Click on words to see what they mean.

वैशंपायन उवाच ।सरोषरागोपहतेन वल्गुना सरागनेत्रेण नतोन्नतभ्रुवा ।मुखेन विस्फूर्य सुवीरराष्ट्रपं ततोऽब्रवीत्तं द्रुपदात्मजा पुनः ॥ १ ॥
यशस्विनस्तीक्ष्णविषान्महारथानधिक्षिपन्मूढ न लज्जसे कथम् ।महेन्द्रकल्पान्निरतान्स्वकर्मसु स्थितान्समूहेष्वपि यक्षरक्षसाम् ॥ २ ॥
न किंचिदीड्यं प्रवदन्ति पापं वनेचरं वा गृहमेधिनं वा ।तपस्विनं संपरिपूर्णविद्यं भषन्ति हैवं श्वनराः सुवीर ॥ ३ ॥
अहं तु मन्ये तव नास्ति कश्चिदेतादृशे क्षत्रियसंनिवेशे ।यस्त्वाद्य पातालमुखे पतन्तं पाणौ गृहीत्वा प्रतिसंहरेत ॥ ४ ॥
नागं प्रभिन्नं गिरिकूटकल्पमुपत्यकां हैमवतीं चरन्तम् ।दण्डीव यूथादपसेधसे त्वं यो जेतुमाशंससि धर्मराजम् ॥ ५ ॥
बाल्यात्प्रसुप्तस्य महाबलस्य सिंहस्य पक्ष्माणि मुखाल्लुनासि ।पदा समाहत्य पलायमानः क्रुद्धं यदा द्रक्ष्यसि भीमसेनम् ॥ ६ ॥
महाबलं घोरतरं प्रवृद्धं जातं हरिं पर्वतकन्दरेषु ।प्रसुप्तमुग्रं प्रपदेन हंसि यः क्रुद्धमासेत्स्यसि जिष्णुमुग्रम् ॥ ७ ॥
कृष्णोरगौ तीक्ष्णविषौ द्विजिह्वौ मत्तः पदाक्रामसि पुच्छदेशे ।यः पाण्डवाभ्यां पुरुषोत्तमाभ्यां जघन्यजाभ्यां प्रयुयुत्ससे त्वम् ॥ ८ ॥
यथा च वेणुः कदली नलो वा फलन्त्यभावाय न भूतयेऽऽत्मनः ।तथैव मां तैः परिरक्ष्यमाणामादास्यसे कर्कटकीव गर्भम् ॥ ९ ॥
जयद्रथ उवाच ।जानामि कृष्णे विदितं ममैतद्यथाविधास्ते नरदेवपुत्राः ।न त्वेवमेतेन विभीषणेन शक्या वयं त्रासयितुं त्वयाद्य ॥ १० ॥
वयं पुनः सप्तदशेषु कृष्णे कुलेषु सर्वेऽनवमेषु जाताः ।षड्भ्यो गुणेभ्योऽभ्यधिका विहीनान्मन्यामहे द्रौपदि पाण्डुपुत्रान् ॥ ११ ॥
सा क्षिप्रमातिष्ठ गजं रथं वा न वाक्यमात्रेण वयं हि शक्याः ।आशंस वा त्वं कृपणं वदन्ती सौवीरराजस्य पुनः प्रसादम् ॥ १२ ॥
द्रौपद्युवाच ।महाबला किं त्विह दुर्बलेव सौवीरराजस्य मताहमस्मि ।याहं प्रमाथादिह संप्रतीता सौवीरराजं कृपणं वदेयम् ॥ १३ ॥
यस्या हि कृष्णौ पदवीं चरेतां समास्थितावेकरथे सहायौ ।इन्द्रोऽपि तां नापहरेत्कथंचिन्मनुष्यमात्रः कृपणः कुतोऽन्यः ॥ १४ ॥
यदा किरीटी परवीरघाती निघ्नन्रथस्थो द्विषतां मनांसि ।मदन्तरे त्वद्ध्वजिनीं प्रवेष्टा कक्षं दहन्नग्निरिवोष्णगेषु ॥ १५ ॥
जनार्दनस्यानुगा वृष्णिवीरा महेष्वासाः केकयाश्चापि सर्वे ।एते हि सर्वे मम राजपुत्राः प्रहृष्टरूपाः पदवीं चरेयुः ॥ १६ ॥
मौर्वीविसृष्टाः स्तनयित्नुघोषा गाण्डीवमुक्तास्त्वतिवेगवन्तः ।हस्तं समाहत्य धनंजयस्य भीमाः शब्दं घोरतरं नदन्ति ॥ १७ ॥
गाण्डीवमुक्तांश्च महाशरौघान्पतंगसंघानिव शीघ्रवेगान् ।सशङ्खघोषः सतलत्रघोषो गाण्डीवधन्वा मुहुरुद्वमंश्च ।यदा शरानर्पयिता तवोरसि तदा मनस्ते किमिवाभविष्यत् ॥ १८ ॥
गदाहस्तं भीममभिद्रवन्तं माद्रीपुत्रौ संपतन्तौ दिशश्च ।अमर्षजं क्रोधविषं वमन्तौ दृष्ट्वा चिरं तापमुपैष्यसेऽधम ॥ १९ ॥
यथा चाहं नातिचरे कथंचित्पतीन्महार्हान्मनसापि जातु ।तेनाद्य सत्येन वशीकृतं त्वां द्रष्टास्मि पार्थैः परिकृष्यमाणम् ॥ २० ॥
न संभ्रमं गन्तुमहं हि शक्ष्ये त्वया नृशंसेन विकृष्यमाणा ।समागताहं हि कुरुप्रवीरैः पुनर्वनं काम्यकमागता च ॥ २१ ॥
वैशंपायन उवाच ।सा ताननुप्रेक्ष्य विशालनेत्रा जिघृक्षमाणानवभर्त्सयन्ती ।प्रोवाच मा मा स्पृशतेति भीता धौम्यं प्रचुक्रोश पुरोहितं सा ॥ २२ ॥
जग्राह तामुत्तरवस्त्रदेशे जयद्रथस्तं समवाक्षिपत्सा ।तया समाक्षिप्ततनुः स पापः पपात शाखीव निकृत्तमूलः ॥ २३ ॥
प्रगृह्यमाणा तु महाजवेन मुहुर्विनिःश्वस्य च राजपुत्री ।सा कृष्यमाणा रथमारुरोह धौम्यस्य पादावभिवाद्य कृष्णा ॥ २४ ॥
धौम्य उवाच ।नेयं शक्या त्वया नेतुमविजित्य महारथान् ।धर्मं क्षत्रस्य पौराणमवेक्षस्व जयद्रथ ॥ २५ ॥
क्षुद्रं कृत्वा फलं पापं प्राप्स्यसि त्वमसंशयम् ।आसाद्य पाण्डवान्वीरान्धर्मराजपुरोगमान् ॥ २६ ॥
वैशंपायन उवाच ।इत्युक्त्वा ह्रियमाणां तां राजपुत्रीं यशस्विनीम् ।अन्वगच्छत्तदा धौम्यः पदातिगणमध्यगः ॥ २७ ॥
« »