Click on words to see what they mean.

वैशंपायन उवाच ।याज्ञसेन्या वचः श्रुत्वा भीमसेनोऽत्यमर्षणः ।निःश्वसन्नुपसंगम्य क्रुद्धो राजानमब्रवीत् ॥ १ ॥
राज्यस्य पदवीं धर्म्यां व्रज सत्पुरुषोचिताम् ।धर्मकामार्थहीनानां किं नो वस्तुं तपोवने ॥ २ ॥
नैव धर्मेण तद्राज्यं नार्जवेन न चौजसा ।अक्षकूटमधिष्ठाय हृतं दुर्योधनेन नः ॥ ३ ॥
गोमायुनेव सिंहानां दुर्बलेन बलीयसाम् ।आमिषं विघसाशेन तद्वद्राज्यं हि नो हृतम् ॥ ४ ॥
धर्मलेशप्रतिच्छन्नः प्रभवं धर्मकामयोः ।अर्थमुत्सृज्य किं राजन्दुर्गेषु परितप्यसे ॥ ५ ॥
भवतोऽनुविधानेन राज्यं नः पश्यतां हृतम् ।अहार्यमपि शक्रेण गुप्तं गाण्डीवधन्वना ॥ ६ ॥
कुणीनामिव बिल्वानि पङ्गूनामिव धेनवः ।हृतमैश्वर्यमस्माकं जीवतां भवतः कृते ॥ ७ ॥
भवतः प्रियमित्येवं महद्व्यसनमीदृशम् ।धर्मकामे प्रतीतस्य प्रतिपन्नाः स्म भारत ॥ ८ ॥
कर्शयामः स्वमित्राणि नन्दयामश्च शात्रवान् ।आत्मानं भवतः शास्त्रे नियम्य भरतर्षभ ॥ ९ ॥
यद्वयं न तदैवैतान्धार्तराष्ट्रान्निहन्महि ।भवतः शास्त्रमादाय तन्नस्तपति दुष्कृतम् ॥ १० ॥
अथैनामन्ववेक्षस्व मृगचर्यामिवात्मनः ।अवीराचरितां राजन्न बलस्थैर्निषेविताम् ॥ ११ ॥
यां न कृष्णो न बीभत्सुर्नाभिमन्युर्न सृञ्जयः ।न चाहमभिनन्दामि न च माद्रीसुतावुभौ ॥ १२ ॥
भवान्धर्मो धर्म इति सततं व्रतकर्शितः ।कच्चिद्राजन्न निर्वेदादापन्नः क्लीबजीविकाम् ॥ १३ ॥
दुर्मनुष्या हि निर्वेदमफलं सर्वघातिनम् ।अशक्ताः श्रियमाहर्तुमात्मनः कुर्वते प्रियम् ॥ १४ ॥
स भवान्दृष्टिमाञ्शक्तः पश्यन्नात्मनि पौरुषम् ।आनृशंस्यपरो राजन्नानर्थमवबुध्यसे ॥ १५ ॥
अस्मानमी धार्तराष्ट्राः क्षममाणानलं सतः ।अशक्तानेव मन्यन्ते तद्दुःखं नाहवे वधः ॥ १६ ॥
तत्र चेद्युध्यमानानामजिह्ममनिवर्तिनाम् ।सर्वशो हि वधः श्रेयान्प्रेत्य लोकाँल्लभेमहि ॥ १७ ॥
अथ वा वयमेवैतान्निहत्य भरतर्षभ ।आददीमहि गां सर्वां तथापि श्रेय एव नः ॥ १८ ॥
सर्वथा कार्यमेतन्नः स्वधर्ममनुतिष्ठताम् ।काङ्क्षतां विपुलां कीर्तिं वैरं प्रतिचिकीर्षताम् ॥ १९ ॥
आत्मार्थं युध्यमानानां विदिते कृत्यलक्षणे ।अन्यैरपहृते राज्ये प्रशंसैव न गर्हणा ॥ २० ॥
कर्शनार्थो हि यो धर्मो मित्राणामात्मनस्तथा ।व्यसनं नाम तद्राजन्न स धर्मः कुधर्म तत् ॥ २१ ॥
सर्वथा धर्मनित्यं तु पुरुषं धर्मदुर्बलम् ।जहतस्तात धर्मार्थौ प्रेतं दुःखसुखे यथा ॥ २२ ॥
यस्य धर्मो हि धर्मार्थं क्लेशभाङ्न स पण्डितः ।न स धर्मस्य वेदार्थं सूर्यस्यान्धः प्रभामिव ॥ २३ ॥
यस्य चार्थार्थमेवार्थः स च नार्थस्य कोविदः ।रक्षते भृतकोऽरण्यं यथा स्यात्तादृगेव सः ॥ २४ ॥
अतिवेलं हि योऽर्थार्थी नेतरावनुतिष्ठति ।स वध्यः सर्वभूतानां ब्रह्महेव जुगुप्सितः ॥ २५ ॥
सततं यश्च कामार्थी नेतरावनुतिष्ठति ।मित्राणि तस्य नश्यन्ति धर्मार्थाभ्यां च हीयते ॥ २६ ॥
तस्य धर्मार्थहीनस्य कामान्ते निधनं ध्रुवम् ।कामतो रममाणस्य मीनस्येवाम्भसः क्षये ॥ २७ ॥
तस्माद्धर्मार्थयोर्नित्यं न प्रमाद्यन्ति पण्डिताः ।प्रकृतिः सा हि कामस्य पावकस्यारणिर्यथा ॥ २८ ॥
सर्वथा धर्ममूलोऽर्थो धर्मश्चार्थपरिग्रहः ।इतरेतरयोनी तौ विद्धि मेघोदधी यथा ॥ २९ ॥
द्रव्यार्थस्पर्शसंयोगे या प्रीतिरुपजायते ।स कामश्चित्तसंकल्पः शरीरं नास्य विद्यते ॥ ३० ॥
अर्थार्थी पुरुषो राजन्बृहन्तं धर्ममृच्छति ।अर्थमृच्छति कामार्थी न कामादन्यमृच्छती ॥ ३१ ॥
न हि कामेन कामोऽन्यः साध्यते फलमेव तत् ।उपयोगात्फलस्येव काष्ठाद्भस्मेव पण्डितः ॥ ३२ ॥
इमाञ्शकुनिकान्राजन्हन्ति वैतंसिको यथा ।एतद्रूपमधर्मस्य भूतेषु च विहिंसताम् ॥ ३३ ॥
कामाल्लोभाच्च धर्मस्य प्रवृत्तिं यो न पश्यति ।स वध्यः सर्वभूतानां प्रेत्य चेह च दुर्मतिः ॥ ३४ ॥
व्यक्तं ते विदितो राजन्नर्थो द्रव्यपरिग्रहः ।प्रकृतिं चापि वेत्थास्य विकृतिं चापि भूयसीम् ॥ ३५ ॥
तस्य नाशं विनाशं वा जरया मरणेन वा ।अनर्थमिति मन्यन्ते सोऽयमस्मासु वर्तते ॥ ३६ ॥
इन्द्रियाणां च पञ्चानां मनसो हृदयस्य च ।विषये वर्तमानानां या प्रीतिरुपजायते ।स काम इति मे बुद्धिः कर्मणां फलमुत्तमम् ॥ ३७ ॥
एवमेव पृथग्दृष्ट्वा धर्मार्थौ काममेव च ।न धर्मपर एव स्यान्न चार्थपरमो नरः ।न कामपरमो वा स्यात्सर्वान्सेवेत सर्वदा ॥ ३८ ॥
धर्मं पूर्वं धनं मध्ये जघन्ये काममाचरेत् ।अहन्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ ३९ ॥
कामं पूर्वं धनं मध्ये जघन्ये धर्ममाचरेत् ।वयस्यनुचरेदेवमेष शास्त्रकृतो विधिः ॥ ४० ॥
धर्मं चार्थं च कामं च यथावद्वदतां वर ।विभज्य काले कालज्ञः सर्वान्सेवेत पण्डितः ॥ ४१ ॥
मोक्षो वा परमं श्रेय एष राजन्सुखार्थिनाम् ।प्राप्तिर्वा बुद्धिमास्थाय सोपायं कुरुनन्दन ॥ ४२ ॥
तद्वाशु क्रियतां राजन्प्राप्तिर्वाप्यधिगम्यताम् ।जीवितं ह्यातुरस्येव दुःखमन्तरवर्तिनः ॥ ४३ ॥
विदितश्चैव ते धर्मः सततं चरितश्च ते ।जानते त्वयि शंसन्ति सुहृदः कर्मचोदनाम् ॥ ४४ ॥
दानं यज्ञः सतां पूजा वेदधारणमार्जवम् ।एष धर्मः परो राजन्फलवान्प्रेत्य चेह च ॥ ४५ ॥
एष नार्थविहीनेन शक्यो राजन्निषेवितुम् ।अखिलाः पुरुषव्याघ्र गुणाः स्युर्यद्यपीतरे ॥ ४६ ॥
धर्ममूलं जगद्राजन्नान्यद्धर्माद्विशिष्यते ।धर्मश्चार्थेन महता शक्यो राजन्निषेवितुम् ॥ ४७ ॥
न चार्थो भैक्षचर्येण नापि क्लैब्येन कर्हिचित् ।वेत्तुं शक्यः सदा राजन्केवलं धर्मबुद्धिना ॥ ४८ ॥
प्रतिषिद्धा हि ते याच्ञा यया सिध्यति वै द्विजः ।तेजसैवार्थलिप्सायां यतस्व पुरुषर्षभ ॥ ४९ ॥
भैक्षचर्या न विहिता न च विट्शूद्रजीविका ।क्षत्रियस्य विशेषेण धर्मस्तु बलमौरसम् ॥ ५० ॥
उदारमेव विद्वांसो धर्मं प्राहुर्मनीषिणः ।उदारं प्रतिपद्यस्व नावरे स्थातुमर्हसि ॥ ५१ ॥
अनुबुध्यस्व राजेन्द्र वेत्थ धर्मान्सनातनान् ।क्रूरकर्माभिजातोऽसि यस्मादुद्विजते जनः ॥ ५२ ॥
प्रजापालनसंभूतं फलं तव न गर्हितम् ।एष ते विहितो राजन्धात्रा धर्मः सनातनः ॥ ५३ ॥
तस्माद्विचलितः पार्थ लोके हास्यं गमिष्यसि ।स्वधर्माद्धि मनुष्याणां चलनं न प्रशस्यते ॥ ५४ ॥
स क्षात्रं हृदयं कृत्वा त्यक्त्वेदं शिथिलं मनः ।वीर्यमास्थाय कौन्तेय धुरमुद्वह धुर्यवत् ॥ ५५ ॥
न हि केवलधर्मात्मा पृथिवीं जातु कश्चन ।पार्थिवो व्यजयद्राजन्न भूतिं न पुनः श्रियम् ॥ ५६ ॥
जिह्वां दत्त्वा बहूनां हि क्षुद्राणां लुब्धचेतसाम् ।निकृत्या लभते राज्यमाहारमिव शल्यकः ॥ ५७ ॥
भ्रातरः पूर्वजाताश्च सुसमृद्धाश्च सर्वशः ।निकृत्या निर्जिता देवैरसुराः पाण्डवर्षभ ॥ ५८ ॥
एवं बलवतः सर्वमिति बुद्ध्वा महीपते ।जहि शत्रून्महाबाहो परां निकृतिमास्थितः ॥ ५९ ॥
न ह्यर्जुनसमः कश्चिद्युधि योद्धा धनुर्धरः ।भविता वा पुमान्कश्चिन्मत्समो वा गदाधरः ॥ ६० ॥
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।न प्रमाणेन नोत्साहात्सत्त्वस्थो भव पाण्डव ॥ ६१ ॥
सत्त्वं हि मूलमर्थस्य वितथं यदतोऽन्यथा ।न तु प्रसक्तं भवति वृक्षच्छायेव हैमनी ॥ ६२ ॥
अर्थत्यागो हि कार्यः स्यादर्थं श्रेयांसमिच्छता ।बीजौपम्येन कौन्तेय मा ते भूदत्र संशयः ॥ ६३ ॥
अर्थेन तु समोऽनर्थो यत्र लभ्येत नोदयः ।न तत्र विपणः कार्यः खरकण्डूयितं हि तत् ॥ ६४ ॥
एवमेव मनुष्येन्द्र धर्मं त्यक्त्वाल्पकं नरः ।बृहन्तं धर्ममाप्नोति स बुद्ध इति निश्चितः ॥ ६५ ॥
अमित्रं मित्रसंपन्नं मित्रैर्भिन्दन्ति पण्डिताः ।भिन्नैर्मित्रैः परित्यक्तं दुर्बलं कुरुते वशे ॥ ६६ ॥
सत्त्वेन कुरुते युद्धं राजन्सुबलवानपि ।नोद्यमेन न होत्राभिः सर्वाः स्वीकुरुते प्रजाः ॥ ६७ ॥
सर्वथा संहतैरेव दुर्बलैर्बलवानपि ।अमित्रः शक्यते हन्तुं मधुहा भ्रमरैरिव ॥ ६८ ॥
यथा राजन्प्रजाः सर्वाः सूर्यः पाति गभस्तिभिः ।अत्ति चैव तथैव त्वं सवितुः सदृशो भव ॥ ६९ ॥
एतद्ध्यपि तपो राजन्पुराणमिति नः श्रुतम् ।विधिना पालनं भूमेर्यत्कृतं नः पितामहैः ॥ ७० ॥
अपेयात्किल भाः सूर्याल्लक्ष्मीश्चन्द्रमसस्तथा ।इति लोको व्यवसितो दृष्ट्वेमां भवतो व्यथाम् ॥ ७१ ॥
भवतश्च प्रशंसाभिर्निन्दाभिरितरस्य च ।कथायुक्ताः परिषदः पृथग्राजन्समागताः ॥ ७२ ॥
इदमभ्यधिकं राजन्ब्राह्मणा गुरवश्च ते ।समेताः कथयन्तीह मुदिताः सत्यसंधताम् ॥ ७३ ॥
यन्न मोहान्न कार्पण्यान्न लोभान्न भयादपि ।अनृतं किंचिदुक्तं ते न कामान्नार्थकारणात् ॥ ७४ ॥
यदेनः कुरुते किंचिद्राजा भूमिमवाप्नुवन् ।सर्वं तन्नुदते पश्चाद्यज्ञैर्विपुलदक्षिणैः ॥ ७५ ॥
ब्राह्मणेभ्यो ददद्ग्रामान्गाश्च राजन्सहस्रशः ।मुच्यते सर्वपापेभ्यस्तमोभ्य इव चन्द्रमाः ॥ ७६ ॥
पौरजानपदाः सर्वे प्रायशः कुरुनन्दन ।सवृद्धबालाः सहिताः शंसन्ति त्वां युधिष्ठिर ॥ ७७ ॥
श्वदृतौ क्षीरमासक्तं ब्रह्म वा वृषले यथा ।सत्यं स्तेने बलं नार्यां राज्यं दुर्योधने तथा ॥ ७८ ॥
इति निर्वचनं लोके चिरं चरति भारत ।अपि चैतत्स्त्रियो बालाः स्वाध्यायमिव कुर्वते ॥ ७९ ॥
स भवान्रथमास्थाय सर्वोपकरणान्वितम् ।त्वरमाणोऽभिनिर्यातु चिरमर्थोपपादकम् ॥ ८० ॥
वाचयित्वा द्विजश्रेष्ठानद्यैव गजसाह्वयम् ।अस्त्रविद्भिः परिवृतो भ्रातृभिर्दृढधन्विभिः ।आशीविषसमैर्वीरैर्मरुद्भिरिव वृत्रहा ॥ ८१ ॥
अमित्रांस्तेजसा मृद्नन्नसुरेभ्य इवारिहा ।श्रियमादत्स्व कौन्तेय धार्तराष्ट्रान्महाबल ॥ ८२ ॥
न हि गाण्डीवमुक्तानां शराणां गार्ध्रवाससाम् ।स्पर्शमाशीविषाभानां मर्त्यः कश्चन संसहेत् ॥ ८३ ॥
न स वीरो न मातङ्गो न सदश्वोऽस्ति भारत ।यः सहेत गदावेगं मम क्रुद्धस्य संयुगे ॥ ८४ ॥
सृञ्जयैः सह कैकेयैर्वृष्णीनामृषभेण च ।कथं स्विद्युधि कौन्तेय राज्यं न प्राप्नुयामहे ॥ ८५ ॥
« »