Click on words to see what they mean.

वैशंपायन उवाच ।देवराजमनुप्राप्तं ब्राह्मणच्छद्मना वृषः ।दृष्ट्वा स्वागतमित्याह न बुबोधास्य मानसम् ॥ १ ॥
हिरण्यकण्ठीः प्रमदा ग्रामान्वा बहुगोकुलान् ।किं ददानीति तं विप्रमुवाचाधिरथिस्ततः ॥ २ ॥
ब्राह्मण उवाच ।हिरण्यकण्ठ्यः प्रमदा यच्चान्यत्प्रीतिवर्धनम् ।नाहं दत्तमिहेच्छामि तदर्थिभ्यः प्रदीयताम् ॥ ३ ॥
यदेतत्सहजं वर्म कुण्डले च तवानघ ।एतदुत्कृत्य मे देहि यदि सत्यव्रतो भवान् ॥ ४ ॥
एतदिच्छाम्यहं क्षिप्रं त्वया दत्तं परंतप ।एष मे सर्वलाभानां लाभः परमको मतः ॥ ५ ॥
कर्ण उवाच ।अवनिं प्रमदा गाश्च निर्वापं बहुवार्षिकम् ।तत्ते विप्र प्रदास्यामि न तु वर्म न कुण्डले ॥ ६ ॥
वैशंपायन उवाच ।एवं बहुविधैर्वाक्यैर्याच्यमानः स तु द्विजः ।कर्णेन भरतश्रेष्ठ नान्यं वरमयाचत ॥ ७ ॥
सान्त्वितश्च यथाशक्ति पूजितश्च यथाविधि ।नैवान्यं स द्विजश्रेष्ठः कामयामास वै वरम् ॥ ८ ॥
यदा नान्यं प्रवृणुते वरं वै द्विजसत्तमः ।तदैनमब्रवीद्भूयो राधेयः प्रहसन्निव ॥ ९ ॥
सहजं वर्म मे विप्र कुण्डले चामृतोद्भवे ।तेनावध्योऽस्मि लोकेषु ततो नैतद्ददाम्यहम् ॥ १० ॥
विशालं पृथिवीराज्यं क्षेमं निहतकण्टकम् ।प्रतिगृह्णीष्व मत्तस्त्वं साधु ब्राह्मणपुंगव ॥ ११ ॥
कुण्डलाभ्यां विमुक्तोऽहं वर्मणा सहजेन च ।गमनीयो भविष्यामि शत्रूणां द्विजसत्तम ॥ १२ ॥
यदा नान्यं वरं वव्रे भगवान्पाकशासनः ।ततः प्रहस्य कर्णस्तं पुनरित्यब्रवीद्वचः ॥ १३ ॥
विदितो देवदेवेश प्रागेवासि मम प्रभो ।न तु न्याय्यं मया दातुं तव शक्र वृथा वरम् ॥ १४ ॥
त्वं हि देवेश्वरः साक्षात्त्वया देयो वरो मम ।अन्येषां चैव भूतानामीश्वरो ह्यसि भूतकृत् ॥ १५ ॥
यदि दास्यामि ते देव कुण्डले कवचं तथा ।वध्यतामुपयास्यामि त्वं च शक्रावहास्यताम् ॥ १६ ॥
तस्माद्विनिमयं कृत्वा कुण्डले वर्म चोत्तमम् ।हरस्व शक्र कामं मे न दद्यामहमन्यथा ॥ १७ ॥
शक्र उवाच ।विदितोऽहं रवेः पूर्वमायन्नेव तवान्तिकम् ।तेन ते सर्वमाख्यातमेवमेतन्न संशयः ॥ १८ ॥
काममस्तु तथा तात तव कर्ण यथेच्छसि ।वर्जयित्वा तु मे वज्रं प्रवृणीष्व यदिच्छसि ॥ १९ ॥
वैशंपायन उवाच ।ततः कर्णः प्रहृष्टस्तु उपसंगम्य वासवम् ।अमोघां शक्तिमभ्येत्य वव्रे संपूर्णमानसः ॥ २० ॥
कर्ण उवाच ।वर्मणा कुण्डलाभ्यां च शक्तिं मे देहि वासव ।अमोघां शत्रुसंघानां घातनीं पृतनामुखे ॥ २१ ॥
वैशंपायन उवाच ।ततः संचिन्त्य मनसा मुहूर्तमिव वासवः ।शक्त्यर्थं पृथिवीपाल कर्णं वाक्यमथाब्रवीत् ॥ २२ ॥
कुण्डले मे प्रयच्छस्व वर्म चैव शरीरजम् ।गृहाण कर्ण शक्तिं त्वमनेन समयेन मे ॥ २३ ॥
अमोघा हन्ति शतशः शत्रून्मम करच्युता ।पुनश्च पाणिमभ्येति मम दैत्यान्विनिघ्नतः ॥ २४ ॥
सेयं तव करं प्राप्य हत्वैकं रिपुमूर्जितम् ।गर्जन्तं प्रतपन्तं च मामेवैष्यति सूतज ॥ २५ ॥
कर्ण उवाच ।एकमेवाहमिच्छामि रिपुं हन्तुं महाहवे ।गर्जन्तं प्रतपन्तं च यतो मम भयं भवेत् ॥ २६ ॥
इन्द्र उवाच ।एकं हनिष्यसि रिपुं गर्जन्तं बलिनं रणे ।त्वं तु यं प्रार्थयस्येकं रक्ष्यते स महात्मना ॥ २७ ॥
यमाहुर्वेदविद्वांसो वराहमजितं हरिम् ।नारायणमचिन्त्यं च तेन कृष्णेन रक्ष्यते ॥ २८ ॥
कर्ण उवाच ।एवमप्यस्तु भगवन्नेकवीरवधे मम ।अमोघा प्रवरा शक्तिर्येन हन्यां प्रतापिनम् ॥ २९ ॥
उत्कृत्य तु प्रदास्यामि कुण्डले कवचं च ते ।निकृत्तेषु च गात्रेषु न मे बीभत्सता भवेत् ॥ ३० ॥
इन्द्र उवाच ।न ते बीभत्सता कर्ण भविष्यति कथंचन ।व्रणश्चापि न गात्रेषु यस्त्वं नानृतमिच्छसि ॥ ३१ ॥
यादृशस्ते पितुर्वर्णस्तेजश्च वदतां वर ।तादृशेनैव वर्णेन त्वं कर्ण भविता पुनः ॥ ३२ ॥
विद्यमानेषु शस्त्रेषु यद्यमोघामसंशये ।प्रमत्तो मोक्ष्यसे चापि त्वय्येवैषा पतिष्यति ॥ ३३ ॥
कर्ण उवाच ।संशयं परमं प्राप्य विमोक्ष्ये वासवीमिमाम् ।यथा मामात्थ शक्र त्वं सत्यमेतद्ब्रवीमि ते ॥ ३४ ॥
वैशंपायन उवाच ।ततः शक्तिं प्रज्वलितां प्रतिगृह्य विशां पते ।शस्त्रं गृहीत्वा निशितं सर्वगात्राण्यकृन्तत ॥ ३५ ॥
ततो देवा मानवा दानवाश्च निकृन्तन्तं कर्णमात्मानमेवम् ।दृष्ट्वा सर्वे सिद्धसंघाश्च नेदुर्न ह्यस्यासीद्दुःखजो वै विकारः ॥ ३६ ॥
ततो दिव्या दुन्दुभयः प्रणेदुः पपातोच्चैः पुष्पवर्षं च दिव्यम् ।दृष्ट्वा कर्णं शस्त्रसंकृत्तगात्रं मुहुश्चापि स्मयमानं नृवीरम् ॥ ३७ ॥
ततश्छित्त्वा कवचं दिव्यमङ्गात्तथैवार्द्रं प्रददौ वासवाय ।तथोत्कृत्य प्रददौ कुण्डले ते वैकर्तनः कर्मणा तेन कर्णः ॥ ३८ ॥
ततः शक्रः प्रहसन्वञ्चयित्वा कर्णं लोके यशसा योजयित्वा ।कृतं कार्यं पाण्डवानां हि मेने ततः पश्चाद्दिवमेवोत्पपात ॥ ३९ ॥
श्रुत्वा कर्णं मुषितं धार्तराष्ट्रा दीनाः सर्वे भग्नदर्पा इवासन् ।तां चावस्थां गमितं सूतपुत्रं श्रुत्वा पार्था जहृषुः काननस्थाः ॥ ४० ॥
जनमेजय उवाच ।क्वस्था वीराः पाण्डवास्ते बभूवुः कुतश्चैतच्छ्रुतवन्तः प्रियं ते ।किं वाकार्षुर्द्वादशेऽब्दे व्यतीते तन्मे सर्वं भगवान्व्याकरोतु ॥ ४१ ॥
वैशंपायन उवाच ।लब्ध्वा कृष्णां सैन्धवं द्रावयित्वा विप्रैः सार्धं काम्यकादाश्रमात्ते ।मार्कण्डेयाच्छ्रुतवन्तः पुराणं देवर्षीणां चरितं विस्तरेण ॥ ४२ ॥
प्रत्याजग्मुः सरथाः सानुयात्राः सर्वैः सार्धं सूदपौरोगवैश्च ।ततः पुण्यं द्वैतवनं नृवीरा निस्तीर्योग्रं वनवासं समग्रम् ॥ ४३ ॥
« »