Click on words to see what they mean.

मार्कण्डेय उवाच ।पुलस्त्यस्य तु यः क्रोधादर्धदेहोऽभवन्मुनिः ।विश्रवा नाम सक्रोधः स वैश्रवणमैक्षत ॥ १ ॥
बुबुधे तं तु सक्रोधं पितरं राक्षसेश्वरः ।कुबेरस्तत्प्रसादार्थं यतते स्म सदा नृप ॥ २ ॥
स राजराजो लङ्कायां निवसन्नरवाहनः ।राक्षसीः प्रददौ तिस्रः पितुर्वै परिचारिकाः ॥ ३ ॥
तास्तदा तं महात्मानं संतोषयितुमुद्यताः ।ऋषिं भरतशार्दूल नृत्तगीतविशारदाः ॥ ४ ॥
पुष्पोत्कटा च राका च मालिनी च विशां पते ।अन्योन्यस्पर्धया राजञ्श्रेयस्कामाः सुमध्यमाः ॥ ५ ॥
तासां स भगवांस्तुष्टो महात्मा प्रददौ वरान् ।लोकपालोपमान्पुत्रानेकैकस्या यथेप्सितान् ॥ ६ ॥
पुष्पोत्कटायां जज्ञाते द्वौ पुत्रौ राक्षसेश्वरौ ।कुम्भकर्णदशग्रीवौ बलेनाप्रतिमौ भुवि ॥ ७ ॥
मालिनी जनयामास पुत्रमेकं विभीषणम् ।राकायां मिथुनं जज्ञे खरः शूर्पणखा तथा ॥ ८ ॥
विभीषणस्तु रूपेण सर्वेभ्योऽभ्यधिकोऽभवत् ।स बभूव महाभागो धर्मगोप्ता क्रियारतिः ॥ ९ ॥
दशग्रीवस्तु सर्वेषां ज्येष्ठो राक्षसपुंगवः ।महोत्साहो महावीर्यो महासत्त्वपराक्रमः ॥ १० ॥
कुम्भकर्णो बलेनासीत्सर्वेभ्योऽभ्यधिकस्तदा ।मायावी रणशौण्डश्च रौद्रश्च रजनीचरः ॥ ११ ॥
खरो धनुषि विक्रान्तो ब्रह्मद्विट्पिशिताशनः ।सिद्धविघ्नकरी चापि रौद्रा शूर्पणखा तथा ॥ १२ ॥
सर्वे वेदविदः शूराः सर्वे सुचरितव्रताः ।ऊषुः पित्रा सह रता गन्धमादनपर्वते ॥ १३ ॥
ततो वैश्रवणं तत्र ददृशुर्नरवाहनम् ।पित्रा सार्धं समासीनमृद्ध्या परमया युतम् ॥ १४ ॥
जातस्पर्धास्ततस्ते तु तपसे धृतनिश्चयाः ।ब्रह्माणं तोषयामासुर्घोरेण तपसा तदा ॥ १५ ॥
अतिष्ठदेकपादेन सहस्रं परिवत्सरान् ।वायुभक्षो दशग्रीवः पञ्चाग्निः सुसमाहितः ॥ १६ ॥
अधःशायी कुम्भकर्णो यताहारो यतव्रतः ।विभीषणः शीर्णपर्णमेकमभ्यवहारयत् ॥ १७ ॥
उपवासरतिर्धीमान्सदा जप्यपरायणः ।तमेव कालमातिष्ठत्तीव्रं तप उदारधीः ॥ १८ ॥
खरः शूर्पणखा चैव तेषां वै तप्यतां तपः ।परिचर्यां च रक्षां च चक्रतुर्हृष्टमानसौ ॥ १९ ॥
पूर्णे वर्षसहस्रे तु शिरश्छित्त्वा दशाननः ।जुहोत्यग्नौ दुराधर्षस्तेनातुष्यज्जगत्प्रभुः ॥ २० ॥
ततो ब्रह्मा स्वयं गत्वा तपसस्तान्न्यवारयत् ।प्रलोभ्य वरदानेन सर्वानेव पृथक्पृथक् ॥ २१ ॥
ब्रह्मोवाच ।प्रीतोऽस्मि वो निवर्तध्वं वरान्वृणुत पुत्रकाः ।यद्यदिष्टमृते त्वेकममरत्वं तथास्तु तत् ॥ २२ ॥
यद्यदग्नौ हुतं सर्वं शिरस्ते महदीप्सया ।तथैव तानि ते देहे भविष्यन्ति यथेप्सितम् ॥ २३ ॥
वैरूप्यं च न ते देहे कामरूपधरस्तथा ।भविष्यसि रणेऽरीणां विजेतासि न संशयः ॥ २४ ॥
रावण उवाच ।गन्धर्वदेवासुरतो यक्षराक्षसतस्तथा ।सर्पकिंनरभूतेभ्यो न मे भूयात्पराभवः ॥ २५ ॥
ब्रह्मोवाच ।य एते कीर्तिताः सर्वे न तेभ्योऽस्ति भयं तव ।ऋते मनुष्याद्भद्रं ते तथा तद्विहितं मया ॥ २६ ॥
मार्कण्डेय उवाच ।एवमुक्तो दशग्रीवस्तुष्टः समभवत्तदा ।अवमेने हि दुर्बुद्धिर्मनुष्यान्पुरुषादकः ॥ २७ ॥
कुम्भकर्णमथोवाच तथैव प्रपितामहः ।स वव्रे महतीं निद्रां तमसा ग्रस्तचेतनः ॥ २८ ॥
तथा भविष्यतीत्युक्त्वा विभीषणमुवाच ह ।वरं वृणीष्व पुत्र त्वं प्रीतोऽस्मीति पुनः पुनः ॥ २९ ॥
विभीषण उवाच ।परमापद्गतस्यापि नाधर्मे मे मतिर्भवेत् ।अशिक्षितं च भगवन्ब्रह्मास्त्रं प्रतिभातु मे ॥ ३० ॥
ब्रह्मोवाच ।यस्माद्राक्षसयोनौ ते जातस्यामित्रकर्शन ।नाधर्मे रमते बुद्धिरमरत्वं ददामि ते ॥ ३१ ॥
मार्कण्डेय उवाच ।राक्षसस्तु वरं लब्ध्वा दशग्रीवो विशां पते ।लङ्कायाश्च्यावयामास युधि जित्वा धनेश्वरम् ॥ ३२ ॥
हित्वा स भगवाँल्लङ्कामाविशद्गन्धमादनम् ।गन्धर्वयक्षानुगतो रक्षःकिंपुरुषैः सह ॥ ३३ ॥
विमानं पुष्पकं तस्य जहाराक्रम्य रावणः ।शशाप तं वैश्रवणो न त्वामेतद्वहिष्यति ॥ ३४ ॥
यस्तु त्वां समरे हन्ता तमेवैतद्वहिष्यति ।अवमन्य गुरुं मां च क्षिप्रं त्वं न भविष्यसि ॥ ३५ ॥
विभीषणस्तु धर्मात्मा सतां धर्ममनुस्मरन् ।अन्वगच्छन्महाराज श्रिया परमया युतः ॥ ३६ ॥
तस्मै स भगवांस्तुष्टो भ्राता भ्रात्रे धनेश्वरः ।सेनापत्यं ददौ धीमान्यक्षराक्षससेनयोः ॥ ३७ ॥
राक्षसाः पुरुषादाश्च पिशाचाश्च महाबलाः ।सर्वे समेत्य राजानमभ्यषिञ्चद्दशाननम् ॥ ३८ ॥
दशग्रीवस्तु दैत्यानां देवानां च बलोत्कटः ।आक्रम्य रत्नान्यहरत्कामरूपी विहंगमः ॥ ३९ ॥
रावयामास लोकान्यत्तस्माद्रावण उच्यते ।दशग्रीवः कामबलो देवानां भयमादधत् ॥ ४० ॥
« »