Click on words to see what they mean.

जनमेजय उवाच ।यत्तत्तदा महाब्रह्मँल्लोमशो वाक्यमब्रवीत् ।इन्द्रस्य वचनादेत्य पाण्डुपुत्रं युधिष्ठिरम् ॥ १ ॥
यच्चापि ते भयं तीव्रं न च कीर्तयसे क्वचित् ।तच्चाप्यपहरिष्यामि सव्यसाचाविहागते ॥ २ ॥
किं नु तद्विदुषां श्रेष्ठ कर्णं प्रति महद्भयम् ।आसीन्न च स धर्मात्मा कथयामास कस्यचित् ॥ ३ ॥
वैशंपायन उवाच ।अहं ते राजशार्दूल कथयामि कथामिमाम् ।पृच्छते भरतश्रेष्ठ शुश्रूषस्व गिरं मम ॥ ४ ॥
द्वादशे समतिक्रान्ते वर्षे प्राप्ते त्रयोदशे ।पाण्डूनां हितकृच्छक्रः कर्णं भिक्षितुमुद्यतः ॥ ५ ॥
अभिप्रायमथो ज्ञात्वा महेन्द्रस्य विभावसुः ।कुण्डलार्थे महाराज सूर्यः कर्णमुपागमत् ॥ ६ ॥
महार्हे शयने वीरं स्पर्ध्यास्तरणसंवृते ।शयानमभिविश्वस्तं ब्रह्मण्यं सत्यवादिनम् ॥ ७ ॥
स्वप्नान्ते निशि राजेन्द्र दर्शयामास रश्मिवान् ।कृपया परयाविष्टः पुत्रस्नेहाच्च भारत ॥ ८ ॥
ब्राह्मणो वेदविद्भूत्वा सूर्यो योगाद्धि रूपवान् ।हितार्थमब्रवीत्कर्णं सान्त्वपूर्वमिदं वचः ॥ ९ ॥
कर्ण मद्वचनं तात शृणु सत्यभृतां वर ।ब्रुवतोऽद्य महाबाहो सौहृदात्परमं हितम् ॥ १० ॥
उपायास्यति शक्रस्त्वां पाण्डवानां हितेप्सया ।ब्राह्मणच्छद्मना कर्ण कुण्डलापजिहीर्षया ॥ ११ ॥
विदितं तेन शीलं ते सर्वस्य जगतस्तथा ।यथा त्वं भिक्षितः सद्भिर्ददास्येव न याचसे ॥ १२ ॥
त्वं हि तात ददास्येव ब्राह्मणेभ्यः प्रयाचितः ।वित्तं यच्चान्यदप्याहुर्न प्रत्याख्यासि कर्हिचित् ॥ १३ ॥
तं त्वामेवंविधं ज्ञात्वा स्वयं वै पाकशासनः ।आगन्ता कुण्डलार्थाय कवचं चैव भिक्षितुम् ॥ १४ ॥
तस्मै प्रयाचमानाय न देये कुण्डले त्वया ।अनुनेयः परं शक्त्या श्रेय एतद्धि ते परम् ॥ १५ ॥
कुण्डलार्थे ब्रुवंस्तात कारणैर्बहुभिस्त्वया ।अन्यैर्बहुविधैर्वित्तैः स निवार्यः पुनः पुनः ॥ १६ ॥
रत्नैः स्त्रीभिस्तथा भोगैर्धनैर्बहुविधैरपि ।निदर्शनैश्च बहुभिः कुण्डलेप्सुः पुरंदरः ॥ १७ ॥
यदि दास्यसि कर्ण त्वं सहजे कुण्डले शुभे ।आयुषः प्रक्षयं गत्वा मृत्योर्वशमुपेष्यसि ॥ १८ ॥
कवचेन च संयुक्तः कुण्डलाभ्यां च मानद ।अवध्यस्त्वं रणेऽरीणामिति विद्धि वचो मम ॥ १९ ॥
अमृतादुत्थितं ह्येतदुभयं रत्नसंभवम् ।तस्माद्रक्ष्यं त्वया कर्ण जीवितं चेत्प्रियं तव ॥ २० ॥
कर्ण उवाच ।को मामेवं भवान्प्राह दर्शयन्सौहृदं परम् ।कामया भगवन्ब्रूहि को भवान्द्विजवेषधृक् ॥ २१ ॥
ब्राह्मण उवाच ।अहं तात सहस्रांशुः सौहृदात्त्वां निदर्शये ।कुरुष्वैतद्वचो मे त्वमेतच्छ्रेयः परं हि ते ॥ २२ ॥
कर्ण उवाच ।श्रेय एव ममात्यन्तं यस्य मे गोपतिः प्रभुः ।प्रवक्ताद्य हितान्वेषी शृणु चेदं वचो मम ॥ २३ ॥
प्रसादये त्वां वरदं प्रणयाच्च ब्रवीम्यहम् ।न निवार्यो व्रतादस्मादहं यद्यस्मि ते प्रियः ॥ २४ ॥
व्रतं वै मम लोकोऽयं वेत्ति कृत्स्नो विभावसो ।यथाहं द्विजमुख्येभ्यो दद्यां प्राणानपि ध्रुवम् ॥ २५ ॥
यद्यागच्छति शक्रो मां ब्राह्मणच्छद्मनावृतः ।हितार्थं पाण्डुपुत्राणां खेचरोत्तम भिक्षितुम् ॥ २६ ॥
दास्यामि विबुधश्रेष्ठ कुण्डले वर्म चोत्तमम् ।न मे कीर्तिः प्रणश्येत त्रिषु लोकेषु विश्रुता ॥ २७ ॥
मद्विधस्यायशस्यं हि न युक्तं प्राणरक्षणम् ।युक्तं हि यशसा युक्तं मरणं लोकसंमतम् ॥ २८ ॥
सोऽहमिन्द्राय दास्यामि कुण्डले सह वर्मणा ।यदि मां बलवृत्रघ्नो भिक्षार्थमुपयास्यति ॥ २९ ॥
हितार्थं पाण्डुपुत्राणां कुण्डले मे प्रयाचितुम् ।तन्मे कीर्तिकरं लोके तस्याकीर्तिर्भविष्यति ॥ ३० ॥
वृणोमि कीर्तिं लोके हि जीवितेनापि भानुमन् ।कीर्तिमानश्नुते स्वर्गं हीनकीर्तिस्तु नश्यति ॥ ३१ ॥
कीर्तिर्हि पुरुषं लोके संजीवयति मातृवत् ।अकीर्तिर्जीवितं हन्ति जीवतोऽपि शरीरिणः ॥ ३२ ॥
अयं पुराणः श्लोको हि स्वयं गीतो विभावसो ।धात्रा लोकेश्वर यथा कीर्तिरायुर्नरस्य वै ॥ ३३ ॥
पुरुषस्य परे लोके कीर्तिरेव परायणम् ।इह लोके विशुद्धा च कीर्तिरायुर्विवर्धनी ॥ ३४ ॥
सोऽहं शरीरजे दत्त्वा कीर्तिं प्राप्स्यामि शाश्वतीम् ।दत्त्वा च विधिवद्दानं ब्राह्मणेभ्यो यथाविधि ॥ ३५ ॥
हुत्वा शरीरं संग्रामे कृत्वा कर्म सुदुष्करम् ।विजित्य वा परानाजौ यशः प्राप्स्यामि केवलम् ॥ ३६ ॥
भीतानामभयं दत्त्वा संग्रामे जीवितार्थिनाम् ।वृद्धान्बालान्द्विजातींश्च मोक्षयित्वा महाभयात् ॥ ३७ ॥
प्राप्स्यामि परमं लोके यशः स्वर्भानुसूदन ।जीवितेनापि मे रक्ष्या कीर्तिस्तद्विद्धि मे व्रतम् ॥ ३८ ॥
सोऽहं दत्त्वा मघवते भिक्षामेतामनुत्तमाम् ।ब्राह्मणच्छद्मिने देव लोके गन्ता परां गतिम् ॥ ३९ ॥
« »