्वस्य नान्यो धर्मोऽस्ति संयुगात् ॥ ३४ ॥
« »