Click on words to see what they mean.

मार्कण्डेय उवाच ।धर्मव्याधस्तु निपुणं पुनरेव युधिष्ठिर ।विप्रर्षभमुवाचेदं सर्वधर्मभृतां वरः ॥ १ ॥
श्रुतिप्रमाणो धर्मो हि वृद्धानामिति भाषितम् ।सूक्ष्मा गतिर्हि धर्मस्य बहुशाखा ह्यनन्तिका ॥ २ ॥
प्राणात्यये विवाहे च वक्तव्यमनृतं भवेत् ।अनृतं च भवेत्सत्यं सत्यं चैवानृतं भवेत् ॥ ३ ॥
यद्भूतहितमत्यन्तं तत्सत्यमिति धारणा ।विपर्ययकृतोऽधर्मः पश्य धर्मस्य सूक्ष्मताम् ॥ ४ ॥
यत्करोत्यशुभं कर्म शुभं वा द्विजसत्तम ।अवश्यं तत्समाप्नोति पुरुषो नात्र संशयः ॥ ५ ॥
विषमां च दशां प्राप्य देवान्गर्हति वै भृशम् ।आत्मनः कर्मदोषाणि न विजानात्यपण्डितः ॥ ६ ॥
मूढो नैकृतिकश्चापि चपलश्च द्विजोत्तम ।सुखदुःखविपर्यासो यदा समुपपद्यते ।नैनं प्रज्ञा सुनीतं वा त्रायते नैव पौरुषम् ॥ ७ ॥
यो यमिच्छेद्यथा कामं तं तं कामं समश्नुयात् ।यदि स्यादपराधीनं पुरुषस्य क्रियाफलम् ॥ ८ ॥
संयताश्चापि दक्षाश्च मतिमन्तश्च मानवाः ।दृश्यन्ते निष्फलाः सन्तः प्रहीणाः सर्वकर्मभिः ॥ ९ ॥
भूतानामपरः कश्चिद्धिंसायां सततोत्थितः ।वञ्चनायां च लोकस्य स सुखेनेह जीवति ॥ १० ॥
अचेष्टमानमासीनं श्रीः कंचिदुपतिष्ठति ।कश्चित्कर्माणि कुर्वन्हि न प्राप्यमधिगच्छति ॥ ११ ॥
देवानिष्ट्वा तपस्तप्त्वा कृपणैः पुत्रगृद्धिभिः ।दशमासधृता गर्भे जायन्ते कुलपांसनाः ॥ १२ ॥
अपरे धनधान्यैश्च भोगैश्च पितृसंचितैः ।विपुलैरभिजायन्ते लब्धास्तैरेव मङ्गलैः ॥ १३ ॥
कर्मजा हि मनुष्याणां रोगा नास्त्यत्र संशयः ।आधिभिश्चैव बाध्यन्ते व्याधैः क्षुद्रमृगा इव ॥ १४ ॥
ते चापि कुशलैर्वैद्यैर्निपुणैः संभृतौषधैः ।व्याधयो विनिवार्यन्ते मृगा व्याधैरिव द्विज ॥ १५ ॥
येषामस्ति च भोक्तव्यं ग्रहणीदोषपीडिताः ।न शक्नुवन्ति ते भोक्तुं पश्य धर्मभृतां वर ॥ १६ ॥
अपरे बाहुबलिनः क्लिश्यन्ते बहवो जनाः ।दुःखेन चाधिगच्छन्ति भोजनं द्विजसत्तम ॥ १७ ॥
इति लोकमनाक्रन्दं मोहशोकपरिप्लुतम् ।स्रोतसासकृदाक्षिप्तं ह्रियमाणं बलीयसा ॥ १८ ॥
न म्रियेयुर्न जीर्येयुः सर्वे स्युः सार्वकामिकाः ।नाप्रियं प्रतिपश्येयुर्वशित्वं यदि वै भवेत् ॥ १९ ॥
उपर्युपरि लोकस्य सर्वो गन्तुं समीहते ।यतते च यथाशक्ति न च तद्वर्तते तथा ॥ २० ॥
बहवः संप्रदृश्यन्ते तुल्यनक्षत्रमङ्गलाः ।महच्च फलवैषम्यं दृश्यते कर्मसंधिषु ॥ २१ ॥
न कश्चिदीशते ब्रह्मन्स्वयंग्राहस्य सत्तम ।कर्मणां प्राकृतानां वै इह सिद्धिः प्रदृश्यते ॥ २२ ॥
यथा श्रुतिरियं ब्रह्मञ्जीवः किल सनातनः ।शरीरमध्रुवं लोके सर्वेषां प्राणिनामिह ॥ २३ ॥
वध्यमाने शरीरे तु देहनाशो भवत्युत ।जीवः संक्रमतेऽन्यत्र कर्मबन्धनिबन्धनः ॥ २४ ॥
ब्राह्मण उवाच ।कथं धर्मभृतां श्रेष्ठ जीवो भवति शाश्वतः ।एतदिच्छाम्यहं ज्ञातुं तत्त्वेन वदतां वर ॥ २५ ॥
व्याध उवाच ।न जीवनाशोऽस्ति हि देहभेदे मिथ्यैतदाहुर्म्रियतेति मूढाः ।जीवस्तु देहान्तरितः प्रयाति दशार्धतैवास्य शरीरभेदः ॥ २६ ॥
अन्यो हि नाश्नाति कृतं हि कर्म स एव कर्ता सुखदुःखभागी ।यत्तेन किंचिद्धि कृतं हि कर्म तदश्नुते नास्ति कृतस्य नाशः ॥ २७ ॥
अपुण्यशीलाश्च भवन्ति पुण्या नरोत्तमाः पापकृतो भवन्ति ।नरोऽनुयातस्त्विह कर्मभिः स्वैस्ततः समुत्पद्यति भावितस्तैः ॥ २८ ॥
ब्राह्मण उवाच ।कथं संभवते योनौ कथं वा पुण्यपापयोः ।जातीः पुण्या ह्यपुण्याश्च कथं गच्छति सत्तम ॥ २९ ॥
व्याध उवाच ।गर्भाधानसमायुक्तं कर्मेदं संप्रदृश्यते ।समासेन तु ते क्षिप्रं प्रवक्ष्यामि द्विजोत्तम ॥ ३० ॥
यथा संभृतसंभारः पुनरेव प्रजायते ।शुभकृच्छुभयोनीषु पापकृत्पापयोनिषु ॥ ३१ ॥
शुभैः प्रयोगैर्देवत्वं व्यामिश्रैर्मानुषो भवेत् ।मोहनीयैर्वियोनीषु त्वधोगामी च किल्बिषैः ॥ ३२ ॥
जातिमृत्युजरादुःखैः सततं समभिद्रुतः ।संसारे पच्यमानश्च दोषैरात्मकृतैर्नरः ॥ ३३ ॥
तिर्यग्योनिसहस्राणि गत्वा नरकमेव च ।जीवाः संपरिवर्तन्ते कर्मबन्धनिबन्धनाः ॥ ३४ ॥
जन्तुस्तु कर्मभिस्तैस्तैः स्वकृतैः प्रेत्य दुःखितः ।तद्दुःखप्रतिघातार्थमपुण्यां योनिमश्नुते ॥ ३५ ॥
ततः कर्म समादत्ते पुनरन्यन्नवं बहु ।पच्यते तु पुनस्तेन भुक्त्वापथ्यमिवातुरः ॥ ३६ ॥
अजस्रमेव दुःखार्तोऽदुःखितः सुखसंज्ञितः ।ततोऽनिवृत्तबन्धत्वात्कर्मणामुदयादपि ।परिक्रामति संसारे चक्रवद्बहुवेदनः ॥ ३७ ॥
स चेन्निवृत्तबन्धस्तु विशुद्धश्चापि कर्मभिः ।प्राप्नोति सुकृताँल्लोकान्यत्र गत्वा न शोचति ॥ ३८ ॥
पापं कुर्वन्पापवृत्तः पापस्यान्तं न गच्छति ।तस्मात्पुण्यं यतेत्कर्तुं वर्जयेत च पातकम् ॥ ३९ ॥
अनसूयुः कृतज्ञश्च कल्याणान्येव सेवते ।सुखानि धर्ममर्थं च स्वर्गं च लभते नरः ॥ ४० ॥
संस्कृतस्य हि दान्तस्य नियतस्य यतात्मनः ।प्राज्ञस्यानन्तरा वृत्तिरिह लोके परत्र च ॥ ४१ ॥
सतां धर्मेण वर्तेत क्रियां शिष्टवदाचरेत् ।असंक्लेशेन लोकस्य वृत्तिं लिप्सेत वै द्विज ॥ ४२ ॥
सन्ति ह्यागतविज्ञानाः शिष्टाः शास्त्रविचक्षणाः ।स्वधर्मेण क्रिया लोके कर्मणः सोऽप्यसंकरः ॥ ४३ ॥
प्राज्ञो धर्मेण रमते धर्मं चैवोपजीवति ।तस्य धर्मादवाप्तेषु धनेषु द्विजसत्तम ।तस्यैव सिञ्चते मूलं गुणान्पश्यति यत्र वै ॥ ४४ ॥
धर्मात्मा भवति ह्येवं चित्तं चास्य प्रसीदति ।स मैत्रजनसंतुष्ट इह प्रेत्य च नन्दति ॥ ४५ ॥
शब्दं स्पर्शं तथा रूपं गन्धानिष्टांश्च सत्तम ।प्रभुत्वं लभते चापि धर्मस्यैतत्फलं विदुः ॥ ४६ ॥
धर्मस्य च फलं लब्ध्वा न तृप्यति महाद्विज ।अतृप्यमाणो निर्वेदमादत्ते ज्ञानचक्षुषा ॥ ४७ ॥
प्रज्ञाचक्षुर्नर इह दोषं नैवानुरुध्यते ।विरज्यति यथाकामं न च धर्मं विमुञ्चति ॥ ४८ ॥
सर्वत्यागे च यतते दृष्ट्वा लोकं क्षयात्मकम् ।ततो मोक्षे प्रयतते नानुपायादुपायतः ॥ ४९ ॥
एवं निर्वेदमादत्ते पापं कर्म जहाति च ।धार्मिकश्चापि भवति मोक्षं च लभते परम् ॥ ५० ॥
तपो निःश्रेयसं जन्तोस्तस्य मूलं शमो दमः ।तेन सर्वानवाप्नोति कामान्यान्मनसेच्छति ॥ ५१ ॥
इन्द्रियाणां निरोधेन सत्येन च दमेन च ।ब्रह्मणः पदमाप्नोति यत्परं द्विजसत्तम ॥ ५२ ॥
ब्राह्मण उवाच ।इन्द्रियाणि तु यान्याहुः कानि तानि यतव्रत ।निग्रहश्च कथं कार्यो निग्रहस्य च किं फलम् ॥ ५३ ॥
कथं च फलमाप्नोति तेषां धर्मभृतां वर ।एतदिच्छामि तत्त्वेन धर्मं ज्ञातुं सुधार्मिक ॥ ५४ ॥
« »