Click on words to see what they mean.

मार्कण्डेय उवाच ।इक्ष्वाकौ संस्थिते राजञ्शशादः पृथिवीमिमाम् ।प्राप्तः परमधर्मात्मा सोऽयोध्यायां नृपोऽभवत् ॥ १ ॥
शशादस्य तु दायादः ककुत्स्थो नाम वीर्यवान् ।अनेनाश्चापि काकुत्स्थः पृथुश्चानेनसः सुतः ॥ २ ॥
विष्वगश्वः पृथोः पुत्रस्तस्मादार्द्रस्तु जज्ञिवान् ।आर्द्रस्य युवनाश्वस्तु श्रावस्तस्तस्य चात्मजः ॥ ३ ॥
जज्ञे श्रावस्तको राजा श्रावस्ती येन निर्मिता ।श्रावस्तस्य तु दायादो बृहदश्वो महाबलः ।बृहदश्वसुतश्चापि कुवलाश्व इति स्मृतः ॥ ४ ॥
कुवलाश्वस्य पुत्राणां सहस्राण्येकविंशतिः ।सर्वे विद्यासु निष्णाता बलवन्तो दुरासदाः ॥ ५ ॥
कुवलाश्वस्तु पितृतो गुणैरभ्यधिकोऽभवत् ।समये तं ततो राज्ये बृहदश्वोऽभ्यषेचयत् ।कुवलाश्वं महाराज शूरमुत्तमधार्मिकम् ॥ ६ ॥
पुत्रसंक्रामितश्रीस्तु बृहदश्वो महीपतिः ।जगाम तपसे धीमांस्तपोवनममित्रहा ॥ ७ ॥
अथ शुश्राव राजर्षिं तमुत्तङ्को युधिष्ठिर ।वनं संप्रस्थितं राजन्बृहदश्वं द्विजोत्तमः ॥ ८ ॥
तमुत्तङ्को महातेजाः सर्वास्त्रविदुषां वरम् ।न्यवारयदमेयात्मा समासाद्य नरोत्तमम् ॥ ९ ॥
उत्तङ्क उवाच ।भवता रक्षणं कार्यं तत्तावत्कर्तुमर्हसि ।निरुद्विग्ना वयं राजंस्त्वत्प्रसादाद्वसेमहि ॥ १० ॥
त्वया हि पृथिवी राजन्रक्ष्यमाणा महात्मना ।भविष्यति निरुद्विग्ना नारण्यं गन्तुमर्हसि ॥ ११ ॥
पालने हि महान्धर्मः प्रजानामिह दृश्यते ।न तथा दृश्यतेऽरण्ये मा ते भूद्बुद्धिरीदृशी ॥ १२ ॥
ईदृशो न हि राजेन्द्र धर्मः क्वचन दृश्यते ।प्रजानां पालने यो वै पुरा राजर्षिभिः कृतः ।रक्षितव्याः प्रजा राज्ञा तास्त्वं रक्षितुमर्हसि ॥ १३ ॥
निरुद्विग्नस्तपश्चर्तुं न हि शक्नोमि पार्थिव ।ममाश्रमसमीपे वै समेषु मरुधन्वसु ॥ १४ ॥
समुद्रो वालुकापूर्ण उज्जानक इति स्मृतः ।बहुयोजनविस्तीर्णो बहुयोजनमायतः ॥ १५ ॥
तत्र रौद्रो दानवेन्द्रो महावीर्यपराक्रमः ।मधुकैटभयोः पुत्रो धुन्धुर्नाम सुदारुणः ॥ १६ ॥
अन्तर्भूमिगतो राजन्वसत्यमितविक्रमः ।तं निहत्य महाराज वनं त्वं गन्तुमर्हसि ॥ १७ ॥
शेते लोकविनाशाय तप आस्थाय दारुणम् ।त्रिदशानां विनाशाय लोकानां चापि पार्थिव ॥ १८ ॥
अवध्यो देवतानां स दैत्यानामथ रक्षसाम् ।नागानामथ यक्षाणां गन्धर्वाणां च सर्वशः ।अवाप्य स वरं राजन्सर्वलोकपितामहात् ॥ १९ ॥
तं विनाशय भद्रं ते मा ते बुद्धिरतोऽन्यथा ।प्राप्स्यसे महतीं कीर्तिं शाश्वतीमव्ययां ध्रुवाम् ॥ २० ॥
क्रूरस्य स्वपतस्तस्य वालुकान्तर्हितस्य वै ।संवत्सरस्य पर्यन्ते निःश्वासः संप्रवर्तते ।यदा तदा भूश्चलति सशैलवनकानना ॥ २१ ॥
तस्य निःश्वासवातेन रज उद्धूयते महत् ।आदित्यपथमावृत्य सप्ताहं भूमिकम्पनम् ।सविस्फुलिङ्गं सज्वालं सधूमं ह्यतिदारुणम् ॥ २२ ॥
तेन राजन्न शक्नोमि तस्मिन्स्थातुं स्व आश्रमे ।तं विनाशय राजेन्द्र लोकानां हितकाम्यया ।लोकाः स्वस्था भवन्त्वद्य तस्मिन्विनिहतेऽसुरे ॥ २३ ॥
त्वं हि तस्य विनाशाय पर्याप्त इति मे मतिः ।तेजसा तव तेजश्च विष्णुराप्याययिष्यति ॥ २४ ॥
विष्णुना च वरो दत्तो मम पूर्वं ततो वधे ।यस्तं महासुरं रौद्रं वधिष्यति महीपतिः ।तेजस्तं वैष्णवमिति प्रवेक्ष्यति दुरासदम् ॥ २५ ॥
तत्तेजस्त्वं समाधाय राजेन्द्र भुवि दुःसहम् ।तं निषूदय संदुष्टं दैत्यं रौद्रपराक्रमम् ॥ २६ ॥
न हि धुन्धुर्महातेजास्तेजसाल्पेन शक्यते ।निर्दग्धुं पृथिवीपाल स हि वर्षशतैरपि ॥ २७ ॥
« »