Click on words to see what they mean.

वैशंपायन उवाच ।वसत्स्वथ द्वैतवने पाण्डवेषु महात्मसु ।अनुकीर्णं महारण्यं ब्राह्मणैः समपद्यत ॥ १ ॥
ईर्यमाणेन सततं ब्रह्मघोषेण सर्वतः ।ब्रह्मलोकसमं पुण्यमासीद्द्वैतवनं सरः ॥ २ ॥
यजुषामृचां च साम्नां च गद्यानां चैव सर्वशः ।आसीदुच्चार्यमाणानां निस्वनो हृदयंगमः ॥ ३ ॥
ज्याघोषः पाण्डवेयानां ब्रह्मघोषश्च धीमताम् ।संसृष्टं ब्रह्मणा क्षत्रं भूय एव व्यरोचत ॥ ४ ॥
अथाब्रवीद्बको दाल्भ्यो धर्मराजं युधिष्ठिरम् ।संध्यां कौन्तेयमासीनमृषिभिः परिवारितम् ॥ ५ ॥
पश्य द्वैतवने पार्थ ब्राह्मणानां तपस्विनाम् ।होमवेलां कुरुश्रेष्ठ संप्रज्वलितपावकाम् ॥ ६ ॥
चरन्ति धर्मं पुण्येऽस्मिंस्त्वया गुप्ता धृतव्रताः ।भृगवोऽङ्गिरसश्चैव वासिष्ठाः काश्यपैः सह ॥ ७ ॥
आगस्त्याश्च महाभागा आत्रेयाश्चोत्तमव्रताः ।सर्वस्य जगतः श्रेष्ठा ब्राह्मणाः संगतास्त्वया ॥ ८ ॥
इदं तु वचनं पार्थ शृण्वेकाग्रमना मम ।भ्रातृभिः सह कौन्तेय यत्त्वां वक्ष्यामि कौरव ॥ ९ ॥
ब्रह्म क्षत्रेण संसृष्टं क्षत्रं च ब्रह्मणा सह ।उदीर्णौ दहतः शत्रून्वनानीवाग्निमारुतौ ॥ १० ॥
नाब्राह्मणस्तात चिरं बुभूषेदिच्छन्निमं लोकममुं च जेतुम् ।विनीतधर्मार्थमपेतमोहं लब्ध्वा द्विजं नुदति नृपः सपत्नान् ॥ ११ ॥
चरन्नैःश्रेयसं धर्मं प्रजापालनकारितम् ।नाध्यगच्छद्बलिर्लोके तीर्थमन्यत्र वै द्विजात् ॥ १२ ॥
अनूनमासीदसुरस्य कामैर्वैरोचनेः श्रीरपि चाक्षयासीत् ।लब्ध्वा महीं ब्राह्मणसंप्रयोगात्तेष्वाचरन्दुष्टमतो व्यनश्यत् ॥ १३ ॥
नाब्राह्मणं भूमिरियं सभूतिर्वर्णं द्वितीयं भजते चिराय ।समुद्रनेमिर्नमते तु तस्मै यं ब्राह्मणः शास्ति नयैर्विनीतः ॥ १४ ॥
कुञ्जरस्येव संग्रामेऽपरिगृह्याङ्कुशग्रहम् ।ब्राह्मणैर्विप्रहीणस्य क्षत्रस्य क्षीयते बलम् ॥ १५ ॥
ब्रह्मण्यनुपमा दृष्टिः क्षात्रमप्रतिमं बलम् ।तौ यदा चरतः सार्धमथ लोकः प्रसीदति ॥ १६ ॥
यथा हि सुमहानग्निः कक्षं दहति सानिलः ।तथा दहति राजन्यो ब्राह्मणेन समं रिपून् ॥ १७ ॥
ब्राह्मणेभ्योऽथ मेधावी बुद्धिपर्येषणं चरेत् ।अलब्धस्य च लाभाय लब्धस्य च विवृद्धये ॥ १८ ॥
अलब्धलाभाय च लब्धवृद्धये यथार्हतीर्थप्रतिपादनाय ।यशस्विनं वेदविदं विपश्चितं बहुश्रुतं ब्राह्मणमेव वासय ॥ १९ ॥
ब्राह्मणेषूत्तमा वृत्तिस्तव नित्यं युधिष्ठिर ।तेन ते सर्वलोकेषु दीप्यते प्रथितं यशः ॥ २० ॥
ततस्ते ब्राह्मणाः सर्वे बकं दाल्भ्यमपूजयन् ।युधिष्ठिरे स्तूयमाने भूयः सुमनसोऽभवन् ॥ २१ ॥
द्वैपायनो नारदश्च जामदग्न्यः पृथुश्रवाः ।इन्द्रद्युम्नो भालुकिश्च कृतचेताः सहस्रपात् ॥ २२ ॥
कर्णश्रवाश्च मुञ्जश्च लवणाश्वश्च काश्यपः ।हारीतः स्थूणकर्णश्च अग्निवेश्योऽथ शौनकः ॥ २३ ॥
ऋतवाक्च सुवाक्चैव बृहदश्व ऋतावसुः ।ऊर्ध्वरेता वृषामित्रः सुहोत्रो होत्रवाहनः ॥ २४ ॥
एते चान्ये च बहवो ब्राह्मणाः संशितव्रताः ।अजातशत्रुमानर्चुः पुरंदरमिवर्षयः ॥ २५ ॥
« »