Click on words to see what they mean.

मार्कण्डेय उवाच ।ततस्तां भर्तृशोकार्तां दीनां मलिनवाससम् ।मणिशेषाभ्यलंकारां रुदतीं च पतिव्रताम् ॥ १ ॥
राक्षसीभिरुपास्यन्तीं समासीनां शिलातले ।रावणः कामबाणार्तो ददर्शोपससर्प च ॥ २ ॥
देवदानवगन्धर्वयक्षकिंपुरुषैर्युधि ।अजितोऽशोकवनिकां ययौ कन्दर्पमोहितः ॥ ३ ॥
दिव्याम्बरधरः श्रीमान्सुमृष्टमणिकुण्डलः ।विचित्रमाल्यमुकुटो वसन्त इव मूर्तिमान् ॥ ४ ॥
स कल्पवृक्षसदृशो यत्नादपि विभूषितः ।श्मशानचैत्यद्रुमवद्भूषितोऽपि भयंकरः ॥ ५ ॥
स तस्यास्तनुमध्यायाः समीपे रजनीचरः ।ददृशे रोहिणीमेत्य शनैश्चर इव ग्रहः ॥ ६ ॥
स तामामन्त्र्य सुश्रोणीं पुष्पकेतुशराहतः ।इदमित्यब्रवीद्बालां त्रस्तां रौहीमिवाबलाम् ॥ ७ ॥
सीते पर्याप्तमेतावत्कृतो भर्तुरनुग्रहः ।प्रसादं कुरु तन्वङ्गि क्रियतां परिकर्म ते ॥ ८ ॥
भजस्व मां वरारोहे महार्हाभरणाम्बरा ।भव मे सर्वनारीणामुत्तमा वरवर्णिनि ॥ ९ ॥
सन्ति मे देवकन्याश्च राजर्षीणां तथाङ्गनाः ।सन्ति दानवकन्याश्च दैत्यानां चापि योषितः ॥ १० ॥
चतुर्दश पिशाचानां कोट्यो मे वचने स्थिताः ।द्विस्तावत्पुरुषादानां रक्षसां भीमकर्मणाम् ॥ ११ ॥
ततो मे त्रिगुणा यक्षा ये मद्वचनकारिणः ।केचिदेव धनाध्यक्षं भ्रातरं मे समाश्रिताः ॥ १२ ॥
गन्धर्वाप्सरसो भद्रे मामापानगतं सदा ।उपतिष्ठन्ति वामोरु यथैव भ्रातरं मम ॥ १३ ॥
पुत्रोऽहमपि विप्रर्षेः साक्षाद्विश्रवसो मुनेः ।पञ्चमो लोकपालानामिति मे प्रथितं यशः ॥ १४ ॥
दिव्यानि भक्ष्यभोज्यानि पानानि विविधानि च ।यथैव त्रिदशेशस्य तथैव मम भामिनि ॥ १५ ॥
क्षीयतां दुष्कृतं कर्म वनवासकृतं तव ।भार्या मे भव सुश्रोणि यथा मन्दोदरी तथा ॥ १६ ॥
इत्युक्ता तेन वैदेही परिवृत्य शुभानना ।तृणमन्तरतः कृत्वा तमुवाच निशाचरम् ॥ १७ ॥
अशिवेनातिवामोरूरजस्रं नेत्रवारिणा ।स्तनावपतितौ बाला सहितावभिवर्षती ।उवाच वाक्यं तं क्षुद्रं वैदेही पतिदेवता ॥ १८ ॥
असकृद्वदतो वाक्यमीदृशं राक्षसेश्वर ।विषादयुक्तमेतत्ते मया श्रुतमभाग्यया ॥ १९ ॥
तद्भद्रसुख भद्रं ते मानसं विनिवर्त्यताम् ।परदारास्म्यलभ्या च सततं च पतिव्रता ॥ २० ॥
न चैवोपयिकी भार्या मानुषी कृपणा तव ।विवशां धर्षयित्वा च कां त्वं प्रीतिमवाप्स्यसि ॥ २१ ॥
प्रजापतिसमो विप्रो ब्रह्मयोनिः पिता तव ।न च पालयसे धर्मं लोकपालसमः कथम् ॥ २२ ॥
भ्रातरं राजराजानं महेश्वरसखं प्रभुम् ।धनेश्वरं व्यपदिशन्कथं त्विह न लज्जसे ॥ २३ ॥
इत्युक्त्वा प्रारुदत्सीता कम्पयन्ती पयोधरौ ।शिरोधरां च तन्वङ्गी मुखं प्रच्छाद्य वाससा ॥ २४ ॥
तस्या रुदत्या भामिन्या दीर्घा वेणी सुसंयता ।ददृशे स्वसिता स्निग्धा काली व्यालीव मूर्धनि ॥ २५ ॥
तच्छ्रुत्वा रावणो वाक्यं सीतयोक्तं सुनिष्ठुरम् ।प्रत्याख्यातोऽपि दुर्मेधाः पुनरेवाब्रवीद्वचः ॥ २६ ॥
काममङ्गानि मे सीते दुनोतु मकरध्वजः ।न त्वामकामां सुश्रोणीं समेष्ये चारुहासिनीम् ॥ २७ ॥
किं नु शक्यं मया कर्तुं यत्त्वमद्यापि मानुषम् ।आहारभूतमस्माकं राममेवानुरुध्यसे ॥ २८ ॥
इत्युक्त्वा तामनिन्द्याङ्गीं स राक्षसगणेश्वरः ।तत्रैवान्तर्हितो भूत्वा जगामाभिमतां दिशम् ॥ २९ ॥
राक्षसीभिः परिवृता वैदेही शोककर्शिता ।सेव्यमाना त्रिजटया तत्रैव न्यवसत्तदा ॥ ३० ॥
« »