Click on words to see what they mean.

वैशंपायन उवाच ।शौनकेनैवमुक्तस्तु कुन्तीपुत्रो युधिष्ठिरः ।पुरोहितमुपागम्य भ्रातृमध्येऽब्रवीदिदम् ॥ १ ॥
प्रस्थितं मानुयान्तीमे ब्राह्मणा वेदपारगाः ।न चास्मि पालने शक्तो बहुदुःखसमन्वितः ॥ २ ॥
परित्यक्तुं न शक्नोमि दानशक्तिश्च नास्ति मे ।कथमत्र मया कार्यं भगवांस्तद्ब्रवीतु मे ॥ ३ ॥
मुहूर्तमिव स ध्यात्वा धर्मेणान्विष्य तां गतिम् ।युधिष्ठिरमुवाचेदं धौम्यो धर्मभृतां वरः ॥ ४ ॥
पुरा सृष्टानि भूतानि पीड्यन्ते क्षुधया भृशम् ।ततोऽनुकम्पया तेषां सविता स्वपिता इव ॥ ५ ॥
गत्वोत्तरायणं तेजोरसानुद्धृत्य रश्मिभिः ।दक्षिणायनमावृत्तो महीं निविशते रविः ॥ ६ ॥
क्षेत्रभूते ततस्तस्मिन्नोषधीरोषधीपतिः ।दिवस्तेजः समुद्धृत्य जनयामास वारिणा ॥ ७ ॥
निषिक्तश्चन्द्रतेजोभिः सूयते भूगतो रविः ।ओषध्यः षड्रसा मेध्यास्तदन्नं प्राणिनां भुवि ॥ ८ ॥
एवं भानुमयं ह्यन्नं भूतानां प्राणधारणम् ।पितैष सर्वभूतानां तस्मात्तं शरणं व्रज ॥ ९ ॥
राजानो हि महात्मानो योनिकर्मविशोधिताः ।उद्धरन्ति प्रजाः सर्वास्तप आस्थाय पुष्कलम् ॥ १० ॥
भीमेन कार्तवीर्येण वैन्येन नहुषेण च ।तपोयोगसमाधिस्थैरुद्धृता ह्यापदः प्रजाः ॥ ११ ॥
तथा त्वमपि धर्मात्मन्कर्मणा च विशोधितः ।तप आस्थाय धर्मेण द्विजातीन्भर भारत ॥ १२ ॥
एवमुक्तस्तु धौम्येन तत्कालसदृशं वचः ।धर्मराजो विशुद्धात्मा तप आतिष्ठदुत्तमम् ॥ १३ ॥
पुष्पोपहारैर्बलिभिरर्चयित्वा दिवाकरम् ।योगमास्थाय धर्मात्मा वायुभक्षो जितेन्द्रियः ।गाङ्गेयं वार्युपस्पृष्य प्राणायामेन तस्थिवान् ॥ १४ ॥
जनमेजय उवाच ।कथं कुरूणामृषभः स तु राजा युधिष्ठिरः ।विप्रार्थमाराधितवान्सूर्यमद्भुतविक्रमम् ॥ १५ ॥
वैशंपायन उवाच ।शृणुष्वावहितो राजञ्शुचिर्भूत्वा समाहितः ।क्षणं च कुरु राजेन्द्र सर्वं वक्ष्याम्यशेषतः ॥ १६ ॥
धौम्येन तु यथ प्रोक्तं पार्थाय सुमहात्मने ।नाम्नामष्टशतं पुण्यं तच्छृणुष्व महामते ॥ १७ ॥
सूर्योऽर्यमा भगस्त्वष्टा पूषार्कः सविता रविः ।गभस्तिमानजः कालो मृत्युर्धाता प्रभाकरः ॥ १८ ॥
पृथिव्यापश्च तेजश्च खं वायुश्च परायणम् ।सोमो बृहस्पतिः शुक्रो बुधोऽङ्गारक एव च ॥ १९ ॥
इन्द्रो विवस्वान्दीप्तांशुः शुचिः शौरिः शनैश्चरः ।ब्रह्मा विष्णुश्च रुद्रश्च स्कन्दो वैश्रवणो यमः ॥ २० ॥
वैद्युतो जाठरश्चाग्निरैन्धनस्तेजसां पतिः ।धर्मध्वजो वेदकर्ता वेदाङ्गो वेदवाहनः ॥ २१ ॥
कृतं त्रेता द्वापरश्च कलिः सर्वामराश्रयः ।कला काष्ठा मुहूर्ताश्च पक्षा मासा ऋतुस्तथा ॥ २२ ॥
संवत्सरकरोऽश्वत्थः कालचक्रो विभावसुः ।पुरुषः शाश्वतो योगी व्यक्ताव्यक्तः सनातनः ॥ २३ ॥
लोकाध्यक्षः प्रजाध्यक्षो विश्वकर्मा तमोनुदः ।वरुणः सागरोंऽशुश्च जीमूतो जीवनोऽरिहा ॥ २४ ॥
भूताश्रयो भूतपतिः सर्वभूतनिषेवितः ।मणिः सुवर्णो भूतादिः कामदः सर्वतोमुखः ॥ २५ ॥
जयो विशालो वरदः शीघ्रगः प्राणधारणः ।धन्वन्तरिर्धूमकेतुरादिदेवोऽदितेः सुतः ॥ २६ ॥
द्वादशात्मारविन्दाक्षः पिता माता पितामहः ।स्वर्गद्वारं प्रजाद्वारं मोक्षद्वारं त्रिविष्टपम् ॥ २७ ॥
देहकर्ता प्रशान्तात्मा विश्वात्मा विश्वतोमुखः ।चराचरात्मा सूक्ष्मात्मा मैत्रेण वपुषान्वितः ॥ २८ ॥
एतद्वै कीर्तनीयस्य सूर्यस्यैव महात्मनः ।नाम्नामष्टशतं पुण्यं शक्रेणोक्तं महात्मना ॥ २९ ॥
शक्राच्च नारदः प्राप्तो धौम्यश्च तदनन्तरम् ।धौम्याद्युधिष्ठिरः प्राप्य सर्वान्कामानवाप्तवान् ॥ ३० ॥
सुरपितृगणयक्षसेवितं ह्यसुरनिशाचरसिद्धवन्दितम् ।वरकनकहुताशनप्रभं त्वमपि मनस्यभिधेहि भास्करम् ॥ ३१ ॥
सूर्योदये यस्तु समाहितः पठेत्स पुत्रलाभं धनरत्नसंचयान् ।लभेत जातिस्मरतां सदा नरः स्मृतिं च मेधां च स विन्दते पराम् ॥ ३२ ॥
इमं स्तवं देववरस्य यो नरः प्रकीर्तयेच्छुचिसुमनाः समाहितः ।स मुच्यते शोकदवाग्निसागराल्लभेत कामान्मनसा यथेप्सितान् ॥ ३३ ॥
« »