Click on words to see what they mean.

वैशंपायन उवाच ।एतस्मिन्नेव काले तु धृतराष्ट्रस्य वै सखा ।सूतोऽधिरथ इत्येव सदारो जाह्नवीं ययौ ॥ १ ॥
तस्य भार्याभवद्राजन्रूपेणासदृशी भुवि ।राधा नाम महाभागा न सा पुत्रमविन्दत ।अपत्यार्थे परं यत्नमकरोच्च विशेषतः ॥ २ ॥
सा ददर्शाथ मञ्जूषामुह्यमानां यदृच्छया ।दत्तरक्षाप्रतिसरामन्वालभनशोभिताम् ।ऊर्मीतरङ्गैर्जाह्नव्याः समानीतामुपह्वरम् ॥ ३ ॥
सा तां कौतूहलात्प्राप्तां ग्राहयामास भामिनी ।ततो निवेदयामास सूतस्याधिरथस्य वै ॥ ४ ॥
स तामुद्धृत्य मञ्जूषामुत्सार्य जलमन्तिकात् ।यन्त्रैरुद्घाटयामास सोऽपश्यत्तत्र बालकम् ॥ ५ ॥
तरुणादित्यसंकाशं हेमवर्मधरं तथा ।मृष्टकुण्डलयुक्तेन वदनेन विराजता ॥ ६ ॥
स सूतो भार्यया सार्धं विस्मयोत्फुल्ललोचनः ।अङ्कमारोप्य तं बालं भार्यां वचनमब्रवीत् ॥ ७ ॥
इदमत्यद्भुतं भीरु यतो जातोऽस्मि भामिनि ।दृष्टवान्देवगर्भोऽयं मन्येऽस्मान्समुपागतः ॥ ८ ॥
अनपत्यस्य पुत्रोऽयं देवैर्दत्तो ध्रुवं मम ।इत्युक्त्वा तं ददौ पुत्रं राधायै स महीपते ॥ ९ ॥
प्रतिजग्राह तं राधा विधिवद्दिव्यरूपिणम् ।पुत्रं कमलगर्भाभं देवगर्भं श्रिया वृतम् ॥ १० ॥
पुपोष चैनं विधिवद्ववृधे स च वीर्यवान् ।ततः प्रभृति चाप्यन्ये प्राभवन्नौरसाः सुताः ॥ ११ ॥
वसुवर्मधरं दृष्ट्वा तं बालं हेमकुण्डलम् ।नामास्य वसुषेणेति ततश्चक्रुर्द्विजातयः ॥ १२ ॥
एवं स सूतपुत्रत्वं जगामामितविक्रमः ।वसुषेण इति ख्यातो वृष इत्येव च प्रभुः ॥ १३ ॥
स ज्येष्ठपुत्रः सूतस्य ववृधेऽङ्गेषु वीर्यवान् ।चारेण विदितश्चासीत्पृथाया दिव्यवर्मभृत् ॥ १४ ॥
सूतस्त्वधिरथः पुत्रं विवृद्धं समये ततः ।दृष्ट्वा प्रस्थापयामास पुरं वारणसाह्वयम् ॥ १५ ॥
तत्रोपसदनं चक्रे द्रोणस्येष्वस्त्रकर्मणि ।सख्यं दुर्योधनेनैवमगच्छत्स च वीर्यवान् ॥ १६ ॥
द्रोणात्कृपाच्च रामाच्च सोऽस्त्रग्रामं चतुर्विधम् ।लब्ध्वा लोकेऽभवत्ख्यातः परमेष्वासतां गतः ॥ १७ ॥
संधाय धार्तराष्ट्रेण पार्थानां विप्रिये स्थितः ।योद्धुमाशंसते नित्यं फल्गुनेन महात्मना ॥ १८ ॥
सदा हि तस्य स्पर्धासीदर्जुनेन विशां पते ।अर्जुनस्य च कर्णेन यतो दृष्टो बभूव सः ॥ १९ ॥
तं तु कुण्डलिनं दृष्ट्वा वर्मणा च समन्वितम् ।अवध्यं समरे मत्वा पर्यतप्यद्युधिष्ठिरः ॥ २० ॥
यदा तु कर्णो राजेन्द्र भानुमन्तं दिवाकरम् ।स्तौति मध्यंदिने प्राप्ते प्राञ्जलिः सलिले स्थितः ॥ २१ ॥
तत्रैनमुपतिष्ठन्ति ब्राह्मणा धनहेतवः ।नादेयं तस्य तत्काले किंचिदस्ति द्विजातिषु ॥ २२ ॥
तमिन्द्रो ब्राह्मणो भूत्वा भिक्षां देहीत्युपस्थितः ।स्वागतं चेति राधेयस्तमथ प्रत्यभाषत ॥ २३ ॥
« »