Click on words to see what they mean.

वैशंपायन उवाच ।सा तु कन्या बहुविधं ब्रुवन्ती मधुरं वचः ।अनुनेतुं सहस्रांशुं न शशाक मनस्विनी ॥ १ ॥
न शशाक यदा बाला प्रत्याख्यातुं तमोनुदम् ।भीता शापात्ततो राजन्दध्यौ दीर्घमथान्तरम् ॥ २ ॥
अनागसः पितुः शापो ब्राह्मणस्य तथैव च ।मन्निमित्तः कथं न स्यात्क्रुद्धादस्माद्विभावसोः ॥ ३ ॥
बालेनापि सता मोहाद्भृशं सापह्नवान्यपि ।नात्यासादयितव्यानि तेजांसि च तपांसि च ॥ ४ ॥
साहमद्य भृशं भीता गृहीता च करे भृशम् ।कथं त्वकार्यं कुर्यां वै प्रदानं ह्यात्मनः स्वयम् ॥ ५ ॥
सैवं शापपरित्रस्ता बहु चिन्तयती तदा ।मोहेनाभिपरीताङ्गी स्मयमाना पुनः पुनः ॥ ६ ॥
तं देवमब्रवीद्भीता बन्धूनां राजसत्तम ।व्रीडाविह्वलया वाचा शापत्रस्ता विशां पते ॥ ७ ॥
कुन्त्युवाच ।पिता मे ध्रियते देव माता चान्ये च बान्धवाः ।न तेषु ध्रियमाणेषु विधिलोपो भवेदयम् ॥ ८ ॥
त्वया मे संगमो देव यदि स्याद्विधिवर्जितः ।मन्निमित्तं कुलस्यास्य लोके कीर्तिर्नशेत्ततः ॥ ९ ॥
अथ वा धर्ममेतं त्वं मन्यसे तपतां वर ।ऋते प्रदानाद्बन्धुभ्यस्तव कामं करोम्यहम् ॥ १० ॥
आत्मप्रदानं दुर्धर्ष तव कृत्वा सती त्वहम् ।त्वयि धर्मो यशश्चैव कीर्तिरायुश्च देहिनाम् ॥ ११ ॥
सूर्य उवाच ।न ते पिता न ते माता गुरवो वा शुचिस्मिते ।प्रभवन्ति वरारोहे भद्रं ते शृणु मे वचः ॥ १२ ॥
सर्वान्कामयते यस्मात्कनेर्धातोश्च भामिनि ।तस्मात्कन्येह सुश्रोणि स्वतन्त्रा वरवर्णिनि ॥ १३ ॥
नाधर्मश्चरितः कश्चित्त्वया भवति भामिनि ।अधर्मं कुत एवाहं चरेयं लोककाम्यया ॥ १४ ॥
अनावृताः स्त्रियः सर्वा नराश्च वरवर्णिनि ।स्वभाव एष लोकानां विकारोऽन्य इति स्मृतः ॥ १५ ॥
सा मया सह संगम्य पुनः कन्या भविष्यसि ।पुत्रश्च ते महाबाहुर्भविष्यति महायशाः ॥ १६ ॥
कुन्त्युवाच ।यदि पुत्रो मम भवेत्त्वत्तः सर्वतमोपह ।कुण्डली कवची शूरो महाबाहुर्महाबलः ॥ १७ ॥
सूर्य उवाच ।भविष्यति महाबाहुः कुण्डली दिव्यवर्मभृत् ।उभयं चामृतमयं तस्य भद्रे भविष्यति ॥ १८ ॥
कुन्त्युवाच ।यद्येतदमृतादस्ति कुण्डले वर्म चोत्तमम् ।मम पुत्रस्य यं वै त्वं मत्त उत्पादयिष्यसि ॥ १९ ॥
अस्तु मे संगमो देव यथोक्तं भगवंस्त्वया ।त्वद्वीर्यरूपसत्त्वौजा धर्मयुक्तो भवेत्स च ॥ २० ॥
सूर्य उवाच ।अदित्या कुण्डले राज्ञि दत्ते मे मत्तकाशिनि ।तेऽस्य दास्यामि वै भीरु वर्म चैवेदमुत्तमम् ॥ २१ ॥
पृथोवाच ।परमं भगवन्देव संगमिष्ये त्वया सह ।यदि पुत्रो भवेदेवं यथा वदसि गोपते ॥ २२ ॥
वैशंपायन उवाच ।तथेत्युक्त्वा तु तां कुन्तीमाविवेश विहंगमः ।स्वर्भानुशत्रुर्योगात्मा नाभ्यां पस्पर्श चैव ताम् ॥ २३ ॥
ततः सा विह्वलेवासीत्कन्या सूर्यस्य तेजसा ।पपाताथ च सा देवी शयने मूढचेतना ॥ २४ ॥
सूर्य उवाच ।साधयिष्यामि सुश्रोणि पुत्रं वै जनयिष्यसि ।सर्वशस्त्रभृतां श्रेष्ठं कन्या चैव भविष्यसि ॥ २५ ॥
वैशंपायन उवाच ।ततः सा व्रीडिता बाला तदा सूर्यमथाब्रवीत् ।एवमस्त्विति राजेन्द्र प्रस्थितं भूरिवर्चसम् ॥ २६ ॥
इति स्मोक्ता कुन्तिराजात्मजा सा विवस्वन्तं याचमाना सलज्जा ।तस्मिन्पुण्ये शयनीये पपात मोहाविष्टा भज्यमाना लतेव ॥ २७ ॥
तां तिग्मांशुस्तेजसा मोहयित्वा योगेनाविश्यात्मसंस्थां चकार ।न चैवैनां दूषयामास भानुः संज्ञां लेभे भूय एवाथ बाला ॥ २८ ॥
« »