Click on words to see what they mean.

वैशंपायन उवाच ।कर्णस्य वचनं श्रुत्वा राजा दुर्योधनस्तदा ।हृष्टो भूत्वा पुनर्दीन इदं वचनमब्रवीत् ॥ १ ॥
ब्रवीषि यदिदं कर्ण सर्वं मे मनसि स्थितम् ।न त्वभ्यनुज्ञां लप्स्यामि गमने यत्र पाण्डवाः ॥ २ ॥
परिदेवति तान्वीरान्धृतराष्ट्रो महीपतिः ।मन्यतेऽभ्यधिकांश्चापि तपोयोगेन पाण्डवान् ॥ ३ ॥
अथ वाप्यनुबुध्येत नृपोऽस्माकं चिकीर्षितम् ।एवमप्यायतिं रक्षन्नाभ्यनुज्ञातुमर्हति ॥ ४ ॥
न हि द्वैतवने किंचिद्विद्यतेऽन्यत्प्रयोजनम् ।उत्सादनमृते तेषां वनस्थानां मम द्विषाम् ॥ ५ ॥
जानासि हि यथा क्षत्ता द्यूतकाल उपस्थिते ।अब्रवीद्यच्च मां त्वां च सौबलं च वचस्तदा ॥ ६ ॥
तानि पूर्वाणि वाक्यानि यच्चान्यत्परिदेवितम् ।विचिन्त्य नाधिगच्छामि गमनायेतराय वा ॥ ७ ॥
ममापि हि महान्हर्षो यदहं भीमफल्गुनौ ।क्लिष्टावरण्ये पश्येयं कृष्णया सहिताविति ॥ ८ ॥
न तथा प्राप्नुयां प्रीतिमवाप्य वसुधामपि ।दृष्ट्वा यथा पाण्डुसुतान्वल्कलाजिनवाससः ॥ ९ ॥
किं नु स्यादधिकं तस्माद्यदहं द्रुपदात्मजाम् ।द्रौपदीं कर्ण पश्येयं काषायवसनां वने ॥ १० ॥
यदि मां धर्मराजश्च भीमसेनश्च पाण्डवः ।युक्तं परमया लक्ष्म्या पश्येतां जीवितं भवेत् ॥ ११ ॥
उपायं न तु पश्यामि येन गच्छेम तद्वनम् ।यथा चाभ्यनुजानीयाद्गच्छन्तं मां महीपतिः ॥ १२ ॥
स सौबलेन सहितस्तथा दुःशासनेन च ।उपायं पश्य निपुणं येन गच्छेम तद्वनम् ॥ १३ ॥
अहमप्यद्य निश्चित्य गमनायेतराय वा ।काल्यमेव गमिष्यामि समीपं पार्थिवस्य ह ॥ १४ ॥
मयि तत्रोपविष्टे तु भीष्मे च कुरुसत्तमे ।उपायो यो भवेद्दृष्टस्तं ब्रूयाः सहसौबलः ॥ १५ ॥
ततो भीष्मस्य राज्ञश्च निशम्य गमनं प्रति ।व्यवसायं करिष्येऽहमनुनीय पितामहम् ॥ १६ ॥
तथेत्युक्त्वा तु ते सर्वे जग्मुरावसथान्प्रति ।व्युषितायां रजन्यां तु कर्णो राजानमभ्ययात् ॥ १७ ॥
ततो दुर्योधनं कर्णः प्रहसन्निदमब्रवीत् ।उपायः परिदृष्टोऽयं तं निबोध जनेश्वर ॥ १८ ॥
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप ।घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ १९ ॥
उचितं हि सदा गन्तुं घोषयात्रां विशां पते ।एवं च त्वां पिता राजन्समनुज्ञातुमर्हति ॥ २० ॥
तथा कथयमानौ तौ घोषयात्राविनिश्चयम् ।गान्धारराजः शकुनिः प्रत्युवाच हसन्निव ॥ २१ ॥
उपायोऽयं मया दृष्टो गमनाय निरामयः ।अनुज्ञास्यति नो राजा चोदयिष्यति चाप्युत ॥ २२ ॥
घोषा द्वैतवने सर्वे त्वत्प्रतीक्षा नराधिप ।घोषयात्रापदेशेन गमिष्यामो न संशयः ॥ २३ ॥
ततः प्रहसिताः सर्वे तेऽन्योन्यस्य तलान्ददुः ।तदेव च विनिश्चित्य ददृशुः कुरुसत्तमम् ॥ २४ ॥
« »