Click on words to see what they mean.

मार्कण्डेय उवाच ।अग्नीनां विविधो वंशः कीर्तितस्ते मयानघ ।शृणु जन्म तु कौरव्य कार्त्तिकेयस्य धीमतः ॥ १ ॥
अद्भुतस्याद्भुतं पुत्रं प्रवक्ष्याम्यमितौजसम् ।जातं सप्तर्षिभार्याभिर्ब्रह्मण्यं कीर्तिवर्धनम् ॥ २ ॥
देवासुराः पुरा यत्ता विनिघ्नन्तः परस्परम् ।तत्राजयन्सदा देवान्दानवा घोररूपिणः ॥ ३ ॥
वध्यमानं बलं दृष्ट्वा बहुशस्तैः पुरंदरः ।स्वसैन्यनायकार्थाय चिन्तामाप भृशं तदा ॥ ४ ॥
देवसेनां दानवैर्यो भग्नां दृष्ट्वा महाबलः ।पालयेद्वीर्यमाश्रित्य स ज्ञेयः पुरुषो मया ॥ ५ ॥
स शैलं मानसं गत्वा ध्यायन्नर्थमिमं भृशम् ।शुश्रावार्तस्वरं घोरमथ मुक्तं स्त्रिया तदा ॥ ६ ॥
अभिधावतु मा कश्चित्पुरुषस्त्रातु चैव ह ।पतिं च मे प्रदिशतु स्वयं वा पतिरस्तु मे ॥ ७ ॥
पुरंदरस्तु तामाह मा भैर्नास्ति भयं तव ।एवमुक्त्वा ततोऽपश्यत्केशिनं स्थितमग्रतः ॥ ८ ॥
किरीटिनं गदापाणिं धातुमन्तमिवाचलम् ।हस्ते गृहीत्वा तां कन्यामथैनं वासवोऽब्रवीत् ॥ ९ ॥
अनार्यकर्मन्कस्मात्त्वमिमां कन्यां जिहीर्षसि ।वज्रिणं मां विजानीहि विरमास्याः प्रबाधनात् ॥ १० ॥
केश्युवाच ।विसृजस्व त्वमेवैनां शक्रैषा प्रार्थिता मया ।क्षमं ते जीवतो गन्तुं स्वपुरं पाकशासन ॥ ११ ॥
मार्कण्डेय उवाच ।एवमुक्त्वा गदां केशी चिक्षेपेन्द्रवधाय वै ।तामापतन्तीं चिच्छेद मध्ये वज्रेण वासवः ॥ १२ ॥
अथास्य शैलशिखरं केशी क्रुद्धो व्यवासृजत् ।तदापतन्तं संप्रेक्ष्य शैलशृङ्गं शतक्रतुः ।बिभेद राजन्वज्रेण भुवि तन्निपपात ह ॥ १३ ॥
पतता तु तदा केशी तेन शृङ्गेण ताडितः ।हित्वा कन्यां महाभागां प्राद्रवद्भृशपीडितः ॥ १४ ॥
अपयातेऽसुरे तस्मिंस्तां कन्यां वासवोऽब्रवीत् ।कासि कस्यासि किं चेह कुरुषे त्वं शुभानने ॥ १५ ॥
कन्योवाच ।अहं प्रजापतेः कन्या देवसेनेति विश्रुता ।भगिनी दैत्यसेना मे सा पूर्वं केशिना हृता ॥ १६ ॥
सहैवावां भगिन्यौ तु सखीभिः सह मानसम् ।आगच्छावेह रत्यर्थमनुज्ञाप्य प्रजापतिम् ॥ १७ ॥
नित्यं चावां प्रार्थयते हर्तुं केशी महासुरः ।इच्छत्येनं दैत्यसेना न त्वहं पाकशासन ॥ १८ ॥
सा हृता तेन भगवन्मुक्ताहं त्वद्बलेन तु ।त्वया देवेन्द्र निर्दिष्टं पतिमिच्छामि दुर्जयम् ॥ १९ ॥
इन्द्र उवाच ।मम मातृष्वसेया त्वं माता दाक्षायणी मम ।आख्यातं त्वहमिच्छामि स्वयमात्मबलं त्वया ॥ २० ॥
कन्योवाच ।अबलाहं महाबाहो पतिस्तु बलवान्मम ।वरदानात्पितुर्भावी सुरासुरनमस्कृतः ॥ २१ ॥
इन्द्र उवाच ।कीदृशं वै बलं देवि पत्युस्तव भविष्यति ।एतदिच्छाम्यहं श्रोतुं तव वाक्यमनिन्दिते ॥ २२ ॥
कन्योवाच ।देवदानवयक्षाणां किंनरोरगरक्षसाम् ।जेता स दृष्टो दुष्टानां महावीर्यो महाबलः ॥ २३ ॥
यस्तु सर्वाणि भूतानि त्वया सह विजेष्यति ।स हि मे भविता भर्ता ब्रह्मण्यः कीर्तिवर्धनः ॥ २४ ॥
मार्कण्डेय उवाच ।इन्द्रस्तस्या वचः श्रुत्वा दुःखितोऽचिन्तयद्भृशम् ।अस्या देव्याः पतिर्नास्ति यादृशं संप्रभाषते ॥ २५ ॥
अथापश्यत्स उदये भास्करं भास्करद्युतिः ।सोमं चैव महाभागं विशमानं दिवाकरम् ॥ २६ ॥
अमावास्यां संप्रवृत्तं मुहूर्तं रौद्रमेव च ।देवासुरं च संग्रामं सोऽपश्यदुदये गिरौ ॥ २७ ॥
लोहितैश्च घनैर्युक्तां पूर्वां संध्यां शतक्रतुः ।अपश्यल्लोहितोदं च भगवान्वरुणालयम् ॥ २८ ॥
भृगुभिश्चाङ्गिरोभिश्च हुतं मन्त्रैः पृथग्विधैः ।हव्यं गृहीत्वा वह्निं च प्रविशन्तं दिवाकरम् ॥ २९ ॥
पर्व चैव चतुर्विंशं तदा सूर्यमुपस्थितम् ।तथा धर्मगतं रौद्रं सोमं सूर्यगतं च तम् ॥ ३० ॥
समालोक्यैकतामेव शशिनो भास्करस्य च ।समवायं तु तं रौद्रं दृष्ट्वा शक्रो व्यचिन्तयत् ॥ ३१ ॥
एष रौद्रश्च संघातो महान्युक्तश्च तेजसा ।सोमस्य वह्निसूर्याभ्यामद्भुतोऽयं समागमः ।जनयेद्यं सुतं सोमः सोऽस्या देव्याः पतिर्भवेत् ॥ ३२ ॥
अग्निश्चैतैर्गुणैर्युक्तः सर्वैरग्निश्च देवता ।एष चेज्जनयेद्गर्भं सोऽस्या देव्याः पतिर्भवेत् ॥ ३३ ॥
एवं संचिन्त्य भगवान्ब्रह्मलोकं तदा गतः ।गृहीत्वा देवसेनां तामवन्दत्स पितामहम् ।उवाच चास्या देव्यास्त्वं साधु शूरं पतिं दिश ॥ ३४ ॥
ब्रह्मोवाच ।यथैतच्चिन्तितं कार्यं त्वया दानवसूदन ।तथा स भविता गर्भो बलवानुरुविक्रमः ॥ ३५ ॥
स भविष्यति सेनानीस्त्वया सह शतक्रतो ।अस्या देव्याः पतिश्चैव स भविष्यति वीर्यवान् ॥ ३६ ॥
मार्कण्डेय उवाच ।एतच्छ्रुत्वा नमस्तस्मै कृत्वासौ सह कन्यया ।तत्राभ्यगच्छद्देवेन्द्रो यत्र देवर्षयोऽभवन् ।वसिष्ठप्रमुखा मुख्या विप्रेन्द्राः सुमहाव्रताः ॥ ३७ ॥
भागार्थं तपसोपात्तं तेषां सोमं तथाध्वरे ।पिपासवो ययुर्देवाः शतक्रतुपुरोगमाः ॥ ३८ ॥
इष्टिं कृत्वा यथान्यायं सुसमिद्धे हुताशने ।जुहुवुस्ते महात्मानो हव्यं सर्वदिवौकसाम् ॥ ३९ ॥
समाहूतो हुतवहः सोऽद्भुतः सूर्यमण्डलात् ।विनिःसृत्याययौ वह्निर्वाग्यतो विधिवत्प्रभुः ।आगम्याहवनीयं वै तैर्द्विजैर्मन्त्रतो हुतम् ॥ ४० ॥
स तत्र विविधं हव्यं प्रतिगृह्य हुताशनः ।ऋषिभ्यो भरतश्रेष्ठ प्रायच्छत दिवौकसाम् ॥ ४१ ॥
निष्क्रामंश्चाप्यपश्यत्स पत्नीस्तेषां महात्मनाम् ।स्वेष्वाश्रमेषूपविष्टाः स्नायन्तीश्च यथासुखम् ॥ ४२ ॥
रुक्मवेदिनिभास्तास्तु चन्द्रलेखा इवामलाः ।हुताशनार्चिप्रतिमाः सर्वास्तारा इवाद्भुताः ॥ ४३ ॥
स तद्गतेन मनसा बभूव क्षुभितेन्द्रियः ।पत्नीर्दृष्ट्वा द्विजेन्द्राणां वह्निः कामवशं ययौ ॥ ४४ ॥
स भूयश्चिन्तयामास न न्याय्यं क्षुभितोऽस्मि यत् ।साध्वीः पत्नीर्द्विजेन्द्राणामकामाः कामयाम्यहम् ॥ ४५ ॥
नैताः शक्या मया द्रष्टुं स्प्रष्टुं वाप्यनिमित्ततः ।गार्हपत्यं समाविश्य तस्मात्पश्याम्यभीक्ष्णशः ॥ ४६ ॥
संस्पृशन्निव सर्वास्ताः शिखाभिः काञ्चनप्रभाः ।पश्यमानश्च मुमुदे गार्हपत्यं समाश्रितः ॥ ४७ ॥
निरुष्य तत्र सुचिरमेवं वह्निर्वशं गतः ।मनस्तासु विनिक्षिप्य कामयानो वराङ्गनाः ॥ ४८ ॥
कामसंतप्तहृदयो देहत्यागे सुनिश्चितः ।अलाभे ब्राह्मणस्त्रीणामग्निर्वनमुपागतः ॥ ४९ ॥
स्वाहा तं दक्षदुहिता प्रथमं कामयत्तदा ।सा तस्य छिद्रमन्वैच्छच्चिरात्प्रभृति भामिनी ।अप्रमत्तस्य देवस्य न चापश्यदनिन्दिता ॥ ५० ॥
सा तं ज्ञात्वा यथावत्तु वह्निं वनमुपागतम् ।तत्त्वतः कामसंतप्तं चिन्तयामास भामिनी ॥ ५१ ॥
अहं सप्तर्षिपत्नीनां कृत्वा रूपाणि पावकम् ।कामयिष्यामि कामार्तं तासां रूपेण मोहितम् ।एवं कृते प्रीतिरस्य कामावाप्तिश्च मे भवेत् ॥ ५२ ॥
« »