Click on words to see what they mean.

मार्कण्डेय उवाच ।गुरुभिर्नियमैर्युक्तो भरतो नाम पावकः ।अग्निः पुष्टिमतिर्नाम तुष्टः पुष्टिं प्रयच्छति ।भरत्येष प्रजाः सर्वास्ततो भरत उच्यते ॥ १ ॥
अग्निर्यस्तु शिवो नाम शक्तिपूजापरश्च सः ।दुःखार्तानां स सर्वेषां शिवकृत्सततं शिवः ॥ २ ॥
तपसस्तु फलं दृष्ट्वा संप्रवृद्धं तपो महत् ।उद्धर्तुकामो मतिमान्पुत्रो जज्ञे पुरंदरः ॥ ३ ॥
ऊष्मा चैवोष्मणो जज्ञे सोऽग्निर्भूतेषु लक्ष्यते ।अग्निश्चापि मनुर्नाम प्राजापत्यमकारयत् ॥ ४ ॥
शंभुमग्निमथ प्राहुर्ब्राह्मणा वेदपारगाः ।आवसथ्यं द्विजाः प्राहुर्दीप्तमग्निं महाप्रभम् ॥ ५ ॥
ऊर्जस्करान्हव्यवाहान्सुवर्णसदृशप्रभान् ।अग्निस्तपो ह्यजनयत्पञ्च यज्ञसुतानिह ॥ ६ ॥
प्रशान्तेऽग्निर्महाभाग परिश्रान्तो गवांपतिः ।असुराञ्जनयन्घोरान्मर्त्यांश्चैव पृथग्विधान् ॥ ७ ॥
तपसश्च मनुं पुत्रं भानुं चाप्यङ्गिरासृजत् ।बृहद्भानुं तु तं प्राहुर्ब्राह्मणा वेदपारगाः ॥ ८ ॥
भानोर्भार्या सुप्रजा तु बृहद्भासा तु सोमजा ।असृजेतां तु षट्पुत्राञ्शृणु तासां प्रजाविधिम् ॥ ९ ॥
दुर्बलानां तु भूतानां तनुं यः संप्रयच्छति ।तमग्निं बलदं प्राहुः प्रथमं भानुतः सुतम् ॥ १० ॥
यः प्रशान्तेषु भूतेषु मन्युर्भवति दारुणः ।अग्निः स मन्युमान्नाम द्वितीयो भानुतः सुतः ॥ ११ ॥
दर्शे च पौर्णमासे च यस्येह हविरुच्यते ।विष्णुर्नामेह योऽग्निस्तु धृतिमान्नाम सोऽङ्गिराः ॥ १२ ॥
इन्द्रेण सहितं यस्य हविराग्रयणं स्मृतम् ।अग्निराग्रयणो नाम भानोरेवान्वयस्तु सः ॥ १३ ॥
चातुर्मास्येषु नित्यानां हविषां यो निरग्रहः ।चतुर्भिः सहितः पुत्रैर्भानोरेवान्वयस्तु सः ॥ १४ ॥
निशां त्वजनयत्कन्यामग्नीषोमावुभौ तथा ।मनोरेवाभवद्भार्या सुषुवे पञ्च पावकान् ॥ १५ ॥
पूज्यते हविषाग्र्येण चातुर्मास्येषु पावकः ।पर्जन्यसहितः श्रीमानग्निर्वैश्वानरस्तु सः ॥ १६ ॥
अस्य लोकस्य सर्वस्य यः पतिः परिपठ्यते ।सोऽग्निर्विश्वपतिर्नाम द्वितीयो वै मनोः सुतः ।ततः स्विष्टं भवेदाज्यं स्विष्टकृत्परमः स्मृतः ॥ १७ ॥
कन्या सा रोहिणी नाम हिरण्यकशिपोः सुता ।कर्मणासौ बभौ भार्या स वह्निः स प्रजापतिः ॥ १८ ॥
प्राणमाश्रित्य यो देहं प्रवर्तयति देहिनाम् ।तस्य संनिहितो नाम शब्दरूपस्य साधनः ॥ १९ ॥
शुक्लकृष्णगतिर्देवो यो बिभर्ति हुताशनम् ।अकल्मषः कल्मषाणां कर्ता क्रोधाश्रितस्तु सः ॥ २० ॥
कपिलं परमर्षिं च यं प्राहुर्यतयः सदा ।अग्निः स कपिलो नाम सांख्ययोगप्रवर्तकः ॥ २१ ॥
अग्निर्यच्छति भूतानि येन भूतानि नित्यदा ।कर्मस्विह विचित्रेषु सोऽग्रणीर्वह्निरुच्यते ॥ २२ ॥
इमानन्यान्समसृजत्पावकान्प्रथितान्भुवि ।अग्निहोत्रस्य दुष्टस्य प्रायश्चित्तार्थमुल्बणान् ॥ २३ ॥
संस्पृशेयुर्यदान्योन्यं कथंचिद्वायुनाग्नयः ।इष्टिरष्टाकपालेन कार्या वै शुचयेऽग्नये ॥ २४ ॥
दक्षिणाग्निर्यदा द्वाभ्यां संसृजेत तदा किल ।इष्टिरष्टाकपालेन कार्या वै वीतयेऽग्नये ॥ २५ ॥
यद्यग्नयो हि स्पृश्येयुर्निवेशस्था दवाग्निना ।इष्टिरष्टाकपालेन कार्या तु शुचयेऽग्नये ॥ २६ ॥
अग्निं रजस्वला चेत्स्त्री संस्पृशेदग्निहोत्रिकम् ।इष्टिरष्टाकपालेन कार्या दस्युमतेऽग्नये ॥ २७ ॥
मृतः श्रूयेत यो जीवन्परेयुः पशवो यथा ।इष्टिरष्टाकपालेन कर्तव्याभिमतेऽग्नये ॥ २८ ॥
आर्तो न जुहुयादग्निं त्रिरात्रं यस्तु ब्राह्मणः ।इष्टिरष्टाकपालेन कार्या स्यादुत्तराग्नये ॥ २९ ॥
दर्शं च पौर्णमासं च यस्य तिष्ठेत्प्रतिष्ठितम् ।इष्टिरष्टाकपालेन कार्या पथिकृतेऽग्नये ॥ ३० ॥
सूतिकाग्निर्यदा चाग्निं संस्पृशेदग्निहोत्रिकम् ।इष्टिरष्टाकपालेन कार्या चाग्निमतेऽग्नये ॥ ३१ ॥
« »