Click on words to see what they mean.

वैशंपायन उवाच ।धृतराष्ट्रं ततः सर्वे ददृशुर्जनमेजय ।पृष्ट्वा सुखमथो राज्ञः पृष्ट्वा राज्ञा च भारत ॥ १ ॥
ततस्तैर्विहितः पूर्वं समङ्गो नाम बल्लवः ।समीपस्थास्तदा गावो धृतराष्ट्रे न्यवेदयत् ॥ २ ॥
अनन्तरं च राधेयः शकुनिश्च विशां पते ।आहतुः पार्थिवश्रेष्ठं धृतराष्ट्रं जनाधिपम् ॥ ३ ॥
रमणीयेषु देशेषु घोषाः संप्रति कौरव ।स्मारणासमयः प्राप्तो वत्सानामपि चाङ्कनम् ॥ ४ ॥
मृगया चोचिता राजन्नस्मिन्काले सुतस्य ते ।दुर्योधनस्य गमनं त्वमनुज्ञातुमर्हसि ॥ ५ ॥
धृतराष्ट्र उवाच ।मृगया शोभना तात गवां च समवेक्षणम् ।विश्रम्भस्तु न गन्तव्यो बल्लवानामिति स्मरे ॥ ६ ॥
ते तु तत्र नरव्याघ्राः समीप इति नः श्रुतम् ।अतो नाभ्यनुजानामि गमनं तत्र वः स्वयम् ॥ ७ ॥
छद्मना निर्जितास्ते हि कर्शिताश्च महावने ।तपोनित्याश्च राधेय समर्थाश्च महारथाः ॥ ८ ॥
धर्मराजो न संक्रुध्येद्भीमसेनस्त्वमर्षणः ।यज्ञसेनस्य दुहिता तेज एव तु केवलम् ॥ ९ ॥
यूयं चाप्यपराध्येयुर्दर्पमोहसमन्विताः ।ततो विनिर्दहेयुस्ते तपसा हि समन्विताः ॥ १० ॥
अथ वा सायुधा वीरा मन्युनाभिपरिप्लुताः ।सहिता बद्धनिस्त्रिंशा दहेयुः शस्त्रतेजसा ॥ ११ ॥
अथ यूयं बहुत्वात्तानारभध्वं कथंचन ।अनार्यं परमं तत्स्यादशक्यं तच्च मे मतम् ॥ १२ ॥
उषितो हि महाबाहुरिन्द्रलोके धनंजयः ।दिव्यान्यस्त्राण्यवाप्याथ ततः प्रत्यागतो वनम् ॥ १३ ॥
अकृतास्त्रेण पृथिवी जिता बीभत्सुना पुरा ।किं पुनः स कृतास्त्रोऽद्य न हन्याद्वो महारथः ॥ १४ ॥
अथ वा मद्वचः श्रुत्वा तत्र यत्ता भविष्यथ ।उद्विग्नवासो विश्रम्भाद्दुःखं तत्र भविष्यति ॥ १५ ॥
अथ वा सैनिकाः केचिदपकुर्युर्युधिष्ठिरे ।तदबुद्धिकृतं कर्म दोषमुत्पादयेच्च वः ॥ १६ ॥
तस्माद्गच्छन्तु पुरुषाः स्मारणायाप्तकारिणः ।न स्वयं तत्र गमनं रोचये तव भारत ॥ १७ ॥
शकुनिरुवाच ।धर्मज्ञः पाण्डवो ज्येष्ठः प्रतिज्ञातं च संसदि ।तेन द्वादश वर्षाणि वस्तव्यानीति भारत ॥ १८ ॥
अनुवृत्ताश्च ते सर्वे पाण्डवा धर्मचारिणः ।युधिष्ठिरश्च कौन्तेयो न नः कोपं करिष्यति ॥ १९ ॥
मृगयां चैव नो गन्तुमिच्छा संवर्धते भृशम् ।स्मारणं च चिकीर्षामो न तु पाण्डवदर्शनम् ॥ २० ॥
न चानार्यसमाचारः कश्चित्तत्र भविष्यति ।न च तत्र गमिष्यामो यत्र तेषां प्रतिश्रयः ॥ २१ ॥
वैशंपायन उवाच ।एवमुक्तः शकुनिना धृतराष्ट्रो जनेश्वरः ।दुर्योधनं सहामात्यमनुजज्ञे न कामतः ॥ २२ ॥
अनुज्ञातस्तु गान्धारिः कर्णेन सहितस्तदा ।निर्ययौ भरतश्रेष्ठो बलेन महता वृतः ॥ २३ ॥
दुःशासनेन च तथा सौबलेन च देविना ।संवृतो भ्रातृभिश्चान्यैः स्त्रीभिश्चापि सहस्रशः ॥ २४ ॥
तं निर्यान्तं महाबाहुं द्रष्टुं द्वैतवनं सरः ।पौराश्चानुययुः सर्वे सहदारा वनं च तत् ॥ २५ ॥
अष्टौ रथसहस्राणि त्रीणि नागायुतानि च ।पत्तयो बहुसाहस्रा हयाश्च नवतिः शताः ॥ २६ ॥
शकटापणवेश्याश्च वणिजो बन्दिनस्तथा ।नराश्च मृगयाशीलाः शतशोऽथ सहस्रशः ॥ २७ ॥
ततः प्रयाणे नृपतेः सुमहानभवत्स्वनः ।प्रावृषीव महावायोरुद्धतस्य विशां पते ॥ २८ ॥
गव्यूतिमात्रे न्यवसद्राजा दुर्योधनस्तदा ।प्रयातो वाहनैः सर्वैस्ततो द्वैतवनं सरः ॥ २९ ॥
« »