Click on words to see what they mean.

युधिष्ठिर उवाच ।उक्तं भगवता जन्म रामादीनां पृथक्पृथक् ।प्रस्थानकारणं ब्रह्मञ्श्रोतुमिच्छामि कथ्यताम् ॥ १ ॥
कथं दाशरथी वीरौ भ्रातरौ रामलक्ष्मणौ ।प्रस्थापितौ वनं ब्रह्म मैथिली च यशस्विनी ॥ २ ॥
मार्कण्डेय उवाच ।जातपुत्रो दशरथः प्रीतिमानभवन्नृपः ।क्रियारतिर्धर्मपरः सततं वृद्धसेविता ॥ ३ ॥
क्रमेण चास्य ते पुत्रा व्यवर्धन्त महौजसः ।वेदेषु सरहस्येषु धनुर्वेदे च पारगाः ॥ ४ ॥
चरितब्रह्मचर्यास्ते कृतदाराश्च पार्थिव ।यदा तदा दशरथः प्रीतिमानभवत्सुखी ॥ ५ ॥
ज्येष्ठो रामोऽभवत्तेषां रमयामास हि प्रजाः ।मनोहरतया धीमान्पितुर्हृदयतोषणः ॥ ६ ॥
ततः स राजा मतिमान्मत्वात्मानं वयोऽधिकम् ।मन्त्रयामास सचिवैर्धर्मज्ञैश्च पुरोहितैः ॥ ७ ॥
अभिषेकाय रामस्य यौवराज्येन भारत ।प्राप्तकालं च ते सर्वे मेनिरे मन्त्रिसत्तमाः ॥ ८ ॥
लोहिताक्षं महाबाहुं मत्तमातङ्गगामिनम् ।दीर्घबाहुं महोरस्कं नीलकुञ्चितमूर्धजम् ॥ ९ ॥
दीप्यमानं श्रिया वीरं शक्रादनवमं बले ।पारगं सर्वधर्माणां बृहस्पतिसमं मतौ ॥ १० ॥
सर्वानुरक्तप्रकृतिं सर्वविद्याविशारदम् ।जितेन्द्रियममित्राणामपि दृष्टिमनोहरम् ॥ ११ ॥
नियन्तारमसाधूनां गोप्तारं धर्मचारिणाम् ।धृतिमन्तमनाधृष्यं जेतारमपराजितम् ॥ १२ ॥
पुत्रं राजा दशरथः कौसल्यानन्दवर्धनम् ।संदृश्य परमां प्रीतिमगच्छत्कुरुनन्दन ॥ १३ ॥
चिन्तयंश्च महातेजा गुणान्रामस्य वीर्यवान् ।अभ्यभाषत भद्रं ते प्रीयमाणः पुरोहितम् ॥ १४ ॥
अद्य पुष्यो निशि ब्रह्मन्पुण्यं योगमुपैष्यति ।संभाराः संभ्रियन्तां मे रामश्चोपनिमन्त्र्यताम् ॥ १५ ॥
इति तद्राजवचनं प्रतिश्रुत्याथ मन्थरा ।कैकेयीमभिगम्येदं काले वचनमब्रवीत् ॥ १६ ॥
अद्य कैकेयि दौर्भाग्यं राज्ञा ते ख्यापितं महत् ।आशीविषस्त्वां संक्रुद्धश्चण्डो दशति दुर्भगे ॥ १७ ॥
सुभगा खलु कौसल्या यस्याः पुत्रोऽभिषेक्ष्यते ।कुतो हि तव सौभाग्यं यस्याः पुत्रो न राज्यभाक् ॥ १८ ॥
सा तद्वचनमाज्ञाय सर्वाभरणभूषिता ।वेदीविलग्नमध्येव बिभ्रती रूपमुत्तमम् ॥ १९ ॥
विविक्ते पतिमासाद्य हसन्तीव शुचिस्मिता ।प्रणयं व्यञ्जयन्तीव मधुरं वाक्यमब्रवीत् ॥ २० ॥
सत्यप्रतिज्ञ यन्मे त्वं काममेकं निसृष्टवान् ।उपाकुरुष्व तद्राजंस्तस्मान्मुच्यस्व संकटात् ॥ २१ ॥
राजोवाच ।वरं ददानि ते हन्त तद्गृहाण यदिच्छसि ।अवध्यो वध्यतां कोऽद्य वध्यः कोऽद्य विमुच्यताम् ॥ २२ ॥
धनं ददानि कस्याद्य ह्रियतां कस्य वा पुनः ।ब्राह्मणस्वादिहान्यत्र यत्किंचिद्वित्तमस्ति मे ॥ २३ ॥
मार्कण्डेय उवाच ।सा तद्वचनमाज्ञाय परिगृह्य नराधिपम् ।आत्मनो बलमाज्ञाय तत एनमुवाच ह ॥ २४ ॥
आभिषेचनिकं यत्ते रामार्थमुपकल्पितम् ।भरतस्तदवाप्नोतु वनं गच्छतु राघवः ॥ २५ ॥
स तद्राजा वचः श्रुत्वा विप्रियं दारुणोदयम् ।दुःखार्तो भरतश्रेष्ठ न किंचिद्व्याजहार ह ॥ २६ ॥
ततस्तथोक्तं पितरं रामो विज्ञाय वीर्यवान् ।वनं प्रतस्थे धर्मात्मा राजा सत्यो भवत्विति ॥ २७ ॥
तमन्वगच्छल्लक्ष्मीवान्धनुष्माँल्लक्ष्मणस्तदा ।सीता च भार्या भद्रं ते वैदेही जनकात्मजा ॥ २८ ॥
ततो वनं गते रामे राजा दशरथस्तदा ।समयुज्यत देहस्य कालपर्यायधर्मणा ॥ २९ ॥
रामं तु गतमाज्ञाय राजानं च तथागतम् ।आनाय्य भरतं देवी कैकेयी वाक्यमब्रवीत् ॥ ३० ॥
गतो दशरथः स्वर्गं वनस्थौ रामलक्ष्मणौ ।गृहाण राज्यं विपुलं क्षेमं निहतकण्टकम् ॥ ३१ ॥
तामुवाच स धर्मात्मा नृशंसं बत ते कृतम् ।पतिं हत्वा कुलं चेदमुत्साद्य धनलुब्धया ॥ ३२ ॥
अयशः पातयित्वा मे मूर्ध्नि त्वं कुलपांसने ।सकामा भव मे मातरित्युक्त्वा प्ररुरोद ह ॥ ३३ ॥
स चारित्रं विशोध्याथ सर्वप्रकृतिसंनिधौ ।अन्वयाद्भ्रातरं रामं विनिवर्तनलालसः ॥ ३४ ॥
कौसल्यां च सुमित्रां च कैकेयीं च सुदुःखितः ।अग्रे प्रस्थाप्य यानैः स शत्रुघ्नसहितो ययौ ॥ ३५ ॥
वसिष्ठवामदेवाभ्यां विप्रैश्चान्यैः सहस्रशः ।पौरजानपदैः सार्धं रामानयनकाङ्क्षया ॥ ३६ ॥
ददर्श चित्रकूटस्थं स रामं सहलक्ष्मणम् ।तापसानामलंकारं धारयन्तं धनुर्धरम् ॥ ३७ ॥
विसर्जितः स रामेण पितुर्वचनकारिणा ।नन्दिग्रामेऽकरोद्राज्यं पुरस्कृत्यास्य पादुके ॥ ३८ ॥
रामस्तु पुनराशङ्क्य पौरजानपदागमम् ।प्रविवेश महारण्यं शरभङ्गाश्रमं प्रति ॥ ३९ ॥
सत्कृत्य शरभङ्गं स दण्डकारण्यमाश्रितः ।नदीं गोदावरीं रम्यामाश्रित्य न्यवसत्तदा ॥ ४० ॥
वसतस्तस्य रामस्य ततः शूर्पणखाकृतम् ।खरेणासीन्महद्वैरं जनस्थाननिवासिना ॥ ४१ ॥
रक्षार्थं तापसानां च राघवो धर्मवत्सलः ।चतुर्दश सहस्राणि जघान भुवि रक्षसाम् ॥ ४२ ॥
दूषणं च खरं चैव निहत्य सुमहाबलौ ।चक्रे क्षेमं पुनर्धीमान्धर्मारण्यं स राघवः ॥ ४३ ॥
हतेषु तेषु रक्षःसु ततः शूर्पणखा पुनः ।ययौ निकृत्तनासोष्ठी लङ्कां भ्रातुर्निवेशनम् ॥ ४४ ॥
ततो रावणमभ्येत्य राक्षसी दुःखमूर्छिता ।पपात पादयोर्भ्रातुः संशुष्करुधिरानना ॥ ४५ ॥
तां तथा विकृतां दृष्ट्वा रावणः क्रोधमूर्छितः ।उत्पपातासनात्क्रुद्धो दन्तैर्दन्तानुपस्पृशन् ॥ ४६ ॥
स्वानमात्यान्विसृज्याथ विविक्ते तामुवाच सः ।केनास्येवं कृता भद्रे मामचिन्त्यावमन्य च ॥ ४७ ॥
कः शूलं तीक्ष्णमासाद्य सर्वगात्रैर्निषेवते ।कः शिरस्यग्निमादाय विश्वस्तः स्वपते सुखम् ॥ ४८ ॥
आशीविषं घोरतरं पादेन स्पृशतीह कः ।सिंहं केसरिणं कश्च दंष्ट्रासु स्पृश्य तिष्ठति ॥ ४९ ॥
इत्येवं ब्रुवतस्तस्य स्रोतोभ्यस्तेजसोऽर्चिषः ।निश्चेरुर्दह्यतो रात्रौ वृक्षस्येव स्वरन्ध्रतः ॥ ५० ॥
तस्य तत्सर्वमाचख्यौ भगिनी रामविक्रमम् ।खरदूषणसंयुक्तं राक्षसानां पराभवम् ॥ ५१ ॥
स निश्चित्य ततः कृत्यं स्वसारमुपसान्त्व्य च ।ऊर्ध्वमाचक्रमे राजा विधाय नगरे विधिम् ॥ ५२ ॥
त्रिकूटं समतिक्रम्य कालपर्वतमेव च ।ददर्श मकरावासं गम्भीरोदं महोदधिम् ॥ ५३ ॥
तमतीत्याथ गोकर्णमभ्यगच्छद्दशाननः ।दयितं स्थानमव्यग्रं शूलपाणेर्महात्मनः ॥ ५४ ॥
तत्राभ्यगच्छन्मारीचं पूर्वामात्यं दशाननः ।पुरा रामभयादेव तापस्यं समुपाश्रितम् ॥ ५५ ॥
« »