Click on words to see what they mean.

जनमेजय उवाच ।किं तद्गुह्यं न चाख्यातं कर्णायेहोष्णरश्मिना ।कीदृशे कुण्डले ते च कवचं चैव कीदृशम् ॥ १ ॥
कुतश्च कवचं तस्य कुण्डले चैव सत्तम ।एतदिच्छाम्यहं श्रोतुं तन्मे ब्रूहि तपोधन ॥ २ ॥
वैशंपायन उवाच ।अयं राजन्ब्रवीम्येतद्यत्तद्गुह्यं विभावसोः ।यादृशे कुण्डले चैव कवचं चैव यादृशम् ॥ ३ ॥
कुन्तिभोजं पुरा राजन्ब्राह्मणः समुपस्थितः ।तिग्मतेजा महाप्रांशुः श्मश्रुदण्डजटाधरः ॥ ४ ॥
दर्शनीयोऽनवद्याङ्गस्तेजसा प्रज्वलन्निव ।मधुपिङ्गो मधुरवाक्तपःस्वाध्यायभूषणः ॥ ५ ॥
स राजानं कुन्तिभोजमब्रवीत्सुमहातपाः ।भिक्षामिच्छाम्यहं भोक्तुं तव गेहे विमत्सर ॥ ६ ॥
न मे व्यलीकं कर्तव्यं त्वया वा तव चानुगैः ।एवं वत्स्यामि ते गेहे यदि ते रोचतेऽनघ ॥ ७ ॥
यथाकामं च गच्छेयमागच्छेयं तथैव च ।शय्यासने च मे राजन्नापराध्येत कश्चन ॥ ८ ॥
तमब्रवीत्कुन्तिभोजः प्रीतियुक्तमिदं वचः ।एवमस्तु परं चेति पुनश्चैनमथाब्रवीत् ॥ ९ ॥
मम कन्या महाब्रह्मन्पृथा नाम यशस्विनी ।शीलवृत्तान्विता साध्वी नियता न च मानिनी ॥ १० ॥
उपस्थास्यति सा त्वां वै पूजयानवमन्य च ।तस्याश्च शीलवृत्तेन तुष्टिं समुपयास्यसि ॥ ११ ॥
एवमुक्त्वा तु तं विप्रमभिपूज्य यथाविधि ।उवाच कन्यामभ्येत्य पृथां पृथुललोचनाम् ॥ १२ ॥
अयं वत्से महाभागो ब्राह्मणो वस्तुमिच्छति ।मम गेहे मया चास्य तथेत्येवं प्रतिश्रुतम् ॥ १३ ॥
त्वयि वत्से पराश्वस्य ब्राह्मणस्याभिराधनम् ।तन्मे वाक्यं न मिथ्या त्वं कर्तुमर्हसि कर्हिचित् ॥ १४ ॥
अयं तपस्वी भगवान्स्वाध्यायनियतो द्विजः ।यद्यद्ब्रूयान्महातेजास्तत्तद्देयममत्सरात् ॥ १५ ॥
ब्राह्मणा हि परं तेजो ब्राह्मणा हि परं तपः ।ब्राह्मणानां नमस्कारैः सूर्यो दिवि विराजते ॥ १६ ॥
अमानयन्हि मानार्हान्वातापिश्च महासुरः ।निहतो ब्रह्मदण्डेन तालजङ्घस्तथैव च ॥ १७ ॥
सोऽयं वत्से महाभार आहितस्त्वयि सांप्रतम् ।त्वं सदा नियता कुर्या ब्राह्मणस्याभिराधनम् ॥ १८ ॥
जानामि प्रणिधानं ते बाल्यात्प्रभृति नन्दिनि ।ब्राह्मणेष्विह सर्वेषु गुरुबन्धुषु चैव ह ॥ १९ ॥
तथा प्रेष्येषु सर्वेषु मित्रसंबन्धिमातृषु ।मयि चैव यथावत्त्वं सर्वमादृत्य वर्तसे ॥ २० ॥
न ह्यतुष्टो जनोऽस्तीह पुरे चान्तःपुरे च ते ।सम्यग्वृत्त्यानवद्याङ्गि तव भृत्यजनेष्वपि ॥ २१ ॥
संदेष्टव्यां तु मन्ये त्वां द्विजातिं कोपनं प्रति ।पृथे बालेति कृत्वा वै सुता चासि ममेति च ॥ २२ ॥
वृष्णीनां त्वं कुले जाता शूरस्य दयिता सुता ।दत्ता प्रीतिमता मह्यं पित्रा बाला पुरा स्वयम् ॥ २३ ॥
वसुदेवस्य भगिनी सुतानां प्रवरा मम ।अग्र्यमग्रे प्रतिज्ञाय तेनासि दुहिता मम ॥ २४ ॥
तादृशे हि कुले जाता कुले चैव विवर्धिता ।सुखात्सुखमनुप्राप्ता ह्रदाद्ध्रदमिवागता ॥ २५ ॥
दौष्कुलेया विशेषेण कथंचित्प्रग्रहं गताः ।बालभावाद्विकुर्वन्ति प्रायशः प्रमदाः शुभे ॥ २६ ॥
पृथे राजकुले जन्म रूपं चाद्भुतदर्शनम् ।तेन तेनासि संपन्ना समुपेता च भामिनी ॥ २७ ॥
सा त्वं दर्पं परित्यज्य दम्भं मानं च भामिनि ।आराध्य वरदं विप्रं श्रेयसा योक्ष्यसे पृथे ॥ २८ ॥
एवं प्राप्स्यसि कल्याणि कल्याणमनघे ध्रुवम् ।कोपिते तु द्विजश्रेष्ठे कृत्स्नं दह्येत मे कुलम् ॥ २९ ॥
« »