Click on words to see what they mean.

मार्कण्डेय उवाच ।राघवस्तु ससौमित्रिः सुग्रीवेणाभिपालितः ।वसन्माल्यवतः पृष्ठे ददर्श विमलं नभः ॥ १ ॥
स दृष्ट्वा विमले व्योम्नि निर्मलं शशलक्षणम् ।ग्रहनक्षत्रताराभिरनुयातममित्रहा ॥ २ ॥
कुमुदोत्पलपद्मानां गन्धमादाय वायुना ।महीधरस्थः शीतेन सहसा प्रतिबोधितः ॥ ३ ॥
प्रभाते लक्ष्मणं वीरमभ्यभाषत दुर्मनाः ।सीतां संस्मृत्य धर्मात्मा रुद्धां राक्षसवेश्मनि ॥ ४ ॥
गच्छ लक्ष्मण जानीहि किष्किन्धायां कपीश्वरम् ।प्रमत्तं ग्राम्यधर्मेषु कृतघ्नं स्वार्थपण्डितम् ॥ ५ ॥
योऽसौ कुलाधमो मूढो मया राज्येऽभिषेचितः ।सर्ववानरगोपुच्छा यमृक्षाश्च भजन्ति वै ॥ ६ ॥
यदर्थं निहतो वाली मया रघुकुलोद्वह ।त्वया सह महाबाहो किष्किन्धोपवने तदा ॥ ७ ॥
कृतघ्नं तमहं मन्ये वानरापसदं भुवि ।यो मामेवंगतो मूढो न जानीतेऽद्य लक्ष्मण ॥ ८ ॥
असौ मन्ये न जानीते समयप्रतिपादनम् ।कृतोपकारं मां नूनमवमन्याल्पया धिया ॥ ९ ॥
यदि तावदनुद्युक्तः शेते कामसुखात्मकः ।नेतव्यो वालिमार्गेण सर्वभूतगतिं त्वया ॥ १० ॥
अथापि घटतेऽस्माकमर्थे वानरपुंगवः ।तमादायैहि काकुत्स्थ त्वरावान्भव मा चिरम् ॥ ११ ॥
इत्युक्तो लक्ष्मणो भ्रात्रा गुरुवाक्यहिते रतः ।प्रतस्थे रुचिरं गृह्य समार्गणगुणं धनुः ।किष्किन्धाद्वारमासाद्य प्रविवेशानिवारितः ॥ १२ ॥
सक्रोध इति तं मत्वा राजा प्रत्युद्ययौ हरिः ।तं सदारो विनीतात्मा सुग्रीवः प्लवगाधिपः ।पूजया प्रतिजग्राह प्रीयमाणस्तदर्हया ॥ १३ ॥
तमब्रवीद्रामवचः सौमित्रिरकुतोभयः ।स तत्सर्वमशेषेण श्रुत्वा प्रह्वः कृताञ्जलिः ॥ १४ ॥
सभृत्यदारो राजेन्द्र सुग्रीवो वानराधिपः ।इदमाह वचः प्रीतो लक्ष्मणं नरकुञ्जरम् ॥ १५ ॥
नास्मि लक्ष्मण दुर्मेधा न कृतघ्नो न निर्घृणः ।श्रूयतां यः प्रयत्नो मे सीतापर्येषणे कृतः ॥ १६ ॥
दिशः प्रस्थापिताः सर्वे विनीता हरयो मया ।सर्वेषां च कृतः कालो मासेनागमनं पुनः ॥ १७ ॥
यैरियं सवना साद्रिः सपुरा सागराम्बरा ।विचेतव्या मही वीर सग्रामनगराकरा ॥ १८ ॥
स मासः पञ्चरात्रेण पूर्णो भवितुमर्हति ।ततः श्रोष्यसि रामेण सहितः सुमहत्प्रियम् ॥ १९ ॥
इत्युक्तो लक्ष्मणस्तेन वानरेन्द्रेण धीमता ।त्यक्त्वा रोषमदीनात्मा सुग्रीवं प्रत्यपूजयत् ॥ २० ॥
स रामं सहसुग्रीवो माल्यवत्पृष्ठमास्थितम् ।अभिगम्योदयं तस्य कार्यस्य प्रत्यवेदयत् ॥ २१ ॥
इत्येवं वानरेन्द्रास्ते समाजग्मुः सहस्रशः ।दिशस्तिस्रो विचित्याथ न तु ये दक्षिणां गताः ॥ २२ ॥
आचख्युस्ते तु रामाय महीं सागरमेखलाम् ।विचितां न तु वैदेह्या दर्शनं रावणस्य वा ॥ २३ ॥
गतास्तु दक्षिणामाशां ये वै वानरपुंगवाः ।आशावांस्तेषु काकुत्स्थः प्राणानार्तोऽप्यधारयत् ॥ २४ ॥
द्विमासोपरमे काले व्यतीते प्लवगास्ततः ।सुग्रीवमभिगम्येदं त्वरिता वाक्यमब्रुवन् ॥ २५ ॥
रक्षितं वालिना यत्तत्स्फीतं मधुवनं महत् ।त्वया च प्लवगश्रेष्ठ तद्भुङ्क्ते पवनात्मजः ॥ २६ ॥
वालिपुत्रोऽङ्गदश्चैव ये चान्ये प्लवगर्षभाः ।विचेतुं दक्षिणामाशां राजन्प्रस्थापितास्त्वया ॥ २७ ॥
तेषां तं प्रणयं श्रुत्वा मेने स कृतकृत्यताम् ।कृतार्थानां हि भृत्यानामेतद्भवति चेष्टितम् ॥ २८ ॥
स तद्रामाय मेधावी शशंस प्लवगर्षभः ।रामश्चाप्यनुमानेन मेने दृष्टां तु मैथिलीम् ॥ २९ ॥
हनूमत्प्रमुखाश्चापि विश्रान्तास्ते प्लवंगमाः ।अभिजग्मुर्हरीन्द्रं तं रामलक्ष्मणसंनिधौ ॥ ३० ॥
गतिं च मुखवर्णं च दृष्ट्वा रामो हनूमतः ।अगमत्प्रत्ययं भूयो दृष्टा सीतेति भारत ॥ ३१ ॥
हनूमत्प्रमुखास्ते तु वानराः पूर्णमानसाः ।प्रणेमुर्विधिवद्रामं सुग्रीवं लक्ष्मणं तथा ॥ ३२ ॥
तानुवाचागतान्रामः प्रगृह्य सशरं धनुः ।अपि मां जीवयिष्यध्वमपि वः कृतकृत्यता ॥ ३३ ॥
अपि राज्यमयोध्यायां कारयिष्याम्यहं पुनः ।निहत्य समरे शत्रूनाहृत्य जनकात्मजाम् ॥ ३४ ॥
अमोक्षयित्वा वैदेहीमहत्वा च रिपून्रणे ।हृतदारोऽवधूतश्च नाहं जीवितुमुत्सहे ॥ ३५ ॥
इत्युक्तवचनं रामं प्रत्युवाचानिलात्मजः ।प्रियमाख्यामि ते राम दृष्टा सा जानकी मया ॥ ३६ ॥
विचित्य दक्षिणामाशां सपर्वतवनाकराम् ।श्रान्ताः काले व्यतीते स्म दृष्टवन्तो महागुहाम् ॥ ३७ ॥
प्रविशामो वयं तां तु बहुयोजनमायताम् ।अन्धकारां सुविपिनां गहनां कीटसेविताम् ॥ ३८ ॥
गत्वा सुमहदध्वानमादित्यस्य प्रभां ततः ।दृष्टवन्तः स्म तत्रैव भवनं दिव्यमन्तरा ॥ ३९ ॥
मयस्य किल दैत्यस्य तदासीद्वेश्म राघव ।तत्र प्रभावती नाम तपोऽतप्यत तापसी ॥ ४० ॥
तया दत्तानि भोज्यानि पानानि विविधानि च ।भुक्त्वा लब्धबलाः सन्तस्तयोक्तेन पथा ततः ॥ ४१ ॥
निर्याय तस्मादुद्देशात्पश्यामो लवणाम्भसः ।समीपे सह्यमलयौ दर्दुरं च महागिरिम् ॥ ४२ ॥
ततो मलयमारुह्य पश्यन्तो वरुणालयम् ।विषण्णा व्यथिताः खिन्ना निराशा जीविते भृशम् ॥ ४३ ॥
अनेकशतविस्तीर्णं योजनानां महोदधिम् ।तिमिनक्रझषावासं चिन्तयन्तः सुदुःखिताः ॥ ४४ ॥
तत्रानशनसंकल्पं कृत्वासीना वयं तदा ।ततः कथान्ते गृध्रस्य जटायोरभवत्कथा ॥ ४५ ॥
ततः पर्वतशृङ्गाभं घोररूपं भयावहम् ।पक्षिणं दृष्टवन्तः स्म वैनतेयमिवापरम् ॥ ४६ ॥
सोऽस्मानतर्कयद्भोक्तुमथाभ्येत्य वचोऽब्रवीत् ।भोः क एष मम भ्रातुर्जटायोः कुरुते कथाम् ॥ ४७ ॥
संपातिर्नाम तस्याहं ज्येष्ठो भ्राता खगाधिपः ।अन्योन्यस्पर्धयारूढावावामादित्यसंसदम् ॥ ४८ ॥
ततो दग्धाविमौ पक्षौ न दग्धौ तु जटायुषः ।तदा मे चिरदृष्टः स भ्राता गृध्रपतिः प्रियः ।निर्दग्धपक्षः पतितो ह्यहमस्मिन्महागिरौ ॥ ४९ ॥
तस्यैवं वदतोऽस्माभिर्हतो भ्राता निवेदितः ।व्यसनं भवतश्चेदं संक्षेपाद्वै निवेदितम् ॥ ५० ॥
स संपातिस्तदा राजञ्श्रुत्वा सुमहदप्रियम् ।विषण्णचेताः पप्रच्छ पुनरस्मानरिंदम ॥ ५१ ॥
कः स रामः कथं सीता जटायुश्च कथं हतः ।इच्छामि सर्वमेवैतच्छ्रोतुं प्लवगसत्तमाः ॥ ५२ ॥
तस्याहं सर्वमेवैतं भवतो व्यसनागमम् ।प्रायोपवेशने चैव हेतुं विस्तरतोऽब्रुवम् ॥ ५३ ॥
सोऽस्मानुत्थापयामास वाक्येनानेन पक्षिराट् ।रावणो विदितो मह्यं लङ्का चास्य महापुरी ॥ ५४ ॥
दृष्टा पारे समुद्रस्य त्रिकूटगिरिकन्दरे ।भवित्री तत्र वैदेही न मेऽस्त्यत्र विचारणा ॥ ५५ ॥
इति तस्य वचः श्रुत्वा वयमुत्थाय सत्वराः ।सागरप्लवने मन्त्रं मन्त्रयामः परंतप ॥ ५६ ॥
नाध्यवस्यद्यदा कश्चित्सागरस्य विलङ्घने ।ततः पितरमाविश्य पुप्लुवेऽहं महार्णवम् ।शतयोजनविस्तीर्णं निहत्य जलराक्षसीम् ॥ ५७ ॥
तत्र सीता मया दृष्टा रावणान्तःपुरे सती ।उपवासतपःशीला भर्तृदर्शनलालसा ।जटिला मलदिग्धाङ्गी कृशा दीना तपस्विनी ॥ ५८ ॥
निमित्तैस्तामहं सीतामुपलभ्य पृथग्विधैः ।उपसृत्याब्रुवं चार्यामभिगम्य रहोगताम् ॥ ५९ ॥
सीते रामस्य दूतोऽहं वानरो मारुतात्मजः ।त्वद्दर्शनमभिप्रेप्सुरिह प्राप्तो विहायसा ॥ ६० ॥
राजपुत्रौ कुशलिनौ भ्रातरौ रामलक्ष्मणौ ।सर्वशाखामृगेन्द्रेण सुग्रीवेणाभिपालितौ ॥ ६१ ॥
कुशलं त्वाब्रवीद्रामः सीते सौमित्रिणा सह ।सखिभावाच्च सुग्रीवः कुशलं त्वानुपृच्छति ॥ ६२ ॥
क्षिप्रमेष्यति ते भर्ता सर्वशाखामृगैः सह ।प्रत्ययं कुरु मे देवि वानरोऽस्मि न राक्षसः ॥ ६३ ॥
मुहूर्तमिव च ध्यात्वा सीता मां प्रत्युवाच ह ।अवैमि त्वां हनूमन्तमविन्ध्यवचनादहम् ॥ ६४ ॥
अविन्ध्यो हि महाबाहो राक्षसो वृद्धसंमतः ।कथितस्तेन सुग्रीवस्त्वद्विधैः सचिवैर्वृतः ॥ ६५ ॥
गम्यतामिति चोक्त्वा मां सीता प्रादादिमं मणिम् ।धारिता येन वैदेही कालमेतमनिन्दिता ॥ ६६ ॥
प्रत्ययार्थं कथां चेमां कथयामास जानकी ।क्षिप्तामिषीकां काकस्य चित्रकूटे महागिरौ ।भवता पुरुषव्याघ्र प्रत्यभिज्ञानकारणात् ॥ ६७ ॥
श्रावयित्वा तदात्मानं ततो दग्ध्वा च तां पुरीम् ।संप्राप्त इति तं रामः प्रियवादिनमर्चयत् ॥ ६८ ॥
« »