Click on words to see what they mean.

जनमेजय उवाच ।एवं वने वर्तमाना नराग्र्याः शीतोष्णवातातपकर्शिताङ्गाः ।सरस्तदासाद्य वनं च पुण्यं ततः परं किमकुर्वन्त पार्थाः ॥ १ ॥
वैशंपायन उवाच ।सरस्तदासाद्य तु पाण्डुपुत्रा जनं समुत्सृज्य विधाय चैषाम् ।वनानि रम्याण्यथ पर्वतांश्च नदीप्रदेशांश्च तदा विचेरुः ॥ २ ॥
तथा वने तान्वसतः प्रवीरान्स्वाध्यायवन्तश्च तपोधनाश्च ।अभ्याययुर्वेदविदः पुराणास्तान्पूजयामासुरथो नराग्र्याः ॥ ३ ॥
ततः कदाचित्कुशलः कथासु विप्रोऽभ्यगच्छद्भुवि कौरवेयान् ।स तैः समेत्याथ यदृच्छयैव वैचित्रवीर्यं नृपमभ्यगच्छत् ॥ ४ ॥
अथोपविष्टः प्रतिसत्कृतश्च वृद्धेन राज्ञा कुरुसत्तमेन ।प्रचोदितः सन्कथयां बभूव धर्मानिलेन्द्रप्रभवान्यमौ च ॥ ५ ॥
कृशांश्च वातातपकर्शिताङ्गान्दुःखस्य चोग्रस्य मुखे प्रपन्नान् ।तां चाप्यनाथामिव वीरनाथां कृष्णां परिक्लेशगुणेन युक्ताम् ॥ ६ ॥
ततः कथां तस्य निशम्य राजा वैचित्रवीर्यः कृपयाभितप्तः ।वने स्थितान्पार्थिवपुत्रपौत्राञ्श्रुत्वा तदा दुःखनदीं प्रपन्नान् ॥ ७ ॥
प्रोवाच दैन्याभिहतान्तरात्मा निःश्वासबाष्पोपहतः स पार्थान् ।वाचं कथंचित्स्थिरतामुपेत्य तत्सर्वमात्मप्रभवं विचिन्त्य ॥ ८ ॥
कथं नु सत्यः शुचिरार्यवृत्तो ज्येष्ठः सुतानां मम धर्मराजः ।अजातशत्रुः पृथिवीतलस्थः शेते पुरा राङ्कवकूटशायी ॥ ९ ॥
प्रबोध्यते मागधसूतपूगैर्नित्यं स्तुवद्भिः स्वयमिन्द्रकल्पः ।पतत्रिसंघैः स जघन्यरात्रे प्रबोध्यते नूनमिडातलस्थः ॥ १० ॥
कथं नु वातातपकर्शिताङ्गो वृकोदरः कोपपरिप्लुताङ्गः ।शेते पृथिव्यामतथोचिताङ्गः कृष्णासमक्षं वसुधातलस्थः ॥ ११ ॥
तथार्जुनः सुकुमारो मनस्वी वशे स्थितो धर्मसुतस्य राज्ञः ।विदूयमानैरिव सर्वगात्रैर्ध्रुवं न शेते वसतीरमर्षात् ॥ १२ ॥
यमौ च कृष्णां च युधिष्ठिरं च भीमं च दृष्ट्वा सुखविप्रयुक्तान् ।विनिःश्वसन्सर्प इवोग्रतेजा ध्रुवं न शेते वसतीरमर्षात् ॥ १३ ॥
तथा यमौ चाप्यसुखौ सुखार्हौ समृद्धरूपावमरौ दिवीव ।प्रजागरस्थौ ध्रुवमप्रशान्तौ धर्मेण सत्येन च वार्यमाणौ ॥ १४ ॥
समीरणेनापि समो बलेन समीरणस्यैव सुतो बलीयान् ।स धर्मपाशेन सितोग्रतेजा ध्रुवं विनिःश्वस्य सहत्यमर्षम् ॥ १५ ॥
स चापि भूमौ परिवर्तमानो वधं सुतानां मम काङ्क्षमाणः ।सत्येन धर्मेण च वार्यमाणः कालं प्रतीक्षत्यधिको रणेऽन्यैः ॥ १६ ॥
अजातशत्रौ तु जिते निकृत्या दुःशासनो यत्परुषाण्यवोचत् ।तानि प्रविष्टानि वृकोदराङ्गं दहन्ति मर्माग्निरिवेन्धनानि ॥ १७ ॥
न पापकं ध्यास्यति धर्मपुत्रो धनंजयश्चाप्यनुवर्तते तम् ।अरण्यवासेन विवर्धते तु भीमस्य कोपोऽग्निरिवानिलेन ॥ १८ ॥
स तेन कोपेन विदीर्यमाणः करं करेणाभिनिपीड्य वीरः ।विनिःश्वसत्युष्णमतीव घोरं दहन्निवेमान्मम पुत्रपौत्रान् ॥ १९ ॥
गाण्डीवधन्वा च वृकोदरश्च संरम्भिणावन्तककालकल्पौ ।न शेषयेतां युधि शत्रुसेनां शरान्किरन्तावशनिप्रकाशान् ॥ २० ॥
दुर्योधनः शकुनिः सूतपुत्रो दुःशासनश्चापि सुमन्दचेताः ।मधु प्रपश्यन्ति न तु प्रपातं वृकोदरं चैव धनंजयं च ॥ २१ ॥
शुभाशुभं पुरुषः कर्म कृत्वा प्रतीक्षते तस्य फलं स्म कर्ता ।स तेन युज्यत्यवशः फलेन मोक्षः कथं स्यात्पुरुषस्य तस्मात् ॥ २२ ॥
क्षेत्रे सुकृष्टे ह्युपिते च बीजे देवे च वर्षत्यृतुकालयुक्तम् ।न स्यात्फलं तस्य कुतः प्रसिद्धिरन्यत्र दैवादिति चिन्तयामि ॥ २३ ॥
कृतं मताक्षेण यथा न साधु साधुप्रवृत्तेन च पाण्डवेन ।मया च दुष्पुत्रवशानुगेन यथा कुरूणामयमन्तकालः ॥ २४ ॥
ध्रुवं प्रवास्यत्यसमीरितोऽपि ध्रुवं प्रजास्यत्युत गर्भिणी या ।ध्रुवं दिनादौ रजनीप्रणाशस्तथा क्षपादौ च दिनप्रणाशः ॥ २५ ॥
क्रियेत कस्मान्न परे च कुर्युर्वित्तं न दद्युः पुरुषाः कथंचित् ।प्राप्यार्थकालं च भवेदनर्थः कथं नु तत्स्यादिति तत्कुतः स्यात् ॥ २६ ॥
कथं न भिद्येत न च स्रवेत न च प्रसिच्येदिति रक्षितव्यम् ।अरक्ष्यमाणः शतधा विशीर्येद्ध्रुवं न नाशोऽस्ति कृतस्य लोके ॥ २७ ॥
गतो ह्यरण्यादपि शक्रलोकं धनंजयः पश्यत वीर्यमस्य ।अस्त्राणि दिव्यानि चतुर्विधानि ज्ञात्वा पुनर्लोकमिमं प्रपन्नः ॥ २८ ॥
स्वर्गं हि गत्वा सशरीर एव को मानुषः पुनरागन्तुमिच्छेत् ।अन्यत्र कालोपहताननेकान्समीक्षमाणस्तु कुरून्मुमूर्षून् ॥ २९ ॥
धनुर्ग्राहश्चार्जुनः सव्यसाची धनुश्च तद्गाण्डिवं लोकसारम् ।अस्त्राणि दिव्यानि च तानि तस्य त्रयस्य तेजः प्रसहेत को नु ॥ ३० ॥
निशम्य तद्वचनं पार्थिवस्य दुर्योधनो रहिते सौबलश्च ।अबोधयत्कर्णमुपेत्य सर्वं स चाप्यहृष्टोऽभवदल्पचेताः ॥ ३१ ॥
« »