Click on words to see what they mean.

युधिष्ठिर उवाच ।असंशयं भारत सत्यमेतद्यन्मा तुदन्वाक्यशल्यैः क्षिणोषि ।न त्वा विगर्हे प्रतिकूलमेतन्ममानयाद्धि व्यसनं व आगात् ॥ १ ॥
अहं ह्यक्षानन्वपद्यं जिहीर्षन्राज्यं सराष्ट्रं धृतराष्ट्रस्य पुत्रात् ।तन्मा शठः कितवः प्रत्यदेवीत्सुयोधनार्थं सुबलस्य पुत्रः ॥ २ ॥
महामायः शकुनिः पार्वतीयः सदा सभायां प्रवपन्नक्षपूगान् ।अमायिनं मायया प्रत्यदेवीत्ततोऽपश्यं वृजिनं भीमसेन ॥ ३ ॥
अक्षान्हि दृष्ट्वा शकुनेर्यथावत्कामानुलोमानयुजो युजश्च ।शक्यं नियन्तुमभविष्यदात्मा मन्युस्तु हन्ति पुरुषस्य धैर्यम् ॥ ४ ॥
यन्तुं नात्मा शक्यते पौरुषेण मानेन वीर्येण च तात नद्धः ।न ते वाचं भीमसेनाभ्यसूये मन्ये तथा तद्भवितव्यमासीत् ॥ ५ ॥
स नो राजा धृतराष्ट्रस्य पुत्रो न्यपातयद्व्यसने राज्यमिच्छन् ।दास्यं च नोऽगमयद्भीमसेन यत्राभवच्छरणं द्रौपदी नः ॥ ६ ॥
त्वं चापि तद्वेत्थ धनंजयश्च पुनर्द्यूतायागतानां सभां नः ।यन्माब्रवीद्धृतराष्ट्रस्य पुत्र एकग्लहार्थं भरतानां समक्षम् ॥ ७ ॥
वने समा द्वादश राजपुत्र यथाकामं विदितमजातशत्रो ।अथापरं चाविदितं चरेथाः सर्वैः सह भ्रातृभिश्छद्मगूढः ॥ ८ ॥
त्वां चेच्छ्रुत्वा तात तथा चरन्तमवभोत्स्यन्ते भारतानां चराः स्म ।अन्यांश्चरेथास्तावतोऽब्दांस्ततस्त्वं निश्चित्य तत्प्रतिजानीहि पार्थ ॥ ९ ॥
चरैश्चेन्नोऽविदितः कालमेतं युक्तो राजन्मोहयित्वा मदीयान् ।ब्रवीमि सत्यं कुरुसंसदीह तवैव ता भारत पञ्च नद्यः ॥ १० ॥
वयं चैवं भ्रातरः सर्व एव त्वया जिताः कालमपास्य भोगान् ।वसेम इत्याह पुरा स राजा मध्ये कुरूणां स मयोक्तस्तथेति ॥ ११ ॥
तत्र द्यूतमभवन्नो जघन्यं तस्मिञ्जिताः प्रव्रजिताश्च सर्वे ।इत्थं च देशाननुसंचरामो वनानि कृच्छ्राणि च कृच्छ्ररूपाः ॥ १२ ॥
सुयोधनश्चापि न शान्तिमिच्छन्भूयः स मन्योर्वशमन्वगच्छत् ।उद्योजयामास कुरूंश्च सर्वान्ये चास्य केचिद्वशमन्वगच्छन् ॥ १३ ॥
तं संधिमास्थाय सतां सकाशे को नाम जह्यादिह राज्यहेतोः ।आर्यस्य मन्ये मरणाद्गरीयो यद्धर्ममुत्क्रम्य महीं प्रशिष्यात् ॥ १४ ॥
तदैव चेद्वीरकर्माकरिष्यो यदा द्यूते परिघं पर्यमृक्षः ।बाहू दिधक्षन्वारितः फल्गुनेन किं दुष्कृतं भीम तदाभविष्यत् ॥ १५ ॥
प्रागेव चैवं समयक्रियायाः किं नाब्रवीः पौरुषमाविदानः ।प्राप्तं तु कालं त्वभिपद्य पश्चात्किं मामिदानीमतिवेलमात्थ ॥ १६ ॥
भूयोऽपि दुःखं मम भीमसेन दूये विषस्येव रसं विदित्वा ।यद्याज्ञसेनीं परिकृष्यमाणां संदृश्य तत्क्षान्तमिति स्म भीम ॥ १७ ॥
न त्वद्य शक्यं भरतप्रवीर कृत्वा यदुक्तं कुरुवीरमध्ये ।कालं प्रतीक्षस्व सुखोदयस्य पक्तिं फलानामिव बीजवापः ॥ १८ ॥
यदा हि पूर्वं निकृतो निकृत्या वैरं सपुष्पं सफलं विदित्वा ।महागुणं हरति हि पौरुषेण तदा वीरो जीवति जीवलोके ॥ १९ ॥
श्रियं च लोके लभते समग्रां मन्ये चास्मै शत्रवः संनमन्ते ।मित्राणि चैनमतिरागाद्भजन्ते देवा इवेन्द्रमनुजीवन्ति चैनम् ॥ २० ॥
मम प्रतिज्ञां च निबोध सत्यां वृणे धर्मममृताज्जीविताच्च ।राज्यं च पुत्राश्च यशो धनं च सर्वं न सत्यस्य कलामुपैति ॥ २१ ॥
« »