Click on words to see what they mean.

मार्कण्डेय उवाच ।ब्रह्मणो यस्तृतीयस्तु पुत्रः कुरुकुलोद्वह ।तस्यापवसुता भार्या प्रजास्तस्यापि मे शृणु ॥ १ ॥
बृहज्ज्योतिर्बृहत्कीर्तिर्बृहद्ब्रह्मा बृहन्मनाः ।बृहन्मन्त्रो बृहद्भासस्तथा राजन्बृहस्पतिः ॥ २ ॥
प्रजासु तासु सर्वासु रूपेणाप्रतिमाभवत् ।देवी भानुमती नाम प्रथमाङ्गिरसः सुता ॥ ३ ॥
भूतानामेव सर्वेषां यस्यां रागस्तदाभवत् ।रागाद्रागेति यामाहुर्द्वितीयाङ्गिरसः सुता ॥ ४ ॥
यां कपर्दिसुतामाहुर्दृश्यादृश्येति देहिनः ।तनुत्वात्सा सिनीवाली तृतीयाङ्गिरसः सुता ॥ ५ ॥
पश्यत्यर्चिष्मती भाभिर्हविर्भिश्च हविष्मती ।षष्ठीमङ्गिरसः कन्यां पुण्यामाहुर्हविष्मतीम् ॥ ६ ॥
महामखेष्वाङ्गिरसी दीप्तिमत्सु महामती ।महामतीति विख्याता सप्तमी कथ्यते सुता ॥ ७ ॥
यां तु दृष्ट्वा भगवतीं जनः कुहुकुहायते ।एकानंशेति यामाहुः कुहूमङ्गिरसः सुताम् ॥ ८ ॥
« »