Click on words to see what they mean.

वैशंपायन उवाच ।युधिष्ठिरो धर्मराजः पप्रच्छ भरतर्षभ ।मार्कण्डेयं तपोवृद्धं दीर्घायुषमकल्मषम् ॥ १ ॥
विदितास्तव धर्मज्ञ देवदानवराक्षसाः ।राजवंशाश्च विविधा ऋषिवंशाश्च शाश्वताः ।न तेऽस्त्यविदितं किंचिदस्मिँल्लोके द्विजोत्तम ॥ २ ॥
कथां वेत्सि मुने दिव्यां मनुष्योरगरक्षसाम् ।एतदिच्छाम्यहं श्रोतुं तत्त्वेन कथितं द्विज ॥ ३ ॥
कुवलाश्व इति ख्यात इक्ष्वाकुरपराजितः ।कथं नाम विपर्यासाद्धुन्धुमारत्वमागतः ॥ ४ ॥
एतदिच्छामि तत्त्वेन ज्ञातुं भार्गवसत्तम ।विपर्यस्तं यथा नाम कुवलाश्वस्य धीमतः ॥ ५ ॥
मार्कण्डेय उवाच ।हन्त ते कथयिष्यामि शृणु राजन्युधिष्ठिर ।धर्मिष्ठमिदमाख्यानं धुन्धुमारस्य तच्छृणु ॥ ६ ॥
यथा स राजा इक्ष्वाकुः कुवलाश्वो महीपतिः ।धुन्धुमारत्वमगमत्तच्छृणुष्व महीपते ॥ ७ ॥
महर्षिर्विश्रुतस्तात उत्तङ्क इति भारत ।मरुधन्वसु रम्येषु आश्रमस्तस्य कौरव ॥ ८ ॥
उत्तङ्कस्तु महाराज तपोऽतप्यत्सुदुश्चरम् ।आरिराधयिषुर्विष्णुं बहून्वर्षगणान्विभो ॥ ९ ॥
तस्य प्रीतः स भगवान्साक्षाद्दर्शनमेयिवान् ।दृष्ट्वैव चर्षिः प्रह्वस्तं तुष्टाव विविधैः स्तवैः ॥ १० ॥
त्वया देव प्रजाः सर्वाः सदेवासुरमानवाः ।स्थावराणि च भूतानि जङ्गमानि तथैव च ।ब्रह्म वेदाश्च वेद्यं च त्वया सृष्टं महाद्युते ॥ ११ ॥
शिरस्ते गगनं देव नेत्रे शशिदिवाकरौ ।निःश्वासः पवनश्चापि तेजोऽग्निश्च तवाच्युत ।बाहवस्ते दिशः सर्वाः कुक्षिश्चापि महार्णवः ॥ १२ ॥
ऊरू ते पर्वता देव खं नाभिर्मधुसूदन ।पादौ ते पृथिवी देवी रोमाण्योषधयस्तथा ॥ १३ ॥
इन्द्रसोमाग्निवरुणा देवासुरमहोरगाः ।प्रह्वास्त्वामुपतिष्ठन्ति स्तुवन्तो विविधैः स्तवैः ॥ १४ ॥
त्वया व्याप्तानि सर्वाणि भूतानि भुवनेश्वर ।योगिनः सुमहावीर्याः स्तुवन्ति त्वां महर्षयः ॥ १५ ॥
त्वयि तुष्टे जगत्स्वस्थं त्वयि क्रुद्धे महद्भयम् ।भयानामपनेतासि त्वमेकः पुरुषोत्तम ॥ १६ ॥
देवानां मानुषाणां च सर्वभूतसुखावहः ।त्रिभिर्विक्रमणैर्देव त्रयो लोकास्त्वयाहृताः ।असुराणां समृद्धानां विनाशश्च त्वया कृतः ॥ १७ ॥
तव विक्रमणैर्देवा निर्वाणमगमन्परम् ।पराभवं च दैत्येन्द्रास्त्वयि क्रुद्धे महाद्युते ॥ १८ ॥
त्वं हि कर्ता विकर्ता च भूतानामिह सर्वशः ।आराधयित्वा त्वां देवाः सुखमेधन्ति सर्वशः ॥ १९ ॥
एवं स्तुतो हृषीकेश उत्तङ्केन महात्मना ।उत्तङ्कमब्रवीद्विष्णुः प्रीतस्तेऽहं वरं वृणु ॥ २० ॥
उत्तङ्क उवाच ।पर्याप्तो मे वरो ह्येष यदहं दृष्टवान्हरिम् ।पुरुषं शाश्वतं दिव्यं स्रष्टारं जगतः प्रभुम् ॥ २१ ॥
विष्णुरुवाच ।प्रीतस्तेऽहमलौल्येन भक्त्या च द्विजसत्तम ।अवश्यं हि त्वया ब्रह्मन्मत्तो ग्राह्यो वरो द्विज ॥ २२ ॥
एवं संछन्द्यमानस्तु वरेण हरिणा तदा ।उत्तङ्कः प्राञ्जलिर्वव्रे वरं भरतसत्तम ॥ २३ ॥
यदि मे भगवान्प्रीतः पुण्डरीकनिभेक्षणः ।धर्मे सत्ये दमे चैव बुद्धिर्भवतु मे सदा ।अभ्यासश्च भवेद्भक्त्या त्वयि नित्यं महेश्वर ॥ २४ ॥
विष्णुरुवाच ।सर्वमेतद्धि भविता मत्प्रसादात्तव द्विज ।प्रतिभास्यति योगश्च येन युक्तो दिवौकसाम् ।त्रयाणामपि लोकानां महत्कार्यं करिष्यसि ॥ २५ ॥
उत्सादनार्थं लोकानां धुन्धुर्नाम महासुरः ।तपस्यति तपो घोरं शृणु यस्तं हनिष्यति ॥ २६ ॥
बृहदश्व इति ख्यातो भविष्यति महीपतिः ।तस्य पुत्रः शुचिर्दान्तः कुवलाश्व इति श्रुतः ॥ २७ ॥
स योगबलमास्थाय मामकं पार्थिवोत्तमः ।शासनात्तव विप्रर्षे धुन्धुमारो भविष्यति ॥ २८ ॥
मार्कण्डेय उवाच ।उत्तङ्कमेवमुक्त्वा तु विष्णुरन्तरधीयत ॥ २९ ॥
« »