Click on words to see what they mean.

मार्कण्डेय उवाच ।श्रिया जुष्टं महासेनं देवसेनापतिं कृतम् ।सप्तर्षिपत्न्यः षड्देव्यस्तत्सकाशमथागमन् ॥ १ ॥
ऋषिभिः संपरित्यक्ता धर्मयुक्ता महाव्रताः ।द्रुतमागम्य चोचुस्ता देवसेनापतिं प्रभुम् ॥ २ ॥
वयं पुत्र परित्यक्ता भर्तृभिर्देवसंमितैः ।अकारणाद्रुषा तात पुण्यस्थानात्परिच्युताः ॥ ३ ॥
अस्माभिः किल जातस्त्वमिति केनाप्युदाहृतम् ।असत्यमेतत्संश्रुत्य तस्मान्नस्त्रातुमर्हसि ॥ ४ ॥
अक्षयश्च भवेत्स्वर्गस्त्वत्प्रसादाद्धि नः प्रभो ।त्वां पुत्रं चाप्यभीप्सामः कृत्वैतदनृणो भव ॥ ५ ॥
स्कन्द उवाच ।मातरो हि भवत्यो मे सुतो वोऽहमनिन्दिताः ।यच्चाभीप्सथ तत्सर्वं संभविष्यति वस्तथा ॥ ६ ॥
मार्कण्डेय उवाच ।एवमुक्ते ततः शक्रं किं कार्यमिति सोऽब्रवीत् ।उक्तः स्कन्देन ब्रूहीति सोऽब्रवीद्वासवस्ततः ॥ ७ ॥
अभिजित्स्पर्धमाना तु रोहिण्या कन्यसी स्वसा ।इच्छन्ती ज्येष्ठतां देवी तपस्तप्तुं वनं गता ॥ ८ ॥
तत्र मूढोऽस्मि भद्रं ते नक्षत्रं गगनाच्च्युतम् ।कालं त्विमं परं स्कन्द ब्रह्मणा सह चिन्तय ॥ ९ ॥
धनिष्ठादिस्तदा कालो ब्रह्मणा परिनिर्मितः ।रोहिण्याद्योऽभवत्पूर्वमेवं संख्या समाभवत् ॥ १० ॥
एवमुक्ते तु शक्रेण त्रिदिवं कृत्तिका गताः ।नक्षत्रं शकटाकारं भाति तद्वह्निदैवतम् ॥ ११ ॥
विनता चाब्रवीत्स्कन्दं मम त्वं पिण्डदः सुतः ।इच्छामि नित्यमेवाहं त्वया पुत्र सहासितुम् ॥ १२ ॥
स्कन्द उवाच ।एवमस्तु नमस्तेऽस्तु पुत्रस्नेहात्प्रशाधि माम् ।स्नुषया पूज्यमाना वै देवि वत्स्यसि नित्यदा ॥ १३ ॥
मार्कण्डेय उवाच ।अथ मातृगणः सर्वः स्कन्दं वचनमब्रवीत् ।वयं सर्वस्य लोकस्य मातरः कविभिः स्तुताः ।इच्छामो मातरस्तुभ्यं भवितुं पूजयस्व नः ॥ १४ ॥
स्कन्द उवाच ।मातरस्तु भवत्यो मे भवतीनामहं सुतः ।उच्यतां यन्मया कार्यं भवतीनामथेप्सितम् ॥ १५ ॥
मातर ऊचुः ।यास्तु ता मातरः पूर्वं लोकस्यास्य प्रकल्पिताः ।अस्माकं तद्भवेत्स्थानं तासां चैव न तद्भवेत् ॥ १६ ॥
भवेम पूज्या लोकस्य न ताः पूज्याः सुरर्षभ ।प्रजास्माकं हृतास्ताभिस्त्वत्कृते ताः प्रयच्छ नः ॥ १७ ॥
स्कन्द उवाच ।दत्ताः प्रजा न ताः शक्या भवतीभिर्निषेवितुम् ।अन्यां वः कां प्रयच्छामि प्रजां यां मनसेच्छथ ॥ १८ ॥
मातर ऊचुः ।इच्छाम तासां मातॄणां प्रजा भोक्तुं प्रयच्छ नः ।त्वया सह पृथग्भूता ये च तासामथेश्वराः ॥ १९ ॥
स्कन्द उवाच ।प्रजा वो दद्मि कष्टं तु भवतीभिरुदाहृतम् ।परिरक्षत भद्रं वः प्रजाः साधु नमस्कृताः ॥ २० ॥
मातर ऊचुः ।परिरक्षाम भद्रं ते प्रजाः स्कन्द यथेच्छसि ।त्वया नो रोचते स्कन्द सहवासश्चिरं प्रभो ॥ २१ ॥
स्कन्द उवाच ।यावत्षोडश वर्षाणि भवन्ति तरुणाः प्रजाः ।प्रबाधत मनुष्याणां तावद्रूपैः पृथग्विधैः ॥ २२ ॥
अहं च वः प्रदास्यामि रौद्रमात्मानमव्ययम् ।परमं तेन सहिता सुखं वत्स्यथ पूजिताः ॥ २३ ॥
मार्कण्डेय उवाच ।ततः शरीरात्स्कन्दस्य पुरुषः काञ्चनप्रभः ।भोक्तुं प्रजाः स मर्त्यानां निष्पपात महाबलः ॥ २४ ॥
अपतत्स तदा भूमौ विसंज्ञोऽथ क्षुधान्वितः ।स्कन्देन सोऽभ्यनुज्ञातो रौद्ररूपोऽभवद्ग्रहः ।स्कन्दापस्मारमित्याहुर्ग्रहं तं द्विजसत्तमाः ॥ २५ ॥
विनता तु महारौद्रा कथ्यते शकुनिग्रहः ।पूतनां राक्षसीं प्राहुस्तं विद्यात्पूतनाग्रहम् ॥ २६ ॥
कष्टा दारुणरूपेण घोररूपा निशाचरी ।पिशाची दारुणाकारा कथ्यते शीतपूतना ।गर्भान्सा मानुषीणां तु हरते घोरदर्शना ॥ २७ ॥
अदितिं रेवतीं प्राहुर्ग्रहस्तस्यास्तु रैवतः ।सोऽपि बालाञ्शिशून्घोरो बाधते वै महाग्रहः ॥ २८ ॥
दैत्यानां या दितिर्माता तामाहुर्मुखमण्डिकाम् ।अत्यर्थं शिशुमांसेन संप्रहृष्टा दुरासदा ॥ २९ ॥
कुमाराश्च कुमार्यश्च ये प्रोक्ताः स्कन्दसंभवाः ।तेऽपि गर्भभुजः सर्वे कौरव्य सुमहाग्रहाः ॥ ३० ॥
तासामेव कुमारीणां पतयस्ते प्रकीर्तिताः ।अज्ञायमाना गृह्णन्ति बालकान्रौद्रकर्मिणः ॥ ३१ ॥
गवां माता तु या प्राज्ञैः कथ्यते सुरभिर्नृप ।शकुनिस्तामथारुह्य सह भुङ्क्ते शिशून्भुवि ॥ ३२ ॥
सरमा नाम या माता शुनां देवी जनाधिप ।सापि गर्भान्समादत्ते मानुषीणां सदैव हि ॥ ३३ ॥
पादपानां च या माता करञ्जनिलया हि सा ।करञ्जे तां नमस्यन्ति तस्मात्पुत्रार्थिनो नराः ॥ ३४ ॥
इमे त्वष्टादशान्ये वै ग्रहा मांसमधुप्रियाः ।द्विपञ्चरात्रं तिष्ठन्ति सततं सूतिकागृहे ॥ ३५ ॥
कद्रूः सूक्ष्मवपुर्भूत्वा गर्भिणीं प्रविशेद्यदा ।भुङ्क्ते सा तत्र तं गर्भं सा तु नागं प्रसूयते ॥ ३६ ॥
गन्धर्वाणां तु या माता सा गर्भं गृह्य गच्छति ।ततो विलीनगर्भा सा मानुषी भुवि दृश्यते ॥ ३७ ॥
या जनित्री त्वप्सरसां गर्भमास्ते प्रगृह्य सा ।उपविष्टं ततो गर्भं कथयन्ति मनीषिणः ॥ ३८ ॥
लोहितस्योदधेः कन्या धात्री स्कन्दस्य सा स्मृता ।लोहितायनिरित्येवं कदम्बे सा हि पूज्यते ॥ ३९ ॥
पुरुषेषु यथा रुद्रस्तथार्या प्रमदास्वपि ।आर्या माता कुमारस्य पृथक्कामार्थमिज्यते ॥ ४० ॥
एवमेते कुमाराणां मया प्रोक्ता महाग्रहाः ।यावत्षोडश वर्षाणि अशिवास्ते शिवास्ततः ॥ ४१ ॥
ये च मातृगणाः प्रोक्ताः पुरुषाश्चैव ये ग्रहाः ।सर्वे स्कन्दग्रहा नाम ज्ञेया नित्यं शरीरिभिः ॥ ४२ ॥
तेषां प्रशमनं कार्यं स्नानं धूपमथाञ्जनम् ।बलिकर्मोपहारश्च स्कन्दस्येज्या विशेषतः ॥ ४३ ॥
एवमेतेऽर्चिताः सर्वे प्रयच्छन्ति शुभं नृणाम् ।आयुर्वीर्यं च राजेन्द्र सम्यक्पूजानमस्कृताः ॥ ४४ ॥
ऊर्ध्वं तु षोडशाद्वर्षाद्ये भवन्ति ग्रहा नृणाम् ।तानहं संप्रवक्ष्यामि नमस्कृत्य महेश्वरम् ॥ ४५ ॥
यः पश्यति नरो देवाञ्जाग्रद्वा शयितोऽपि वा ।उन्माद्यति स तु क्षिप्रं तं तु देवग्रहं विदुः ॥ ४६ ॥
आसीनश्च शयानश्च यः पश्यति नरः पितॄन् ।उन्माद्यति स तु क्षिप्रं स ज्ञेयस्तु पितृग्रहः ॥ ४७ ॥
अवमन्यति यः सिद्धान्क्रुद्धाश्चापि शपन्ति यम् ।उन्माद्यति स तु क्षिप्रं ज्ञेयः सिद्धग्रहस्तु सः ॥ ४८ ॥
उपाघ्राति च यो गन्धान्रसांश्चापि पृथग्विधान् ।उन्माद्यति स तु क्षिप्रं स ज्ञेयो राक्षसो ग्रहः ॥ ४९ ॥
गन्धर्वाश्चापि यं दिव्याः संस्पृशन्ति नरं भुवि ।उन्माद्यति स तु क्षिप्रं ग्रहो गान्धर्व एव सः ॥ ५० ॥
आविशन्ति च यं यक्षाः पुरुषं कालपर्यये ।उन्माद्यति स तु क्षिप्रं ज्ञेयो यक्षग्रहस्तु सः ॥ ५१ ॥
अधिरोहन्ति यं नित्यं पिशाचाः पुरुषं क्वचित् ।उन्माद्यति स तु क्षिप्रं पैशाचं तं ग्रहं विदुः ॥ ५२ ॥
यस्य दोषैः प्रकुपितं चित्तं मुह्यति देहिनः ।उन्माद्यति स तु क्षिप्रं साधनं तस्य शास्त्रतः ॥ ५३ ॥
वैक्लव्याच्च भयाच्चैव घोराणां चापि दर्शनात् ।उन्माद्यति स तु क्षिप्रं सत्त्वं तस्य तु साधनम् ॥ ५४ ॥
कश्चित्क्रीडितुकामो वै भोक्तुकामस्तथापरः ।अभिकामस्तथैवान्य इत्येष त्रिविधो ग्रहः ॥ ५५ ॥
यावत्सप्ततिवर्षाणि भवन्त्येते ग्रहा नृणाम् ।अतः परं देहिनां तु ग्रहतुल्यो भवेज्ज्वरः ॥ ५६ ॥
अप्रकीर्णेन्द्रियं दान्तं शुचिं नित्यमतन्द्रितम् ।आस्तिकं श्रद्दधानं च वर्जयन्ति सदा ग्रहाः ॥ ५७ ॥
इत्येष ते ग्रहोद्देशो मानुषाणां प्रकीर्तितः ।न स्पृशन्ति ग्रहा भक्तान्नरान्देवं महेश्वरम् ॥ ५८ ॥
« »