Click on words to see what they mean.

मार्कण्डेय उवाच ।ऋषयस्तु महाघोरान्दृष्ट्वोत्पातान्पृथग्विधान् ।अकुर्वञ्शान्तिमुद्विग्ना लोकानां लोकभावनाः ॥ १ ॥
निवसन्ति वने ये तु तस्मिंश्चैत्ररथे जनाः ।तेऽब्रुवन्नेष नोऽनर्थः पावकेनाहृतो महान् ।संगम्य षड्भिः पत्नीभिः सप्तर्षीणामिति स्म ह ॥ २ ॥
अपरे गरुडीमाहुस्त्वयानर्थोऽयमाहृतः ।यैर्दृष्टा सा तदा देवी तस्या रूपेण गच्छती ।न तु तत्स्वाहया कर्म कृतं जानाति वै जनः ॥ ३ ॥
सुपर्णी तु वचः श्रुत्वा ममायं तनयस्त्विति ।उपगम्य शनैः स्कन्दमाहाहं जननी तव ॥ ४ ॥
अथ सप्तर्षयः श्रुत्वा जातं पुत्रं महौजसम् ।तत्यजुः षट्तदा पत्नीर्विना देवीमरुन्धतीम् ॥ ५ ॥
षड्भिरेव तदा जातमाहुस्तद्वनवासिनः ।सप्तर्षीनाह च स्वाहा मम पुत्रोऽयमित्युत ।अहं जाने नैतदेवमिति राजन्पुनः पुनः ॥ ६ ॥
विश्वामित्रस्तु कृत्वेष्टिं सप्तर्षीणां महामुनिः ।पावकं कामसंतप्तमदृष्टः पृष्ठतोऽन्वगात् ।तत्तेन निखिलं सर्वमवबुद्धं यथातथम् ॥ ७ ॥
विश्वामित्रस्तु प्रथमं कुमारं शरणं गतः ।स्तवं दिव्यं संप्रचक्रे महासेनस्य चापि सः ॥ ८ ॥
मङ्गलानि च सर्वाणि कौमाराणि त्रयोदश ।जातकर्मादिकास्तस्य क्रियाश्चक्रे महामुनिः ॥ ९ ॥
षड्वक्त्रस्य तु माहात्म्यं कुक्कुटस्य च साधनम् ।शक्त्या देव्याः साधनं च तथा पारिषदामपि ॥ १० ॥
विश्वामित्रश्चकारैतत्कर्म लोकहिताय वै ।तस्मादृषिः कुमारस्य विश्वामित्रोऽभवत्प्रियः ॥ ११ ॥
अन्वजानाच्च स्वाहाया रूपान्यत्वं महामुनिः ।अब्रवीच्च मुनीन्सर्वान्नापराध्यन्ति वै स्त्रियः ।श्रुत्वा तु तत्त्वतस्तस्मात्ते पत्नीः सर्वतोऽत्यजन् ॥ १२ ॥
स्कन्दं श्रुत्वा ततो देवा वासवं सहिताब्रुवन् ।अविषह्यबलं स्कन्दं जहि शक्राशु माचिरम् ॥ १३ ॥
यदि वा न निहंस्येनमद्येन्द्रोऽयं भविष्यति ।त्रैलोक्यं संनिगृह्यास्मांस्त्वां च शक्र महाबलः ॥ १४ ॥
स तानुवाच व्यथितो बालोऽयं सुमहाबलः ।स्रष्टारमपि लोकानां युधि विक्रम्य नाशयेत् ॥ १५ ॥
सर्वास्त्वद्याभिगच्छन्तु स्कन्दं लोकस्य मातरः ।कामवीर्या घ्नन्तु चैनं तथेत्युक्त्वा च ता ययुः ॥ १६ ॥
तमप्रतिबलं दृष्ट्वा विषण्णवदनास्तु ताः ।अशक्योऽयं विचिन्त्यैवं तमेव शरणं ययुः ॥ १७ ॥
ऊचुश्चापि त्वमस्माकं पुत्रोऽस्माभिर्धृतं जगत् ।अभिनन्दस्व नः सर्वाः प्रस्नुताः स्नेहविक्लवाः ॥ १८ ॥
ताः संपूज्य महासेनः कामांश्चासां प्रदाय सः ।अपश्यदग्निमायान्तं पितरं बलिनां बली ॥ १९ ॥
स तु संपूजितस्तेन सह मातृगणेन ह ।परिवार्य महासेनं रक्षमाणः स्थितः स्थिरम् ॥ २० ॥
सर्वासां या तु मातॄणां नारी क्रोधसमुद्भवा ।धात्री सा पुत्रवत्स्कन्दं शूलहस्ताभ्यरक्षत ॥ २१ ॥
लोहितस्योदधेः कन्या क्रूरा लोहितभोजना ।परिष्वज्य महासेनं पुत्रवत्पर्यरक्षत ॥ २२ ॥
अग्निर्भूत्वा नैगमेयश्छागवक्त्रो बहुप्रजः ।रमयामास शैलस्थं बालं क्रीडनकैरिव ॥ २३ ॥
« »