Click on words to see what they mean.

मार्कण्डेय उवाच ।प्रभूतान्नोदके तस्मिन्बहुमूलफले वने ।सेनां निवेश्य काकुत्स्थो विधिवत्पर्यरक्षत ॥ १ ॥
रावणश्च विधिं चक्रे लङ्कायां शास्त्रनिर्मितम् ।प्रकृत्यैव दुराधर्षा दृढप्राकारतोरणा ॥ २ ॥
अगाधतोयाः परिखा मीननक्रसमाकुलाः ।बभूवुः सप्त दुर्धर्षाः खादिरैः शङ्कुभिश्चिताः ॥ ३ ॥
कर्णाट्टयन्त्रदुर्धर्षा बभूवुः सहुडोपलाः ।साशीविषघटायोधाः ससर्जरसपांसवः ॥ ४ ॥
मुसलालातनाराचतोमरासिपरश्वधैः ।अन्विताश्च शतघ्नीभिः समधूच्छिष्टमुद्गराः ॥ ५ ॥
पुरद्वारेषु सर्वेषु गुल्माः स्थावरजङ्गमाः ।बभूवुः पत्तिबहुलाः प्रभूतगजवाजिनः ॥ ६ ॥
अङ्गदस्त्वथ लङ्काया द्वारदेशमुपागतः ।विदितो राक्षसेन्द्रस्य प्रविवेश गतव्यथः ॥ ७ ॥
मध्ये राक्षसकोटीनां बह्वीनां सुमहाबलः ।शुशुभे मेघमालाभिरादित्य इव संवृतः ॥ ८ ॥
स समासाद्य पौलस्त्यममात्यैरभिसंवृतम् ।रामसंदेशमामन्त्र्य वाग्मी वक्तुं प्रचक्रमे ॥ ९ ॥
आह त्वां राघवो राजन्कोसलेन्द्रो महायशाः ।प्राप्तकालमिदं वाक्यं तदादत्स्व कुरुष्व च ॥ १० ॥
अकृतात्मानमासाद्य राजानमनये रतम् ।विनश्यन्त्यनयाविष्टा देशाश्च नगराणि च ॥ ११ ॥
त्वयैकेनापराद्धं मे सीतामाहरता बलात् ।वधायानपराद्धानामन्येषां तद्भविष्यति ॥ १२ ॥
ये त्वया बलदर्पाभ्यामाविष्टेन वनेचराः ।ऋषयो हिंसिताः पूर्वं देवाश्चाप्यवमानिताः ॥ १३ ॥
राजर्षयश्च निहता रुदन्त्यश्चाहृताः स्त्रियः ।तदिदं समनुप्राप्तं फलं तस्यानयस्य ते ॥ १४ ॥
हन्तास्मि त्वां सहामात्यं युध्यस्व पुरुषो भव ।पश्य मे धनुषो वीर्यं मानुषस्य निशाचर ॥ १५ ॥
मुच्यतां जानकी सीता न मे मोक्ष्यसि कर्हिचित् ।अराक्षसमिमं लोकं कर्तास्मि निशितैः शरैः ॥ १६ ॥
इति तस्य ब्रुवाणस्य दूतस्य परुषं वचः ।श्रुत्वा न ममृषे राजा रावणः क्रोधमूर्छितः ॥ १७ ॥
इङ्गितज्ञास्ततो भर्तुश्चत्वारो रजनीचराः ।चतुर्ष्वङ्गेषु जगृहुः शार्दूलमिव पक्षिणः ॥ १८ ॥
तांस्तथाङ्गेषु संसक्तानङ्गदो रजनीचरान् ।आदायैव खमुत्पत्य प्रासादतलमाविशत् ॥ १९ ॥
वेगेनोत्पततस्तस्य पेतुस्ते रजनीचराः ।भुवि संभिन्नहृदयाः प्रहारपरिपीडिताः ॥ २० ॥
स मुक्तो हर्म्यशिखरात्तस्मात्पुनरवापतत् ।लङ्घयित्वा पुरीं लङ्कां स्वबलस्य समीपतः ॥ २१ ॥
कोसलेन्द्रमथाभ्येत्य सर्वमावेद्य चाङ्गदः ।विशश्राम स तेजस्वी राघवेणाभिनन्दितः ॥ २२ ॥
ततः सर्वाभिसारेण हरीणां वातरंहसाम् ।भेदयामास लङ्कायाः प्राकारं रघुनन्दनः ॥ २३ ॥
विभीषणर्क्षाधिपती पुरस्कृत्याथ लक्ष्मणः ।दक्षिणं नगरद्वारमवामृद्नाद्दुरासदम् ॥ २४ ॥
करभारुणगात्राणां हरीणां युद्धशालिनाम् ।कोटीशतसहस्रेण लङ्कामभ्यपतत्तदा ॥ २५ ॥
उत्पतद्भिः पतद्भिश्च निपतद्भिश्च वानरैः ।नादृश्यत तदा सूर्यो रजसा नाशितप्रभः ॥ २६ ॥
शालिप्रसूनसदृशैः शिरीषकुसुमप्रभैः ।तरुणादित्यसदृशैः शरगौरैश्च वानरैः ॥ २७ ॥
प्राकारं ददृशुस्ते तु समन्तात्कपिलीकृतम् ।राक्षसा विस्मिता राजन्सस्त्रीवृद्धाः समन्ततः ॥ २८ ॥
बिभिदुस्ते मणिस्तम्भान्कर्णाट्टशिखराणि च ।भग्नोन्मथितवेगानि यन्त्राणि च विचिक्षिपुः ॥ २९ ॥
परिगृह्य शतघ्नीश्च सचक्राः सहुडोपलाः ।चिक्षिपुर्भुजवेगेन लङ्कामध्ये महाबलाः ॥ ३० ॥
प्राकारस्थाश्च ये केचिन्निशाचरगणास्तदा ।प्रदुद्रुवुस्ते शतशः कपिभिः समभिद्रुताः ॥ ३१ ॥
ततस्तु राजवचनाद्राक्षसाः कामरूपिणः ।निर्ययुर्विकृताकाराः सहस्रशतसंघशः ॥ ३२ ॥
शस्त्रवर्षाणि वर्षन्तो द्रावयन्तो वनौकसः ।प्राकारं शोधयन्तस्ते परं विक्रममास्थिताः ॥ ३३ ॥
स माषराशिसदृशैर्बभूव क्षणदाचरैः ।कृतो निर्वानरो भूयः प्राकारो भीमदर्शनैः ॥ ३४ ॥
पेतुः शूलविभिन्नाङ्गा बहवो वानरर्षभाः ।स्तम्भतोरणभग्नाश्च पेतुस्तत्र निशाचराः ॥ ३५ ॥
केशाकेश्यभवद्युद्धं रक्षसां वानरैः सह ।नखैर्दन्तैश्च वीराणां खादतां वै परस्परम् ॥ ३६ ॥
निष्टनन्तो ह्युभयतस्तत्र वानरराक्षसाः ।हता निपतिता भूमौ न मुञ्चन्ति परस्परम् ॥ ३७ ॥
रामस्तु शरजालानि ववर्ष जलदो यथा ।तानि लङ्कां समासाद्य जघ्नुस्तान्रजनीचरान् ॥ ३८ ॥
सौमित्रिरपि नाराचैर्दृढधन्वा जितक्लमः ।आदिश्यादिश्य दुर्गस्थान्पातयामास राक्षसान् ॥ ३९ ॥
ततः प्रत्यवहारोऽभूत्सैन्यानां राघवाज्ञया ।कृते विमर्दे लङ्कायां लब्धलक्षो जयोत्तरः ॥ ४० ॥
« »