Click on words to see what they mean.

मार्कण्डेय उवाच ।सखा दशरथस्यासीज्जटायुररुणात्मजः ।गृध्रराजो महावीर्यः संपातिर्यस्य सोदरः ॥ १ ॥
स ददर्श तदा सीतां रावणाङ्कगतां स्नुषाम् ।क्रोधादभ्यद्रवत्पक्षी रावणं राक्षसेश्वरम् ॥ २ ॥
अथैनमब्रवीद्गृध्रो मुञ्च मुञ्चेति मैथिलीम् ।ध्रियमाणे मयि कथं हरिष्यसि निशाचर ।न हि मे मोक्ष्यसे जीवन्यदि नोत्सृजसे वधूम् ॥ ३ ॥
उक्त्वैवं राक्षसेन्द्रं तं चकर्त नखरैर्भृशम् ।पक्षतुण्डप्रहारैश्च बहुशो जर्जरीकृतः ।चक्षार रुधिरं भूरि गिरिः प्रस्रवणैरिव ॥ ४ ॥
स वध्यमानो गृध्रेण रामप्रियहितैषिणा ।खड्गमादाय चिच्छेद भुजौ तस्य पतत्रिणः ॥ ५ ॥
निहत्य गृध्रराजं स छिन्नाभ्रशिखरोपमम् ।ऊर्ध्वमाचक्रमे सीतां गृहीत्वाङ्केन राक्षसः ॥ ६ ॥
यत्र यत्र तु वैदेही पश्यत्याश्रममण्डलम् ।सरो वा सरितं वापि तत्र मुञ्चति भूषणम् ॥ ७ ॥
सा ददर्श गिरिप्रस्थे पञ्च वानरपुंगवान् ।तत्र वासो महद्दिव्यमुत्ससर्ज मनस्विनी ॥ ८ ॥
तत्तेषां वानरेन्द्राणां पपात पवनोद्धुतम् ।मध्ये सुपीतं पञ्चानां विद्युन्मेघान्तरे यथा ॥ ९ ॥
एवं हृतायां वैदेह्यां रामो हत्वा महामृगम् ।निवृत्तो ददृशे धीमान्भ्रातरं लक्ष्मणं तदा ॥ १० ॥
कथमुत्सृज्य वैदेहीं वने राक्षससेविते ।इत्येवं भ्रातरं दृष्ट्वा प्राप्तोऽसीति व्यगर्हयत् ॥ ११ ॥
मृगरूपधरेणाथ रक्षसा सोऽपकर्षणम् ।भ्रातुरागमनं चैव चिन्तयन्पर्यतप्यत ॥ १२ ॥
गर्हयन्नेव रामस्तु त्वरितस्तं समासदत् ।अपि जीवति वैदेही नेति पश्यामि लक्ष्मण ॥ १३ ॥
तस्य तत्सर्वमाचख्यौ सीताया लक्ष्मणो वचः ।यदुक्तवत्यसदृशं वैदेही पश्चिमं वचः ॥ १४ ॥
दह्यमानेन तु हृदा रामोऽभ्यपतदाश्रमम् ।स ददर्श तदा गृध्रं निहतं पर्वतोपमम् ॥ १५ ॥
राक्षसं शङ्कमानस्तु विकृष्य बलवद्धनुः ।अभ्यधावत काकुत्स्थस्ततस्तं सहलक्ष्मणः ॥ १६ ॥
स तावुवाच तेजस्वी सहितौ रामलक्ष्मणौ ।गृध्रराजोऽस्मि भद्रं वां सखा दशरथस्य ह ॥ १७ ॥
तस्य तद्वचनं श्रुत्वा संगृह्य धनुषी शुभे ।कोऽयं पितरमस्माकं नाम्नाहेत्यूचतुश्च तौ ॥ १८ ॥
ततो ददृशतुस्तौ तं छिन्नपक्षद्वयं तथा ।तयोः शशंस गृध्रस्तु सीतार्थे रावणाद्वधम् ॥ १९ ॥
अपृच्छद्राघवो गृध्रं रावणः कां दिशं गतः ।तस्य गृध्रः शिरःकम्पैराचचक्षे ममार च ॥ २० ॥
दक्षिणामिति काकुत्स्थो विदित्वास्य तदिङ्गितम् ।संस्कारं लम्भयामास सखायं पूजयन्पितुः ॥ २१ ॥
ततो दृष्ट्वाश्रमपदं व्यपविद्धबृसीघटम् ।विध्वस्तकलशं शून्यं गोमायुबलसेवितम् ॥ २२ ॥
दुःखशोकसमाविष्टौ वैदेहीहरणार्दितौ ।जग्मतुर्दण्डकारण्यं दक्षिणेन परंतपौ ॥ २३ ॥
वने महति तस्मिंस्तु रामः सौमित्रिणा सह ।ददर्श मृगयूथानि द्रवमाणानि सर्वशः ।शब्दं च घोरं सत्त्वानां दावाग्नेरिव वर्धतः ॥ २४ ॥
अपश्येतां मुहूर्ताच्च कबन्धं घोरदर्शनम् ।मेघपर्वतसंकाशं शालस्कन्धं महाभुजम् ।उरोगतविशालाक्षं महोदरमहामुखम् ॥ २५ ॥
यदृच्छयाथ तद्रक्षः करे जग्राह लक्ष्मणम् ।विषादमगमत्सद्यः सौमित्रिरथ भारत ॥ २६ ॥
स राममभिसंप्रेक्ष्य कृष्यते येन तन्मुखम् ।विषण्णश्चाब्रवीद्रामं पश्यावस्थामिमां मम ॥ २७ ॥
हरणं चैव वैदेह्या मम चायमुपप्लवः ।राज्यभ्रंशश्च भवतस्तातस्य मरणं तथा ॥ २८ ॥
नाहं त्वां सह वैदेह्या समेतं कोसलागतम् ।द्रक्ष्यामि पृथिवीराज्ये पितृपैतामहे स्थितम् ॥ २९ ॥
द्रक्ष्यन्त्यार्यस्य धन्या ये कुशलाजशमीलवैः ।अभिषिक्तस्य वदनं सोमं साभ्रलवं यथा ॥ ३० ॥
एवं बहुविधं धीमान्विललाप स लक्ष्मणः ।तमुवाचाथ काकुत्स्थः संभ्रमेष्वप्यसंभ्रमः ॥ ३१ ॥
मा विषीद नरव्याघ्र नैष कश्चिन्मयि स्थिते ।छिन्ध्यस्य दक्षिणं बाहुं छिन्नः सव्यो मया भुजः ॥ ३२ ॥
इत्येवं वदता तस्य भुजो रामेण पातितः ।खड्गेन भृशतीक्ष्णेन निकृत्तस्तिलकाण्डवत् ॥ ३३ ॥
ततोऽस्य दक्षिणं बाहुं खड्गेनाजघ्निवान्बली ।सौमित्रिरपि संप्रेक्ष्य भ्रातरं राघवं स्थितम् ॥ ३४ ॥
पुनरभ्याहनत्पार्श्वे तद्रक्षो लक्ष्मणो भृशम् ।गतासुरपतद्भूमौ कबन्धः सुमहांस्ततः ॥ ३५ ॥
तस्य देहाद्विनिःसृत्य पुरुषो दिव्यदर्शनः ।ददृशे दिवमास्थाय दिवि सूर्य इव ज्वलन् ॥ ३६ ॥
पप्रच्छ रामस्तं वाग्मी कस्त्वं प्रब्रूहि पृच्छतः ।कामया किमिदं चित्रमाश्चर्यं प्रतिभाति मे ॥ ३७ ॥
तस्याचचक्षे गन्धर्वो विश्वावसुरहं नृप ।प्राप्तो ब्रह्मानुशापेन योनिं राक्षससेविताम् ॥ ३८ ॥
रावणेन हृता सीता राज्ञा लङ्कानिवासिना ।सुग्रीवमभिगच्छस्व स ते साह्यं करिष्यति ॥ ३९ ॥
एषा पम्पा शिवजला हंसकारण्डवायुता ।ऋश्यमूकस्य शैलस्य संनिकर्षे तटाकिनी ॥ ४० ॥
संवसत्यत्र सुग्रीवश्चतुर्भिः सचिवैः सह ।भ्राता वानरराजस्य वालिनो हेममालिनः ॥ ४१ ॥
एतावच्छक्यमस्माभिर्वक्तुं द्रष्टासि जानकीम् ।ध्रुवं वानरराजस्य विदितो रावणालयः ॥ ४२ ॥
इत्युक्त्वान्तर्हितो दिव्यः पुरुषः स महाप्रभः ।विस्मयं जग्मतुश्चोभौ तौ वीरौ रामलक्ष्मणौ ॥ ४३ ॥
« »