Click on words to see what they mean.

मार्कण्डेय उवाच ।उपविष्टं ततः स्कन्दं हिरण्यकवचस्रजम् ।हिरण्यचूडमुकुटं हिरण्याक्षं महाप्रभम् ॥ १ ॥
लोहिताम्बरसंवीतं तीक्ष्णदंष्ट्रं मनोरमम् ।सर्वलक्षणसंपन्नं त्रैलोक्यस्यापि सुप्रियम् ॥ २ ॥
ततस्तं वरदं शूरं युवानं मृष्टकुण्डलम् ।अभजत्पद्मरूपा श्रीः स्वयमेव शरीरिणी ॥ ३ ॥
श्रिया जुष्टः पृथुयशाः स कुमारवरस्तदा ।निषण्णो दृश्यते भूतैः पौर्णमास्यां यथा शशी ॥ ४ ॥
अपूजयन्महात्मानो ब्राह्मणास्तं महाबलम् ।इदमाहुस्तदा चैव स्कन्दं तत्र महर्षयः ॥ ५ ॥
हिरण्यवर्ण भद्रं ते लोकानां शंकरो भव ।त्वया षड्रात्रजातेन सर्वे लोका वशीकृताः ॥ ६ ॥
अभयं च पुनर्दत्तं त्वयैवैषां सुरोत्तम ।तस्मादिन्द्रो भवानस्तु त्रैलोक्यस्याभयंकरः ॥ ७ ॥
स्कन्द उवाच ।किमिन्द्रः सर्वलोकानां करोतीह तपोधनाः ।कथं देवगणांश्चैव पाति नित्यं सुरेश्वरः ॥ ८ ॥
ऋषय ऊचुः ।इन्द्रो दिशति भूतानां बलं तेजः प्रजाः सुखम् ।तुष्टः प्रयच्छति तथा सर्वान्दायान्सुरेश्वरः ॥ ९ ॥
दुर्वृत्तानां संहरति वृत्तस्थानां प्रयच्छति ।अनुशास्ति च भूतानि कार्येषु बलसूदनः ॥ १० ॥
असूर्ये च भवेत्सूर्यस्तथाचन्द्रे च चन्द्रमाः ।भवत्यग्निश्च वायुश्च पृथिव्यापश्च कारणैः ॥ ११ ॥
एतदिन्द्रेण कर्तव्यमिन्द्रे हि विपुलं बलम् ।त्वं च वीर बलश्रेष्ठस्तस्मादिन्द्रो भवस्व नः ॥ १२ ॥
शक्र उवाच ।भवस्वेन्द्रो महाबाहो सर्वेषां नः सुखावहः ।अभिषिच्यस्व चैवाद्य प्राप्तरूपोऽसि सत्तम ॥ १३ ॥
स्कन्द उवाच ।शाधि त्वमेव त्रैलोक्यमव्यग्रो विजये रतः ।अहं ते किंकरः शक्र न ममेन्द्रत्वमीप्सितम् ॥ १४ ॥
शक्र उवाच ।बलं तवाद्भुतं वीर त्वं देवानामरीञ्जहि ।अवज्ञास्यन्ति मां लोका वीर्येण तव विस्मिताः ॥ १५ ॥
इन्द्रत्वेऽपि स्थितं वीर बलहीनं पराजितम् ।आवयोश्च मिथो भेदे प्रयतिष्यन्त्यतन्द्रिताः ॥ १६ ॥
भेदिते च त्वयि विभो लोको द्वैधमुपेष्यति ।द्विधाभूतेषु लोकेषु निश्चितेष्वावयोस्तथा ।विग्रहः संप्रवर्तेत भूतभेदान्महाबल ॥ १७ ॥
तत्र त्वं मां रणे तात यथाश्रद्धं विजेष्यसि ।तस्मादिन्द्रो भवानद्य भविता मा विचारय ॥ १८ ॥
स्कन्द उवाच ।त्वमेव राजा भद्रं ते त्रैलोक्यस्य ममैव च ।करोमि किं च ते शक्र शासनं तद्ब्रवीहि मे ॥ १९ ॥
शक्र उवाच ।यदि सत्यमिदं वाक्यं निश्चयाद्भाषितं त्वया ।यदि वा शासनं स्कन्द कर्तुमिच्छसि मे शृणु ॥ २० ॥
अभिषिच्यस्व देवानां सेनापत्ये महाबल ।अहमिन्द्रो भविष्यामि तव वाक्यान्महाबल ॥ २१ ॥
स्कन्द उवाच ।दानवानां विनाशाय देवानामर्थसिद्धये ।गोब्राह्मणस्य त्राणार्थं सेनापत्येऽभिषिञ्च माम् ॥ २२ ॥
मार्कण्डेय उवाच ।सोऽभिषिक्तो मघवता सर्वैर्देवगणैः सह ।अतीव शुशुभे तत्र पूज्यमानो महर्षिभिः ॥ २३ ॥
तस्य तत्काञ्चनं छत्रं ध्रियमाणं व्यरोचत ।यथैव सुसमिद्धस्य पावकस्यात्ममण्डलम् ॥ २४ ॥
विश्वकर्मकृता चास्य दिव्या माला हिरण्मयी ।आबद्धा त्रिपुरघ्नेन स्वयमेव यशस्विना ॥ २५ ॥
आगम्य मनुजव्याघ्र सह देव्या परंतप ।अर्चयामास सुप्रीतो भगवान्गोवृषध्वजः ॥ २६ ॥
रुद्रमग्निं द्विजाः प्राहू रुद्रसूनुस्ततस्तु सः ।रुद्रेण शुक्रमुत्सृष्टं तच्छ्वेतः पर्वतोऽभवत् ।पावकस्येन्द्रियं श्वेते कृत्तिकाभिः कृतं नगे ॥ २७ ॥
पूज्यमानं तु रुद्रेण दृष्ट्वा सर्वे दिवौकसः ।रुद्रसूनुं ततः प्राहुर्गुहं गुणवतां वरम् ॥ २८ ॥
अनुप्रविश्य रुद्रेण वह्निं जातो ह्ययं शिशुः ।तत्र जातस्ततः स्कन्दो रुद्रसूनुस्ततोऽभवत् ॥ २९ ॥
रुद्रस्य वह्नेः स्वाहायाः षण्णां स्त्रीणां च तेजसा ।जातः स्कन्दः सुरश्रेष्ठो रुद्रसूनुस्ततोऽभवत् ॥ ३० ॥
अरजे वाससी रक्ते वसानः पावकात्मजः ।भाति दीप्तवपुः श्रीमान्रक्ताभ्राभ्यामिवांशुमान् ॥ ३१ ॥
कुक्कुटश्चाग्निना दत्तस्तस्य केतुरलंकृतः ।रथे समुच्छ्रितो भाति कालाग्निरिव लोहितः ॥ ३२ ॥
विवेश कवचं चास्य शरीरं सहजं ततः ।युध्यमानस्य देवस्य प्रादुर्भवति तत्सदा ॥ ३३ ॥
शक्तिर्वर्म बलं तेजः कान्तत्वं सत्यमक्षतिः ।ब्रह्मण्यत्वमसंमोहो भक्तानां परिरक्षणम् ॥ ३४ ॥
निकृन्तनं च शत्रूणां लोकानां चाभिरक्षणम् ।स्कन्देन सह जातानि सर्वाण्येव जनाधिप ॥ ३५ ॥
एवं देवगणैः सर्वैः सोऽभिषिक्तः स्वलंकृतः ।बभौ प्रतीतः सुमनाः परिपूर्णेन्दुदर्शनः ॥ ३६ ॥
इष्टैः स्वाध्यायघोषैश्च देवतूर्यरवैरपि ।देवगन्धर्वगीतैश्च सर्वैरप्सरसां गणैः ॥ ३७ ॥
एतैश्चान्यैश्च विविधैर्हृष्टतुष्टैरलंकृतैः ।क्रीडन्निव तदा देवैरभिषिक्तः स पावकिः ॥ ३८ ॥
अभिषिक्तं महासेनमपश्यन्त दिवौकसः ।विनिहत्य तमः सूर्यं यथेहाभ्युदितं तथा ॥ ३९ ॥
अथैनमभ्ययुः सर्वा देवसेनाः सहस्रशः ।अस्माकं त्वं पतिरिति ब्रुवाणाः सर्वतोदिशम् ॥ ४० ॥
ताः समासाद्य भगवान्सर्वभूतगणैर्वृतः ।अर्चितश्च स्तुतश्चैव सान्त्वयामास ता अपि ॥ ४१ ॥
शतक्रतुश्चाभिषिच्य स्कन्दं सेनापतिं तदा ।सस्मार तां देवसेनां या सा तेन विमोक्षिता ॥ ४२ ॥
अयं तस्याः पतिर्नूनं विहितो ब्रह्मणा स्वयम् ।इति चिन्त्यानयामास देवसेनां स्वलंकृताम् ॥ ४३ ॥
स्कन्दं चोवाच बलभिदियं कन्या सुरोत्तम ।अजाते त्वयि निर्दिष्टा तव पत्नी स्वयंभुवा ॥ ४४ ॥
तस्मात्त्वमस्या विधिवत्पाणिं मन्त्रपुरस्कृतम् ।गृहाण दक्षिणं देव्याः पाणिना पद्मवर्चसम् ॥ ४५ ॥
एवमुक्तः स जग्राह तस्याः पाणिं यथाविधि ।बृहस्पतिर्मन्त्रविधिं जजाप च जुहाव च ॥ ४६ ॥
एवं स्कन्दस्य महिषीं देवसेनां विदुर्बुधाः ।षष्ठीं यां ब्राह्मणाः प्राहुर्लक्ष्मीमाशां सुखप्रदाम् ।सिनीवालीं कुहूं चैव सद्वृत्तिमपराजिताम् ॥ ४७ ॥
यदा स्कन्दः पतिर्लब्धः शाश्वतो देवसेनया ।तदा तमाश्रयल्लक्ष्मीः स्वयं देवी शरीरिणी ॥ ४८ ॥
श्रीजुष्टः पञ्चमीं स्कन्दस्तस्माच्छ्रीपञ्चमी स्मृता ।षष्ठ्यां कृतार्थोऽभूद्यस्मात्तस्मात्षष्ठी महातिथिः ॥ ४९ ॥
« »