Click on words to see what they mean.

मार्कण्डेय उवाच ।आपस्य मुदिता भार्या सहस्य परमा प्रिया ।भूपतिर्भुवभर्ता च जनयत्पावकं परम् ॥ १ ॥
भूतानां चापि सर्वेषां यं प्राहुः पावकं पतिम् ।आत्मा भुवनभर्तेति सान्वयेषु द्विजातिषु ॥ २ ॥
महतां चैव भूतानां सर्वेषामिह यः पतिः ।भगवान्स महातेजा नित्यं चरति पावकः ॥ ३ ॥
अग्निर्गृहपतिर्नाम नित्यं यज्ञेषु पूज्यते ।हुतं वहति यो हव्यमस्य लोकस्य पावकः ॥ ४ ॥
अपां गर्भो महाभागः सहपुत्रो महाद्भुतः ।भूपतिर्भुवभर्ता च महतः पतिरुच्यते ॥ ५ ॥
दहन्मृतानि भूतानि तस्याग्निर्भरतोऽभवत् ।अग्निष्टोमे च नियतः क्रतुश्रेष्ठो भरस्य तु ॥ ६ ॥
आयान्तं नियतं दृष्ट्वा प्रविवेशार्णवं भयात् ।देवास्तं नाधिगच्छन्ति मार्गमाणा यथादिशम् ॥ ७ ॥
दृष्ट्वा त्वग्निरथर्वाणं ततो वचनमब्रवीत् ।देवानां वह हव्यं त्वमहं वीर सुदुर्बलः ।अथर्वन्गच्छ मध्वक्षं प्रियमेतत्कुरुष्व मे ॥ ८ ॥
प्रेष्य चाग्निरथर्वाणमन्यं देशं ततोऽगमत् ।मत्स्यास्तस्य समाचख्युः क्रुद्धस्तानग्निरब्रवीत् ॥ ९ ॥
भक्ष्या वै विविधैर्भावैर्भविष्यथ शरीरिणाम् ।अथर्वाणं तथा चापि हव्यवाहोऽब्रवीद्वचः ॥ १० ॥
अनुनीयमानोऽपि भृशं देववाक्याद्धि तेन सः ।नैच्छद्वोढुं हविः सर्वं शरीरं च समत्यजत् ॥ ११ ॥
स तच्छरीरं संत्यज्य प्रविवेश धरां तदा ।भूमिं स्पृष्ट्वासृजद्धातून्पृथक्पृथगतीव हि ॥ १२ ॥
आस्यात्सुगन्धि तेजश्च अस्थिभ्यो देवदारु च ।श्लेष्मणः स्फटिकं तस्य पित्तान्मरकतं तथा ॥ १३ ॥
यकृत्कृष्णायसं तस्य त्रिभिरेव बभुः प्रजाः ।नखास्तस्याभ्रपटलं शिराजालानि विद्रुमम् ।शरीराद्विविधाश्चान्ये धातवोऽस्याभवन्नृप ॥ १४ ॥
एवं त्यक्त्वा शरीरं तु परमे तपसि स्थितः ।भृग्वङ्गिरादिभिर्भूयस्तपसोत्थापितस्तदा ॥ १५ ॥
भृशं जज्वाल तेजस्वी तपसाप्यायितः शिखी ।दृष्ट्वा ऋषीन्भयाच्चापि प्रविवेश महार्णवम् ॥ १६ ॥
तस्मिन्नष्टे जगद्भीतमथर्वाणमथाश्रितम् ।अर्चयामासुरेवैनमथर्वाणं सुरर्षयः ॥ १७ ॥
अथर्वा त्वसृजल्लोकानात्मनालोक्य पावकम् ।मिषतां सर्वभूतानामुन्ममाथ महार्णवम् ॥ १८ ॥
एवमग्निर्भगवता नष्टः पूर्वमथर्वणा ।आहूतः सर्वभूतानां हव्यं वहति सर्वदा ॥ १९ ॥
एवं त्वजनयद्धिष्ण्यान्वेदोक्तान्विबुधान्बहून् ।विचरन्विविधान्देशान्भ्रममाणस्तु तत्र वै ॥ २० ॥
सिन्धुवर्जं पञ्च नद्यो देविकाथ सरस्वती ।गङ्गा च शतकुम्भा च शरयूर्गण्डसाह्वया ॥ २१ ॥
चर्मण्वती मही चैव मेध्या मेधातिथिस्तथा ।ताम्रावती वेत्रवती नद्यस्तिस्रोऽथ कौशिकी ॥ २२ ॥
तमसा नर्मदा चैव नदी गोदावरी तथा ।वेण्णा प्रवेणी भीमा च मेद्रथा चैव भारत ॥ २३ ॥
भारती सुप्रयोगा च कावेरी मुर्मुरा तथा ।कृष्णा च कृष्णवेण्णा च कपिला शोण एव च ।एता नद्यस्तु धिष्ण्यानां मातरो याः प्रकीर्तिताः ॥ २४ ॥
अद्भुतस्य प्रिया भार्या तस्याः पुत्रो विडूरथः ।यावन्तः पावकाः प्रोक्ताः सोमास्तावन्त एव च ॥ २५ ॥
अत्रेश्चाप्यन्वये जाता ब्रह्मणो मानसाः प्रजाः ।अत्रिः पुत्रान्स्रष्टुकामस्तानेवात्मन्यधारयत् ।तस्य तद्ब्रह्मणः कायान्निर्हरन्ति हुताशनाः ॥ २६ ॥
एवमेते महात्मानः कीर्तितास्तेऽग्नयो मया ।अप्रमेया यथोत्पन्नाः श्रीमन्तस्तिमिरापहाः ॥ २७ ॥
अद्भुतस्य तु माहात्म्यं यथा वेदेषु कीर्तितम् ।तादृशं विद्धि सर्वेषामेको ह्येष हुताशनः ॥ २८ ॥
एक एवैष भगवान्विज्ञेयः प्रथमोऽङ्गिराः ।बहुधा निःसृतः कायाज्ज्योतिष्टोमः क्रतुर्यथा ॥ २९ ॥
इत्येष वंशः सुमहानग्नीनां कीर्तितो मया ।पावितो विविधैर्मन्त्रैर्हव्यं वहति देहिनाम् ॥ ३० ॥
« »