Click on words to see what they mean.

मार्कण्डेय उवाच ।स तु विप्रमथोवाच धर्मव्याधो युधिष्ठिर ।यदहं ह्याचरे कर्म घोरमेतदसंशयम् ॥ १ ॥
विधिस्तु बलवान्ब्रह्मन्दुस्तरं हि पुराकृतम् ।पुराकृतस्य पापस्य कर्मदोषो भवत्ययम् ।दोषस्यैतस्य वै ब्रह्मन्विघाते यत्नवानहम् ॥ २ ॥
विधिना विहिते पूर्वं निमित्तं घातको भवेत् ।निमित्तभूता हि वयं कर्मणोऽस्य द्विजोत्तम ॥ ३ ॥
येषां हतानां मांसानि विक्रीणामो वयं द्विज ।तेषामपि भवेद्धर्म उपभोगेन भक्षणात् ।देवतातिथिभृत्यानां पितॄणां प्रतिपूजनात् ॥ ४ ॥
ओषध्यो वीरुधश्चापि पशवो मृगपक्षिणः ।अन्नाद्यभूता लोकस्य इत्यपि श्रूयते श्रुतिः ॥ ५ ॥
आत्ममांसप्रदानेन शिबिरौशीनरो नृपः ।स्वर्गं सुदुर्लभं प्राप्तः क्षमावान्द्विजसत्तम ॥ ६ ॥
राज्ञो महानसे पूर्वं रन्तिदेवस्य वै द्विज ।द्वे सहस्रे तु वध्येते पशूनामन्वहं तदा ॥ ७ ॥
समांसं ददतो ह्यन्नं रन्तिदेवस्य नित्यशः ।अतुला कीर्तिरभवन्नृपस्य द्विजसत्तम ।चातुर्मास्येषु पशवो वध्यन्त इति नित्यशः ॥ ८ ॥
अग्नयो मांसकामाश्च इत्यपि श्रूयते श्रुतिः ।यज्ञेषु पशवो ब्रह्मन्वध्यन्ते सततं द्विजैः ।संस्कृताः किल मन्त्रैश्च तेऽपि स्वर्गमवाप्नुवन् ॥ ९ ॥
यदि नैवाग्नयो ब्रह्मन्मांसकामाभवन्पुरा ।भक्ष्यं नैव भवेन्मांसं कस्यचिद्द्विजसत्तम ॥ १० ॥
अत्रापि विधिरुक्तश्च मुनिभिर्मांसभक्षणे ।देवतानां पितॄणां च भुङ्क्ते दत्त्वा तु यः सदा ।यथाविधि यथाश्रद्धं न स दुष्यति भक्षणात् ॥ ११ ॥
अमांसाशी भवत्येवमित्यपि श्रूयते श्रुतिः ।भार्यां गच्छन्ब्रह्मचारी ऋतौ भवति ब्राह्मणः ॥ १२ ॥
सत्यानृते विनिश्चित्य अत्रापि विधिरुच्यते ।सौदासेन पुरा राज्ञा मानुषा भक्षिता द्विज ।शापाभिभूतेन भृशमत्र किं प्रतिभाति ते ॥ १३ ॥
स्वधर्म इति कृत्वा तु न त्यजामि द्विजोत्तम ।पुराकृतमिति ज्ञात्वा जीवाम्येतेन कर्मणा ॥ १४ ॥
स्वकर्म त्यजतो ब्रह्मन्नधर्म इह दृश्यते ।स्वकर्मनिरतो यस्तु स धर्म इति निश्चयः ॥ १५ ॥
पूर्वं हि विहितं कर्म देहिनं न विमुञ्चति ।धात्रा विधिरयं दृष्टो बहुधा कर्मनिर्णये ॥ १६ ॥
द्रष्टव्यं तु भवेत्प्राज्ञ क्रूरे कर्मणि वर्तता ।कथं कर्म शुभं कुर्यां कथं मुच्ये पराभवात् ।कर्मणस्तस्य घोरस्य बहुधा निर्णयो भवेत् ॥ १७ ॥
दाने च सत्यवाक्ये च गुरुशुश्रूषणे तथा ।द्विजातिपूजने चाहं धर्मे च निरतः सदा ।अतिवादातिमानाभ्यां निवृत्तोऽस्मि द्विजोत्तम ॥ १८ ॥
कृषिं साध्विति मन्यन्ते तत्र हिंसा परा स्मृता ।कर्षन्तो लाङ्गलैः पुंसो घ्नन्ति भूमिशयान्बहून् ।जीवानन्यांश्च बहुशस्तत्र किं प्रतिभाति ते ॥ १९ ॥
धान्यबीजानि यान्याहुर्व्रीह्यादीनि द्विजोत्तम ।सर्वाण्येतानि जीवानि तत्र किं प्रतिभाति ते ॥ २० ॥
अध्याक्रम्य पशूंश्चापि घ्नन्ति वै भक्षयन्ति च ।वृक्षानथौषधीश्चैव छिन्दन्ति पुरुषा द्विज ॥ २१ ॥
जीवा हि बहवो ब्रह्मन्वृक्षेषु च फलेषु च ।उदके बहवश्चापि तत्र किं प्रतिभाति ते ॥ २२ ॥
सर्वं व्याप्तमिदं ब्रह्मन्प्राणिभिः प्राणिजीवनैः ।मत्स्या ग्रसन्ते मत्स्यांश्च तत्र किं प्रतिभाति ते ॥ २३ ॥
सत्त्वैः सत्त्वानि जीवन्ति बहुधा द्विजसत्तम ।प्राणिनोऽन्योन्यभक्षाश्च तत्र किं प्रतिभाति ते ॥ २४ ॥
चङ्क्रम्यमाणा जीवांश्च धरणीसंश्रितान्बहून् ।पद्भ्यां घ्नन्ति नरा विप्र तत्र किं प्रतिभाति ते ॥ २५ ॥
उपविष्टाः शयानाश्च घ्नन्ति जीवाननेकशः ।ज्ञानविज्ञानवन्तश्च तत्र किं प्रतिभाति ते ॥ २६ ॥
जीवैर्ग्रस्तमिदं सर्वमाकाशं पृथिवी तथा ।अविज्ञानाच्च हिंसन्ति तत्र किं प्रतिभाति ते ॥ २७ ॥
अहिंसेति यदुक्तं हि पुरुषैर्विस्मितैः पुरा ।के न हिंसन्ति जीवान्वै लोकेऽस्मिन्द्विजसत्तम ।बहु संचिन्त्य इह वै नास्ति कश्चिदहिंसकः ॥ २८ ॥
अहिंसायां तु निरता यतयो द्विजसत्तम ।कुर्वन्त्येव हि हिंसां ते यत्नादल्पतरा भवेत् ॥ २९ ॥
आलक्ष्याश्चैव पुरुषाः कुले जाता महागुणाः ।महाघोराणि कर्माणि कृत्वा लज्जन्ति वै न च ॥ ३० ॥
सुहृदः सुहृदोऽन्यांश्च दुर्हृदश्चापि दुर्हृदः ।सम्यक्प्रवृत्तान्पुरुषान्न सम्यगनुपश्यतः ॥ ३१ ॥
समृद्धैश्च न नन्दन्ति बान्धवा बान्धवैरपि ।गुरूंश्चैव विनिन्दन्ति मूढाः पण्डितमानिनः ॥ ३२ ॥
बहु लोके विपर्यस्तं दृश्यते द्विजसत्तम ।धर्मयुक्तमधर्मं च तत्र किं प्रतिभाति ते ॥ ३३ ॥
वक्तुं बहुविधं शक्यं धर्माधर्मेषु कर्मसु ।स्वकर्मनिरतो यो हि स यशः प्राप्नुयान्महत् ॥ ३४ ॥
« »