Click on words to see what they mean.

जनमेजय उवाच ।एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।प्रतिलभ्य ततः कृष्णां किमकुर्वत पाण्डवाः ॥ १ ॥
वैशंपायन उवाच ।एवं हृतायां कृष्णायां प्राप्य क्लेशमनुत्तमम् ।विहाय काम्यकं राजा सह भ्रातृभिरच्युतः ॥ २ ॥
पुनर्द्वैतवनं रम्यमाजगाम युधिष्ठिरः ।स्वादुमूलफलं रम्यं मार्कण्डेयाश्रमं प्रति ॥ ३ ॥
अनुगुप्तफलाहाराः सर्व एव मिताशनाः ।न्यवसन्पाण्डवास्तत्र कृष्णया सह भारत ॥ ४ ॥
वसन्द्वैतवने राजा कुन्तीपुत्रो युधिष्ठिरः ।भीमसेनोऽर्जुनश्चैव माद्रीपुत्रौ च पाण्डवौ ॥ ५ ॥
ब्राह्मणार्थे पराक्रान्ता धर्मात्मानो यतव्रताः ।क्लेशमार्छन्त विपुलं सुखोदर्कं परंतपाः ॥ ६ ॥
अजातशत्रुमासीनं भ्रातृभिः सहितं वने ।आगम्य ब्राह्मणस्तूर्णं संतप्त इदमब्रवीत् ॥ ७ ॥
अरणीसहितं मह्यं समासक्तं वनस्पतौ ।मृगस्य घर्षमाणस्य विषाणे समसज्जत ॥ ८ ॥
तदादाय गतो राजंस्त्वरमाणो महामृगः ।आश्रमात्त्वरितः शीघ्रं प्लवमानो महाजवः ॥ ९ ॥
तस्य गत्वा पदं शीघ्रमासाद्य च महामृगम् ।अग्निहोत्रं न लुप्येत तदानयत पाण्डवाः ॥ १० ॥
ब्राह्मणस्य वचः श्रुत्वा संतप्तोऽथ युधिष्ठिरः ।धनुरादाय कौन्तेयः प्राद्रवद्भ्रातृभिः सह ॥ ११ ॥
सन्नद्धा धन्विनः सर्वे प्राद्रवन्नरपुंगवाः ।ब्राह्मणार्थे यतन्तस्ते शीघ्रमन्वगमन्मृगम् ॥ १२ ॥
कर्णिनालीकनाराचानुत्सृजन्तो महारथाः ।नाविध्यन्पाण्डवास्तत्र पश्यन्तो मृगमन्तिकात् ॥ १३ ॥
तेषां प्रयतमानानां नादृश्यत महामृगः ।अपश्यन्तो मृगं श्रान्ता दुःखं प्राप्ता मनस्विनः ॥ १४ ॥
शीतलच्छायमासाद्य न्यग्रोधं गहने वने ।क्षुत्पिपासापरीताङ्गाः पाण्डवाः समुपाविशन् ॥ १५ ॥
तेषां समुपविष्टानां नकुलो दुःखितस्तदा ।अब्रवीद्भ्रातरं ज्येष्ठममर्षात्कुरुसत्तम ॥ १६ ॥
नास्मिन्कुले जातु ममज्ज धर्मो न चालस्यादर्थलोपो बभूव ।अनुत्तराः सर्वभूतेषु भूयः संप्राप्ताः स्मः संशयं केन राजन् ॥ १७ ॥
« »