Click on words to see what they mean.

सूर्य उवाच ।माहितं कर्ण कार्षीस्त्वमात्मनः सुहृदां तथा ।पुत्राणामथ भार्याणामथो मातुरथो पितुः ॥ १ ॥
शरीरस्याविरोधेन प्राणिनां प्राणभृद्वर ।इष्यते यशसः प्राप्तिः कीर्तिश्च त्रिदिवे स्थिरा ॥ २ ॥
यस्त्वं प्राणविरोधेन कीर्तिमिच्छसि शाश्वतीम् ।सा ते प्राणान्समादाय गमिष्यति न संशयः ॥ ३ ॥
जीवतां कुरुते कार्यं पिता माता सुतास्तथा ।ये चान्ये बान्धवाः केचिल्लोकेऽस्मिन्पुरुषर्षभ ।राजानश्च नरव्याघ्र पौरुषेण निबोध तत् ॥ ४ ॥
कीर्तिश्च जीवतः साध्वी पुरुषस्य महाद्युते ।मृतस्य कीर्त्या किं कार्यं भस्मीभूतस्य देहिनः ।मृतः कीर्तिं न जानाति जीवन्कीर्तिं समश्नुते ॥ ५ ॥
मृतस्य कीर्तिर्मर्त्यस्य यथा माला गतायुषः ।अहं तु त्वां ब्रवीम्येतद्भक्तोऽसीति हितेप्सया ॥ ६ ॥
भक्तिमन्तो हि मे रक्ष्या इत्येतेनापि हेतुना ।भक्तोऽयं परया भक्त्या मामित्येव महाभुज ।ममापि भक्तिरुत्पन्ना स त्वं कुरु वचो मम ॥ ७ ॥
अस्ति चात्र परं किंचिदध्यात्मं देवनिर्मितम् ।अतश्च त्वां ब्रवीम्येतत्क्रियतामविशङ्कया ॥ ८ ॥
देवगुह्यं त्वया ज्ञातुं न शक्यं पुरुषर्षभ ।तस्मान्नाख्यामि ते गुह्यं काले वेत्स्यति तद्भवान् ॥ ९ ॥
पुनरुक्तं च वक्ष्यामि त्वं राधेय निबोध तत् ।मास्मै ते कुण्डले दद्या भिक्षवे वज्रपाणये ॥ १० ॥
शोभसे कुण्डलाभ्यां हि रुचिराभ्यां महाद्युते ।विशाखयोर्मध्यगतः शशीव विमलो दिवि ॥ ११ ॥
कीर्तिश्च जीवतः साध्वी पुरुषस्येति विद्धि तत् ।प्रत्याख्येयस्त्वया तात कुण्डलार्थे पुरंदरः ॥ १२ ॥
शक्या बहुविधैर्वाक्यैः कुण्डलेप्सा त्वयानघ ।विहन्तुं देवराजस्य हेतुयुक्तैः पुनः पुनः ॥ १३ ॥
उपपत्त्युपपन्नार्थैर्माधुर्यकृतभूषणैः ।पुरंदरस्य कर्ण त्वं बुद्धिमेतामपानुद ॥ १४ ॥
त्वं हि नित्यं नरव्याघ्र स्पर्धसे सव्यसाचिना ।सव्यसाची त्वया चैव युधि शूरः समेष्यति ॥ १५ ॥
न तु त्वामर्जुनः शक्तः कुण्डलाभ्यां समन्वितम् ।विजेतुं युधि यद्यस्य स्वयमिन्द्रः शरो भवेत् ॥ १६ ॥
तस्मान्न देये शक्राय त्वयैते कुण्डले शुभे ।संग्रामे यदि निर्जेतुं कर्ण कामयसेऽर्जुनम् ॥ १७ ॥
« »