Click on words to see what they mean.

वैशंपायन उवाच ।ततस्ते यक्षवचनादुदतिष्ठन्त पाण्डवाः ।क्षुत्पिपासे च सर्वेषां क्षणे तस्मिन्व्यगच्छताम् ॥ १ ॥
युधिष्ठिर उवाच ।सरस्येकेन पादेन तिष्ठन्तमपराजितम् ।पृच्छामि को भवान्देवो न मे यक्षो मतो भवान् ॥ २ ॥
वसूनां वा भवानेको रुद्राणामथ वा भवान् ।अथ वा मरुतां श्रेष्ठो वज्री वा त्रिदशेश्वरः ॥ ३ ॥
मम हि भ्रातर इमे सहस्रशतयोधिनः ।न तं योगं प्रपश्यामि येन स्युर्विनिपातिताः ॥ ४ ॥
सुखं प्रतिविबुद्धानामिन्द्रियाण्युपलक्षये ।स भवान्सुहृदस्माकमथ वा नः पिता भवान् ॥ ५ ॥
यक्ष उवाच ।अहं ते जनकस्तात धर्मो मृदुपराक्रम ।त्वां दिदृक्षुरनुप्राप्तो विद्धि मां भरतर्षभ ॥ ६ ॥
यशः सत्यं दमः शौचमार्जवं ह्रीरचापलम् ।दानं तपो ब्रह्मचर्यमित्येतास्तनवो मम ॥ ७ ॥
अहिंसा समता शान्तिस्तपः शौचममत्सरः ।द्वाराण्येतानि मे विद्धि प्रियो ह्यसि सदा मम ॥ ८ ॥
दिष्ट्या पञ्चसु रक्तोऽसि दिष्ट्या ते षट्पदी जिता ।द्वे पूर्वे मध्यमे द्वे च द्वे चान्ते सांपरायिके ॥ ९ ॥
धर्मोऽहमस्मि भद्रं ते जिज्ञासुस्त्वामिहागतः ।आनृशंस्येन तुष्टोऽस्मि वरं दास्यामि तेऽनघ ॥ १० ॥
वरं वृणीष्व राजेन्द्र दाता ह्यस्मि तवानघ ।ये हि मे पुरुषा भक्ता न तेषामस्ति दुर्गतिः ॥ ११ ॥
युधिष्ठिर उवाच ।अरणीसहितं यस्य मृग आदाय गच्छति ।तस्याग्नयो न लुप्येरन्प्रथमोऽस्तु वरो मम ॥ १२ ॥
धर्म उवाच ।अरणीसहितं तस्य ब्राह्मणस्य हृतं मया ।मृगवेषेण कौन्तेय जिज्ञासार्थं तव प्रभो ॥ १३ ॥
वैशंपायन उवाच ।ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।अन्यं वरय भद्रं ते वरं त्वममरोपम ॥ १४ ॥
युधिष्ठिर उवाच ।वर्षाणि द्वादशारण्ये त्रयोदशमुपस्थितम् ।तत्र नो नाभिजानीयुर्वसतो मनुजाः क्वचित् ॥ १५ ॥
वैशंपायन उवाच ।ददानीत्येव भगवानुत्तरं प्रत्यपद्यत ।भूयश्चाश्वासयामास कौन्तेयं सत्यविक्रमम् ॥ १६ ॥
यद्यपि स्वेन रूपेण चरिष्यथ महीमिमाम् ।न वो विज्ञास्यते कश्चित्त्रिषु लोकेषु भारत ॥ १७ ॥
वर्षं त्रयोदशं चेदं मत्प्रसादात्कुरूद्वहाः ।विराटनगरे गूढा अविज्ञाताश्चरिष्यथ ॥ १८ ॥
यद्वः संकल्पितं रूपं मनसा यस्य यादृशम् ।तादृशं तादृशं सर्वे छन्दतो धारयिष्यथ ॥ १९ ॥
अरणीसहितं चेदं ब्राह्मणाय प्रयच्छत ।जिज्ञासार्थं मया ह्येतदाहृतं मृगरूपिणा ॥ २० ॥
तृतीयं गृह्यतां पुत्र वरमप्रतिमं महत् ।त्वं हि मत्प्रभवो राजन्विदुरश्च ममांशभाक् ॥ २१ ॥
युधिष्ठिर उवाच ।देवदेवो मया दृष्टो भवान्साक्षात्सनातनः ।यं ददासि वरं तुष्टस्तं ग्रहीष्याम्यहं पितः ॥ २२ ॥
जयेयं लोभमोहौ च क्रोधं चाहं सदा विभो ।दाने तपसि सत्ये च मनो मे सततं भवेत् ॥ २३ ॥
धर्म उवाच ।उपपन्नो गुणैः सर्वैः स्वभावेनासि पाण्डव ।भवान्धर्मः पुनश्चैव यथोक्तं ते भविष्यति ॥ २४ ॥
वैशंपायन उवाच ।इत्युक्त्वान्तर्दधे धर्मो भगवाँल्लोकभावनः ।समेताः पाण्डवाश्चैव सुखसुप्ता मनस्विनः ॥ २५ ॥
अभ्येत्य चाश्रमं वीराः सर्व एव गतक्लमाः ।आरणेयं ददुस्तस्मै ब्राह्मणाय तपस्विने ॥ २६ ॥
इदं समुत्थानसमागमं महत्पितुश्च पुत्रस्य च कीर्तिवर्धनम् ।पठन्नरः स्याद्विजितेन्द्रियो वशी सपुत्रपौत्रः शतवर्षभाग्भवेत् ॥ २७ ॥
न चाप्यधर्मे न सुहृद्विभेदने परस्वहारे परदारमर्शने ।कदर्यभावे न रमेन्मनः सदा नृणां सदाख्यानमिदं विजानताम् ॥ २८ ॥
« »