Click on words to see what they mean.

वैशंपायन उवाच ।ततो वनगताः पार्थाः सायाह्ने सह कृष्णया ।उपविष्टाः कथाश्चक्रुर्दुःखशोकपरायणाः ॥ १ ॥
प्रिया च दर्शनीया च पण्डिता च पतिव्रता ।ततः कृष्णा धर्मराजमिदं वचनमब्रवीत् ॥ २ ॥
न नूनं तस्य पापस्य दुःखमस्मासु किंचन ।विद्यते धार्तराष्ट्रस्य नृशंसस्य दुरात्मनः ॥ ३ ॥
यस्त्वां राजन्मया सार्धमजिनैः प्रतिवासितम् ।भ्रातृभिश्च तथा सर्वैर्नाभ्यभाषत किंचन ।वनं प्रस्थाप्य दुष्टात्मा नान्वतप्यत दुर्मतिः ॥ ४ ॥
आयसं हृदयं नूनं तस्य दुष्कृतकर्मणः ।यस्त्वां धर्मपरं श्रेष्ठं रूक्षाण्यश्रावयत्तदा ॥ ५ ॥
सुखोचितमदुःखार्हं दुरात्मा ससुहृद्गणः ।ईदृशं दुःखमानीय मोदते पापपूरुषः ॥ ६ ॥
चतुर्णामेव पापानामश्रु वै नापतत्तदा ।त्वयि भारत निष्क्रान्ते वनायाजिनवाससि ॥ ७ ॥
दुर्योधनस्य कर्णस्य शकुनेश्च दुरात्मनः ।दुर्भ्रातुस्तस्य चोग्रस्य तथा दुःशासनस्य च ॥ ८ ॥
इतरेषां तु सर्वेषां कुरूणां कुरुसत्तम ।दुःखेनाभिपरीतानां नेत्रेभ्यः प्रापतज्जलम् ॥ ९ ॥
इदं च शयनं दृष्ट्वा यच्चासीत्ते पुरातनम् ।शोचामि त्वां महाराज दुःखानर्हं सुखोचितम् ॥ १० ॥
दान्तं यच्च सभामध्ये आसनं रत्नभूषितम् ।दृष्ट्वा कुशबृसीं चेमां शोको मां रुन्धयत्ययम् ॥ ११ ॥
यदपश्यं सभायां त्वां राजभिः परिवारितम् ।तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ १२ ॥
या त्वाहं चन्दनादिग्धमपश्यं सूर्यवर्चसम् ।सा त्वा पङ्कमलादिग्धं दृष्ट्वा मुह्यामि भारत ॥ १३ ॥
या वै त्वा कौशिकैर्वस्त्रैः शुभ्रैर्बहुधनैः पुरा ।दृष्टवत्यस्मि राजेन्द्र सा त्वां पश्यामि चीरिणम् ॥ १४ ॥
यच्च तद्रुक्मपात्रीभिर्ब्राह्मणेभ्यः सहस्रशः ।ह्रियते ते गृहादन्नं संस्कृतं सार्वकामिकम् ॥ १५ ॥
यतीनामगृहाणां ते तथैव गृहमेधिनाम् ।दीयते भोजनं राजन्नतीव गुणवत्प्रभो ।तच्च राजन्नपश्यन्त्याः का शान्तिर्हृदयस्य मे ॥ १६ ॥
यांस्ते भ्रातॄन्महाराज युवानो मृष्टकुण्डलाः ।अभोजयन्त मृष्टान्नैः सूदाः परमसंस्कृतैः ॥ १७ ॥
सर्वांस्तानद्य पश्यामि वने वन्येन जीवतः ।अदुःखार्हान्मनुष्येन्द्र नोपशाम्यति मे मनः ॥ १८ ॥
भीमसेनमिमं चापि दुःखितं वनवासिनम् ।ध्यायन्तं किं न मन्युस्ते प्राप्ते काले विवर्धते ॥ १९ ॥
भीमसेनं हि कर्माणि स्वयं कुर्वाणमच्युत ।सुखार्हं दुःखितं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २० ॥
सत्कृतं विविधैर्यानैर्वस्त्रैरुच्चावचैस्तथा ।तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २१ ॥
कुरूनपि हि यः सर्वान्हन्तुमुत्सहते प्रभुः ।त्वत्प्रसादं प्रतीक्षंस्तु सहतेऽयं वृकोदरः ॥ २२ ॥
योऽर्जुनेनार्जुनस्तुल्यो द्विबाहुर्बहुबाहुना ।शरातिसर्गे शीघ्रत्वात्कालान्तकयमोपमः ॥ २३ ॥
यस्य शस्त्रप्रतापेन प्रणताः सर्वपार्थिवाः ।यज्ञे तव महाराज ब्राह्मणानुपतस्थिरे ॥ २४ ॥
तमिमं पुरुषव्याघ्रं पूजितं देवदानवैः ।ध्यायन्तमर्जुनं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २५ ॥
दृष्ट्वा वनगतं पार्थमदुःखार्हं सुखोचितम् ।न च ते वर्धते मन्युस्तेन मुह्यामि भारत ॥ २६ ॥
यो देवांश्च मनुष्यांश्च सर्पांश्चैकरथोऽजयत् ।तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २७ ॥
यो यानैरद्भुताकारैर्हयैर्नागैश्च संवृतः ।प्रसह्य वित्तान्यादत्त पार्थिवेभ्यः परंतपः ॥ २८ ॥
क्षिपत्येकेन वेगेन पञ्च बाणशतानि यः ।तं ते वनगतं दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ २९ ॥
श्यामं बृहन्तं तरुणं चर्मिणामुत्तमं रणे ।नकुलं ते वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३० ॥
दर्शनीयं च शूरं च माद्रीपुत्रं युधिष्ठिर ।सहदेवं वने दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३१ ॥
द्रुपदस्य कुले जातां स्नुषां पाण्डोर्महात्मनः ।मां ते वनगतां दृष्ट्वा कस्मान्मन्युर्न वर्धते ॥ ३२ ॥
नूनं च तव नैवास्ति मन्युर्भरतसत्तम ।यत्ते भ्रातॄंश्च मां चैव दृष्ट्वा न व्यथते मनः ॥ ३३ ॥
न निर्मन्युः क्षत्रियोऽस्ति लोके निर्वचनं स्मृतम् ।तदद्य त्वयि पश्यामि क्षत्रिये विपरीतवत् ॥ ३४ ॥
यो न दर्शयते तेजः क्षत्रियः काल आगते ।सर्वभूतानि तं पार्थ सदा परिभवन्त्युत ॥ ३५ ॥
तत्त्वया न क्षमा कार्या शत्रून्प्रति कथंचन ।तेजसैव हि ते शक्या निहन्तुं नात्र संशयः ॥ ३६ ॥
तथैव यः क्षमाकाले क्षत्रियो नोपशाम्यति ।अप्रियः सर्वभूतानां सोऽमुत्रेह च नश्यति ॥ ३७ ॥
« »