Click on words to see what they mean.

मार्कण्डेय उवाच ।एवमुक्तस्तु विप्रेण धर्मव्याधो युधिष्ठिर ।प्रत्युवाच यथा विप्रं तच्छृणुष्व नराधिप ॥ १ ॥
व्याध उवाच ।विज्ञानार्थं मनुष्याणां मनः पूर्वं प्रवर्तते ।तत्प्राप्य कामं भजते क्रोधं च द्विजसत्तम ॥ २ ॥
ततस्तदर्थं यतते कर्म चारभते महत् ।इष्टानां रूपगन्धानामभ्यासं च निषेवते ॥ ३ ॥
ततो रागः प्रभवति द्वेषश्च तदनन्तरम् ।ततो लोभः प्रभवति मोहश्च तदनन्तरम् ॥ ४ ॥
तस्य लोभाभिभूतस्य रागद्वेषहतस्य च ।न धर्मे जायते बुद्धिर्व्याजाद्धर्मं करोति च ॥ ५ ॥
व्याजेन चरते धर्ममर्थं व्याजेन रोचते ।व्याजेन सिध्यमानेषु धनेषु द्विजसत्तम ।तत्रैव रमते बुद्धिस्ततः पापं चिकीर्षति ॥ ६ ॥
सुहृद्भिर्वार्यमाणश्च पण्डितैश्च द्विजोत्तम ।उत्तरं श्रुतिसंबद्धं ब्रवीति श्रुतियोजितम् ॥ ७ ॥
अधर्मस्त्रिविधस्तस्य वर्धते रागदोषतः ।पापं चिन्तयते चापि ब्रवीति च करोति च ॥ ८ ॥
तस्याधर्मप्रवृत्तस्य गुणा नश्यन्ति साधवः ।एकशीलाश्च मित्रत्वं भजन्ते पापकर्मिणः ॥ ९ ॥
स तेनासुखमाप्नोति परत्र च विहन्यते ।पापात्मा भवति ह्येवं धर्मलाभं तु मे शृणु ॥ १० ॥
यस्त्वेतान्प्रज्ञया दोषान्पूर्वमेवानुपश्यति ।कुशलः सुखदुःखेषु साधूंश्चाप्युपसेवते ।तस्य साधुसमारम्भाद्बुद्धिर्धर्मेषु जायते ॥ ११ ॥
ब्राह्मण उवाच ।ब्रवीषि सूनृतं धर्मं यस्य वक्ता न विद्यते ।दिव्यप्रभावः सुमहानृषिरेव मतोऽसि मे ॥ १२ ॥
व्याध उवाच ।ब्राह्मणा वै महाभागाः पितरोऽग्रभुजः सदा ।तेषां सर्वात्मना कार्यं प्रियं लोके मनीषिणा ॥ १३ ॥
यत्तेषां च प्रियं तत्ते वक्ष्यामि द्विजसत्तम ।नमस्कृत्वा ब्राह्मणेभ्यो ब्राह्मीं विद्यां निबोध मे ॥ १४ ॥
इदं विश्वं जगत्सर्वमजय्यं चापि सर्वशः ।महाभूतात्मकं ब्रह्मन्नातः परतरं भवेत् ॥ १५ ॥
महाभूतानि खं वायुरग्निरापस्तथा च भूः ।शब्दः स्पर्शश्च रूपं च रसो गन्धश्च तद्गुणाः ॥ १६ ॥
तेषामपि गुणाः सर्वे गुणवृत्तिः परस्परम् ।पूर्वपूर्वगुणाः सर्वे क्रमशो गुणिषु त्रिषु ॥ १७ ॥
षष्ठस्तु चेतना नाम मन इत्यभिधीयते ।सप्तमी तु भवेद्बुद्धिरहंकारस्ततः परम् ॥ १८ ॥
इन्द्रियाणि च पञ्चैव रजः सत्त्वं तमस्तथा ।इत्येष सप्तदशको राशिरव्यक्तसंज्ञकः ॥ १९ ॥
सर्वैरिहेन्द्रियार्थैस्तु व्यक्ताव्यक्तैः सुसंवृतः ।चतुर्विंशक इत्येष व्यक्ताव्यक्तमयो गुणः ।एतत्ते सर्वमाख्यातं किं भूयो श्रोतुमिच्छसि ॥ २० ॥
« »