Click on words to see what they mean.

वैशंपायन उवाच ।धर्मेण तेऽभ्यनुज्ञाताः पाण्डवाः सत्यविक्रमाः ।अज्ञातवासं वत्स्यन्तश्छन्ना वर्षं त्रयोदशम् ।उपोपविश्य विद्वांसः सहिताः संशितव्रताः ॥ १ ॥
ये तद्भक्ता वसन्ति स्म वनवासे तपस्विनः ।तानब्रुवन्महात्मानः शिष्टाः प्राञ्जलयस्तदा ।अभ्यनुज्ञापयिष्यन्तस्तं निवासं धृतव्रताः ॥ २ ॥
विदितं भवतां सर्वं धार्तराष्ट्रैर्यथा वयम् ।छद्मना हृतराज्याश्च निःस्वाश्च बहुशः कृताः ॥ ३ ॥
उषिताश्च वने कृच्छ्रं यत्र द्वादश वत्सरान् ।अज्ञातवाससमयं शेषं वर्षं त्रयोदशम् ।तद्वत्स्यामो वयं छन्नास्तदनुज्ञातुमर्हथ ॥ ४ ॥
सुयोधनश्च दुष्टात्मा कर्णश्च सहसौबलः ।जानन्तो विषमं कुर्युरस्मास्वत्यन्तवैरिणः ।युक्ताचाराश्च युक्ताश्च पौरस्य स्वजनस्य च ॥ ५ ॥
अपि नस्तद्भवेद्भूयो यद्वयं ब्राह्मणैः सह ।समस्ताः स्वेषु राष्ट्रेषु स्वराज्यस्था भवेमहि ॥ ६ ॥
इत्युक्त्वा दुःखशोकार्तः शुचिर्धर्मसुतस्तदा ।संमूर्छितोऽभवद्राजा साश्रुकण्ठो युधिष्ठिरः ॥ ७ ॥
तमथाश्वासयन्सर्वे ब्राह्मणा भ्रातृभिः सह ।अथ धौम्योऽब्रवीद्वाक्यं महार्थं नृपतिं तदा ॥ ८ ॥
राजन्विद्वान्भवान्दान्तः सत्यसंधो जितेन्द्रियः ।नैवंविधाः प्रमुह्यन्ति नराः कस्यांचिदापदि ॥ ९ ॥
देवैरप्यापदः प्राप्ताश्छन्नैश्च बहुशस्तथा ।तत्र तत्र सपत्नानां निग्रहार्थं महात्मभिः ॥ १० ॥
इन्द्रेण निषधान्प्राप्य गिरिप्रस्थाश्रमे तदा ।छन्नेनोष्य कृतं कर्म द्विषतां बलनिग्रहे ॥ ११ ॥
विष्णुनाश्वशिरः प्राप्य तथादित्यां निवत्स्यता ।गर्भे वधार्थं दैत्यानामज्ञातेनोषितं चिरम् ॥ १२ ॥
प्राप्य वामनरूपेण प्रच्छन्नं ब्रह्मरूपिणा ।बलेर्यथा हृतं राज्यं विक्रमैस्तच्च ते श्रुतम् ॥ १३ ॥
और्वेण वसता छन्नमूरौ ब्रह्मर्षिणा तदा ।यत्कृतं तात लोकेषु तच्च सर्वं श्रुतं त्वया ॥ १४ ॥
प्रच्छन्नं चापि धर्मज्ञ हरिणा वृत्रनिग्रहे ।वज्रं प्रविश्य शक्रस्य यत्कृतं तच्च ते श्रुतम् ॥ १५ ॥
हुताशनेन यच्चापः प्रविश्य छन्नमासता ।विबुधानां कृतं कर्म तच्च सर्वं श्रुतं त्वया ॥ १६ ॥
एवं विवस्वता तात छन्नेनोत्तमतेजसा ।निर्दग्धाः शत्रवः सर्वे वसता भुवि सर्वशः ॥ १७ ॥
विष्णुना वसता चापि गृहे दशरथस्य वै ।दशग्रीवो हतश्छन्नं संयुगे भीमकर्मणा ॥ १८ ॥
एवमेते महात्मानः प्रच्छन्नास्तत्र तत्र ह ।अजयञ्शात्रवान्युद्धे तथा त्वमपि जेष्यसि ॥ १९ ॥
तथा धौम्येन धर्मज्ञो वाक्यैः संपरितोषितः ।शास्त्रबुद्ध्या स्वबुद्ध्या च न चचाल युधिष्ठिरः ॥ २० ॥
अथाब्रवीन्महाबाहुर्भीमसेनो महाबलः ।राजानं बलिनां श्रेष्ठो गिरा संपरिहर्षयन् ॥ २१ ॥
अवेक्षया महाराज तव गाण्डीवधन्वना ।धर्मानुगतया बुद्ध्या न किंचित्साहसं कृतम् ॥ २२ ॥
सहदेवो मया नित्यं नकुलश्च निवारितौ ।शक्तौ विध्वंसने तेषां शत्रुघ्नौ भीमविक्रमौ ॥ २३ ॥
न वयं तत्प्रहास्यामो यस्मिन्योक्ष्यति नो भवान् ।भवान्विधत्तां तत्सर्वं क्षिप्रं जेष्यामहे परान् ॥ २४ ॥
इत्युक्ते भीमसेनेन ब्राह्मणाः परमाशिषः ।प्रयुज्यापृच्छ्य भरतान्यथास्वान्स्वान्ययुर्गृहान् ॥ २५ ॥
सर्वे वेदविदो मुख्या यतयो मुनयस्तथा ।आशीरुक्त्वा यथान्यायं पुनर्दर्शनकाङ्क्षिणः ॥ २६ ॥
सह धौम्येन विद्वांसस्तथा ते पञ्च पाण्डवाः ।उत्थाय प्रययुर्वीराः कृष्णामादाय भारत ॥ २७ ॥
क्रोशमात्रमतिक्रम्य तस्माद्देशान्निमित्ततः ।श्वोभूते मनुजव्याघ्राश्छन्नवासार्थमुद्यताः ॥ २८ ॥
पृथक्शास्त्रविदः सर्वे सर्वे मन्त्रविशारदाः ।संधिविग्रहकालज्ञा मन्त्राय समुपाविशन् ॥ २९ ॥
« »