Click on words to see what they mean.

युधिष्ठिर उवाच ।नापदामस्ति मर्यादा न निमित्तं न कारणम् ।धर्मस्तु विभजत्यत्र उभयोः पुण्यपापयोः ॥ १ ॥
भीम उवाच ।प्रातिकाम्यनयत्कृष्णां सभायां प्रेष्यवत्तदा ।न मया निहतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ २ ॥
अर्जुन उवाच ।वाचस्तीक्ष्णास्थिभेदिन्यः सूतपुत्रेण भाषिताः ।अतितीक्ष्णा मया क्षान्तास्तेन प्राप्ताः स्म संशयम् ॥ ३ ॥
सहदेव उवाच ।शकुनिस्त्वां यदाजैषीदक्षद्यूतेन भारत ।स मया न हतस्तत्र तेन प्राप्ताः स्म संशयम् ॥ ४ ॥
वैशंपायन उवाच ।ततो युधिष्ठिरो राजा नकुलं वाक्यमब्रवीत् ।आरुह्य वृक्षं माद्रेय निरीक्षस्व दिशो दश ॥ ५ ॥
पानीयमन्तिके पश्य वृक्षान्वाप्युदकाश्रयान् ।इमे हि भ्रातरः श्रान्तास्तव तात पिपासिताः ॥ ६ ॥
नकुलस्तु तथेत्युक्त्वा शीघ्रमारुह्य पादपम् ।अब्रवीद्भ्रातरं ज्येष्ठमभिवीक्ष्य समन्ततः ॥ ७ ॥
पश्यामि बहुलान्राजन्वृक्षानुदकसंश्रयान् ।सारसानां च निर्ह्रादमत्रोदकमसंशयम् ॥ ८ ॥
ततोऽब्रवीत्सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः ।गच्छ सौम्य ततः शीघ्रं तूर्णं पानीयमानय ॥ ९ ॥
नकुलस्तु तथेत्युक्त्वा भ्रातुर्ज्येष्ठस्य शासनात् ।प्राद्रवद्यत्र पानीयं शीघ्रं चैवान्वपद्यत ॥ १० ॥
स दृष्ट्वा विमलं तोयं सारसैः परिवारितम् ।पातुकामस्ततो वाचमन्तरिक्षात्स शुश्रुवे ॥ ११ ॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।प्रश्नानुक्त्वा तु माद्रेय ततः पिब हरस्व च ॥ १२ ॥
अनादृत्य तु तद्वाक्यं नकुलः सुपिपासितः ।अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १३ ॥
चिरायमाणे नकुले कुन्तीपुत्रो युधिष्ठिरः ।अब्रवीद्भ्रातरं वीरं सहदेवमरिंदमम् ॥ १४ ॥
भ्राता चिरायते तात सहदेव तवाग्रजः ।तं चैवानय सोदर्यं पानीयं च त्वमानय ॥ १५ ॥
सहदेवस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।ददर्श च हतं भूमौ भ्रातरं नकुलं तदा ॥ १६ ॥
भ्रातृशोकाभिसंतप्तस्तृषया च प्रपीडितः ।अभिदुद्राव पानीयं ततो वागभ्यभाषत ॥ १७ ॥
मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।प्रश्नानुक्त्वा यथाकामं ततः पिब हरस्व च ॥ १८ ॥
अनादृत्य तु तद्वाक्यं सहदेवः पिपासितः ।अपिबच्छीतलं तोयं पीत्वा च निपपात ह ॥ १९ ॥
अथाब्रवीत्स विजयं कुन्तीपुत्रो युधिष्ठिरः ।भ्रातरौ ते चिरगतौ बीभत्सो शत्रुकर्शन ।तौ चैवानय भद्रं ते पानीयं च त्वमानय ॥ २० ॥
एवमुक्तो गुडाकेशः प्रगृह्य सशरं धनुः ।आमुक्तखड्गो मेधावी तत्सरः प्रत्यपद्यत ॥ २१ ॥
यतः पुरुषशार्दूलौ पानीयहरणे गतौ ।तौ ददर्श हतौ तत्र भ्रातरौ श्वेतवाहनः ॥ २२ ॥
प्रसुप्ताविव तौ दृष्ट्वा नरसिंहः सुदुःखितः ।धनुरुद्यम्य कौन्तेयो व्यलोकयत तद्वनम् ॥ २३ ॥
नापश्यत्तत्र किंचित्स भूतं तस्मिन्महावने ।सव्यसाची ततः श्रान्तः पानीयं सोऽभ्यधावत ॥ २४ ॥
अभिधावंस्ततो वाचमन्तरिक्षात्स शुश्रुवे ।किमासीदसि पानीयं नैतच्छक्यं बलात्त्वया ॥ २५ ॥
कौन्तेय यदि वै प्रश्नान्मयोक्तान्प्रतिपत्स्यसे ।ततः पास्यसि पानीयं हरिष्यसि च भारत ॥ २६ ॥
वारितस्त्वब्रवीत्पार्थो दृश्यमानो निवारय ।यावद्बाणैर्विनिर्भिन्नः पुनर्नैवं वदिष्यसि ॥ २७ ॥
एवमुक्त्वा ततः पार्थः शरैरस्त्रानुमन्त्रितैः ।ववर्ष तां दिशं कृत्स्नां शब्दवेधं च दर्शयन् ॥ २८ ॥
कर्णिनालीकनाराचानुत्सृजन्भरतर्षभ ।अनेकैरिषुसंघातैरन्तरिक्षं ववर्ष ह ॥ २९ ॥
यक्ष उवाच ।किं विघातेन ते पार्थ प्रश्नानुक्त्वा ततः पिब ।अनुक्त्वा तु ततः प्रश्नान्पीत्वैव न भविष्यसि ॥ ३० ॥
वैशंपायन उवाच ।स त्वमोघानिषून्मुक्त्वा तृष्णयाभिप्रपीडितः ।अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३१ ॥
अथाब्रवीद्भीमसेनं कुन्तीपुत्रो युधिष्ठिरः ।नकुलः सहदेवश्च बीभत्सुश्चापराजितः ॥ ३२ ॥
चिरं गतास्तोयहेतोर्न चागच्छन्ति भारत ।तांश्चैवानय भद्रं ते पानीयं च त्वमानय ॥ ३३ ॥
भीमसेनस्तथेत्युक्त्वा तां दिशं प्रत्यपद्यत ।यत्र ते पुरुषव्याघ्रा भ्रातरोऽस्य निपातिताः ॥ ३४ ॥
तान्दृष्ट्वा दुःखितो भीमस्तृषया च प्रपीडितः ।अमन्यत महाबाहुः कर्म तद्यक्षरक्षसाम् ।स चिन्तयामास तदा योद्धव्यं ध्रुवमद्य मे ॥ ३५ ॥
पास्यामि तावत्पानीयमिति पार्थो वृकोदरः ।ततोऽभ्यधावत्पानीयं पिपासुः पुरुषर्षभः ॥ ३६ ॥
यक्ष उवाच ।मा तात साहसं कार्षीर्मम पूर्वपरिग्रहः ।प्रश्नानुक्त्वा तु कौन्तेय ततः पिब हरस्व च ॥ ३७ ॥
वैशंपायन उवाच ।एवमुक्तस्ततो भीमो यक्षेणामिततेजसा ।अविज्ञायैव तान्प्रश्नान्पीत्वैव निपपात ह ॥ ३८ ॥
ततः कुन्तीसुतो राजा विचिन्त्य पुरुषर्षभः ।समुत्थाय महाबाहुर्दह्यमानेन चेतसा ॥ ३९ ॥
अपेतजननिर्घोषं प्रविवेश महावनम् ।रुरुभिश्च वराहैश्च पक्षिभिश्च निषेवितम् ॥ ४० ॥
नीलभास्वरवर्णैश्च पादपैरुपशोभितम् ।भ्रमरैरुपगीतं च पक्षिभिश्च महायशाः ॥ ४१ ॥
स गच्छन्कानने तस्मिन्हेमजालपरिष्कृतम् ।ददर्श तत्सरः श्रीमान्विश्वकर्मकृतं यथा ॥ ४२ ॥
उपेतं नलिनीजालैः सिन्धुवारैश्च वेतसैः ।केतकैः करवीरैश्च पिप्पलैश्चैव संवृतम् ।श्रमार्तस्तदुपागम्य सरो दृष्ट्वाथ विस्मितः ॥ ४३ ॥
« »