Click on words to see what they mean.

दुर्योधन उवाच ।चित्रसेनं समागम्य प्रहसन्नर्जुनस्तदा ।इदं वचनमक्लीबमब्रवीत्परवीरहा ॥ १ ॥
भ्रातॄनर्हसि नो वीर मोक्तुं गन्धर्वसत्तम ।अनर्हा धर्षणं हीमे जीवमानेषु पाण्डुषु ॥ २ ॥
एवमुक्तस्तु गन्धर्वः पाण्डवेन महात्मना ।उवाच यत्कर्ण वयं मन्त्रयन्तो विनिर्गताः ।द्रष्टारः स्म सुखाद्धीनान्सदारान्पाण्डवानिति ॥ ३ ॥
तस्मिन्नुच्चार्यमाणे तु गन्धर्वेण वचस्यथ ।भूमेर्विवरमन्वैच्छं प्रवेष्टुं व्रीडयान्वितः ॥ ४ ॥
युधिष्ठिरमथागम्य गन्धर्वाः सह पाण्डवैः ।अस्मद्दुर्मन्त्रितं तस्मै बद्धांश्चास्मान्न्यवेदयन् ॥ ५ ॥
स्त्रीसमक्षमहं दीनो बद्धः शत्रुवशं गतः ।युधिष्ठिरस्योपहृतः किं नु दुःखमतः परम् ॥ ६ ॥
ये मे निराकृता नित्यं रिपुर्येषामहं सदा ।तैर्मोक्षितोऽहं दुर्बुद्धिर्दत्तं तैर्जीवितं च मे ॥ ७ ॥
प्राप्तः स्यां यद्यहं वीर वधं तस्मिन्महारणे ।श्रेयस्तद्भविता मह्यमेवंभूतं न जीवितम् ॥ ८ ॥
भवेद्यशः पृथिव्यां मे ख्यातं गन्धर्वतो वधात् ।प्राप्ताश्च लोकाः पुण्याः स्युर्महेन्द्रसदनेऽक्षयाः ॥ ९ ॥
यत्त्वद्य मे व्यवसितं तच्छृणुध्वं नरर्षभाः ।इह प्रायमुपासिष्ये यूयं व्रजत वै गृहान् ।भ्रातरश्चैव मे सर्वे प्रयान्त्वद्य पुरं प्रति ॥ १० ॥
कर्णप्रभृतयश्चैव सुहृदो बान्धवाश्च ये ।दुःशासनं पुरस्कृत्य प्रयान्त्वद्य पुरं प्रति ॥ ११ ॥
न ह्यहं प्रतियास्यामि पुरं शत्रुनिराकृतः ।शत्रुमानापहो भूत्वा सुहृदां मानकृत्तथा ॥ १२ ॥
स सुहृच्छोकदो भूत्वा शत्रूणां हर्षवर्धनः ।वारणाह्वयमासाद्य किं वक्ष्यामि जनाधिपम् ॥ १३ ॥
भीष्मो द्रोणः कृपो द्रौणिर्विदुरः संजयस्तथा ।बाह्लीकः सोमदत्तश्च ये चान्ये वृद्धसंमताः ॥ १४ ॥
ब्राह्मणाः श्रेणिमुख्याश्च तथोदासीनवृत्तयः ।किं मां वक्ष्यन्ति किं चापि प्रतिवक्ष्यामि तानहम् ॥ १५ ॥
रिपूणां शिरसि स्थित्वा तथा विक्रम्य चोरसि ।आत्मदोषात्परिभ्रष्टः कथं वक्ष्यामि तानहम् ॥ १६ ॥
दुर्विनीताः श्रियं प्राप्य विद्यामैश्वर्यमेव च ।तिष्ठन्ति न चिरं भद्रे यथाहं मदगर्वितः ॥ १७ ॥
अहो बत यथेदं मे कष्टं दुश्चरितं कृतम् ।स्वयं दुर्बुद्धिना मोहाद्येन प्राप्तोऽस्मि संशयम् ॥ १८ ॥
तस्मात्प्रायमुपासिष्ये न हि शक्ष्यामि जीवितुम् ।चेतयानो हि को जीवेत्कृच्छ्राच्छत्रुभिरुद्धृतः ॥ १९ ॥
शत्रुभिश्चावहसितो मानी पौरुषवर्जितः ।पाण्डवैर्विक्रमाढ्यैश्च सावमानमवेक्षितः ॥ २० ॥
वैशंपायन उवाच ।एवं चिन्तापरिगतो दुःशासनमथाब्रवीत् ।दुःशासन निबोधेदं वचनं मम भारत ॥ २१ ॥
प्रतीच्छ त्वं मया दत्तमभिषेकं नृपो भव ।प्रशाधि पृथिवीं स्फीतां कर्णसौबलपालिताम् ॥ २२ ॥
भ्रातॄन्पालय विस्रब्धं मरुतो वृत्रहा यथा ।बान्धवास्त्वोपजीवन्तु देवा इव शतक्रतुम् ॥ २३ ॥
ब्राह्मणेषु सदा वृत्तिं कुर्वीथाश्चाप्रमादतः ।बन्धूनां सुहृदां चैव भवेथास्त्वं गतिः सदा ॥ २४ ॥
ज्ञातींश्चाप्यनुपश्येथा विष्णुर्देवगणानिव ।गुरवः पालनीयास्ते गच्छ पालय मेदिनीम् ॥ २५ ॥
नन्दयन्सुहृदः सर्वाञ्शात्रवांश्चावभर्त्सयन् ।कण्ठे चैनं परिष्वज्य गम्यतामित्युवाच ह ॥ २६ ॥
तस्य तद्वचनं श्रुत्वा दीनो दुःशासनोऽब्रवीत् ।अश्रुकण्ठः सुदुःखार्तः प्राञ्जलिः प्रणिपत्य च ।सगद्गदमिदं वाक्यं भ्रातरं ज्येष्ठमात्मनः ॥ २७ ॥
प्रसीदेत्यपतद्भूमौ दूयमानेन चेतसा ।दुःखितः पादयोस्तस्य नेत्रजं जलमुत्सृजन् ॥ २८ ॥
उक्तवांश्च नरव्याघ्रो नैतदेवं भविष्यति ।विदीर्येत्सनगा भूमिर्द्यौश्चापि शकलीभवेत् ।रविरात्मप्रभां जह्यात्सोमः शीतांशुतां त्यजेत् ॥ २९ ॥
वायुः शैघ्र्यमथो जह्याद्धिमवांश्च परिव्रजेत् ।शुष्येत्तोयं समुद्रेषु वह्निरप्युष्णतां त्यजेत् ॥ ३० ॥
न चाहं त्वदृते राजन्प्रशासेयं वसुंधराम् ।पुनः पुनः प्रसीदेति वाक्यं चेदमुवाच ह ।त्वमेव नः कुले राजा भविष्यसि शतं समाः ॥ ३१ ॥
एवमुक्त्वा स राजेन्द्र सस्वनं प्ररुरोद ह ।पादौ संगृह्य मानार्हौ भ्रातुर्ज्येष्ठस्य भारत ॥ ३२ ॥
तथा तौ दुःखितौ दृष्ट्वा दुःशासनसुयोधनौ ।अभिगम्य व्यथाविष्टः कर्णस्तौ प्रत्यभाषत ॥ ३३ ॥
विषीदथः किं कौरव्यौ बालिश्यात्प्राकृताविव ।न शोकः शोचमानस्य विनिवर्तेत कस्यचित् ॥ ३४ ॥
यदा च शोचतः शोको व्यसनं नापकर्षति ।सामर्थ्यं किं त्वतः शोके शोचमानौ प्रपश्यथः ।धृतिं गृह्णीत मा शत्रूञ्शोचन्तौ नन्दयिष्यथः ॥ ३५ ॥
कर्तव्यं हि कृतं राजन्पाण्डवैस्तव मोक्षणम् ।नित्यमेव प्रियं कार्यं राज्ञो विषयवासिभिः ।पाल्यमानास्त्वया ते हि निवसन्ति गतज्वराः ॥ ३६ ॥
नार्हस्येवंगते मन्युं कर्तुं प्राकृतवद्यथा ।विषण्णास्तव सोदर्यास्त्वयि प्रायं समास्थिते ।उत्तिष्ठ व्रज भद्रं ते समाश्वासय सोदरान् ॥ ३७ ॥
राजन्नद्यावगच्छामि तवेह लघुसत्त्वताम् ।किमत्र चित्रं यद्वीर मोक्षितः पाण्डवैरसि ।सद्यो वशं समापन्नः शत्रूणां शत्रुकर्शन ॥ ३८ ॥
सेनाजीवैश्च कौरव्य तथा विषयवासिभिः ।अज्ञातैर्यदि वा ज्ञातैः कर्तव्यं नृपतेः प्रियम् ॥ ३९ ॥
प्रायः प्रधानाः पुरुषाः क्षोभयन्त्यरिवाहिनीम् ।निगृह्यन्ते च युद्धेषु मोक्ष्यन्ते च स्वसैनिकैः ॥ ४० ॥
सेनाजीवाश्च ये राज्ञां विषये सन्ति मानवाः ।तैः संगम्य नृपार्थाय यतितव्यं यथातथम् ॥ ४१ ॥
यद्येवं पाण्डवै राजन्भवद्विषयवासिभिः ।यदृच्छया मोक्षितोऽद्य तत्र का परिदेवना ॥ ४२ ॥
न चैतत्साधु यद्राजन्पाण्डवास्त्वां नृपोत्तम ।स्वसेनया संप्रयान्तं नानुयान्ति स्म पृष्ठतः ॥ ४३ ॥
शूराश्च बलवन्तश्च संयुगेष्वपलायिनः ।भवतस्ते सभायां वै प्रेष्यतां पूर्वमागताः ॥ ४४ ॥
पाण्डवेयानि रत्नानि त्वमद्याप्युपभुञ्जसे ।सत्त्वस्थान्पाण्डवान्पश्य न ते प्रायमुपाविशन् ।उत्तिष्ठ राजन्भद्रं ते न चिन्तां कर्तुमर्हसि ॥ ४५ ॥
अवश्यमेव नृपते राज्ञो विषयवासिभिः ।प्रियाण्याचरितव्यानि तत्र का परिदेवना ॥ ४६ ॥
मद्वाक्यमेतद्राजेन्द्र यद्येवं न करिष्यसि ।स्थास्यामीह भवत्पादौ शुश्रूषन्नरिमर्दन ॥ ४७ ॥
नोत्सहे जीवितुमहं त्वद्विहीनो नरर्षभ ।प्रायोपविष्टस्तु नृप राज्ञां हास्यो भविष्यसि ॥ ४८ ॥
वैशंपायन उवाच ।एवमुक्तस्तु कर्णेन राजा दुर्योधनस्तदा ।नैवोत्थातुं मनश्चक्रे स्वर्गाय कृतनिश्चयः ॥ ४९ ॥
« »