Click on words to see what they mean.

वैशंपायन उवाच ।मार्कण्डेयमृषयः पाण्डवाश्च पर्यपृच्छन् ।अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ १ ॥
स तानुवाच ।अस्ति खलु राजर्षिरिन्द्रद्युम्नो नाम क्षीणपुण्यस्त्रिदिवात्प्रच्युतः ।कीर्तिस्ते व्युच्छिन्नेति ।स मामुपातिष्ठत् ।अथ प्रत्यभिजानाति मां भवानिति ॥ २ ॥
तमहमब्रुवम् ।न वयं रासायनिकाः शरीरोपतापेनात्मनः समारभामहेऽर्थानामनुष्ठानम् ॥ ३ ॥
अस्ति खलु हिमवति प्राकारकर्णो नामोलूकः ।स भवन्तं यदि जानीयात् ।प्रकृष्टे चाध्वनि हिमवान् ।तत्रासौ प्रतिवसतीति ॥ ४ ॥
स मामश्वो भूत्वा तत्रावहद्यत्र बभूवोलूकः ॥ ५ ॥
अथैनं स राजर्षिः पर्यपृच्छत् ।प्रत्यभिजानाति मां भवानिति ॥ ६ ॥
स मुहूर्तं ध्यात्वाब्रवीदेनम् ।नाभिजाने भवन्तमिति ॥ ७ ॥
स एवमुक्तो राजर्षिरिन्द्रद्युम्नः पुनस्तमुलूकमब्रवीत् ।अस्ति कश्चिद्भवतश्चिरजाततर इति ॥ ८ ॥
स एवमुक्तोऽब्रवीदेनम् ।अस्ति खल्विन्द्रद्युम्नसरो नाम ।तस्मिन्नाडीजङ्घो नाम बकः प्रतिवसति ।सोऽस्मत्तश्चिरजाततरः ।तं पृच्छेति ॥ ९ ॥
तत इन्द्रद्युम्नो मां चोलूकं चादाय तत्सरोऽगच्छद्यत्रासौ नाडीजङ्घो नाम बको बभूव ॥ १० ॥
सोऽस्माभिः पृष्टः ।भवानिन्द्रद्युम्नं राजानं प्रत्यभिजानातीति ॥ ११ ॥
स एवमुक्तोऽब्रवीन्मुहूर्तं ध्यात्वा ।नाभिजानाम्यहमिन्द्रद्युम्नं राजानमिति ॥ १२ ॥
ततः सोऽस्माभिः पृष्टः ।अस्ति कश्चिदन्यो भवतश्चिरजाततर इति ॥ १३ ॥
स नोऽब्रवीदस्ति खल्विहैव सरस्यकूपारो नाम कच्छपः प्रतिवसति ।स मत्तश्चिरजाततर इति ।स यदि कथंचिदभिजानीयादिमं राजानं तमकूपारं पृच्छाम इति ॥ १४ ॥
ततः स बकस्तमकूपारं कच्छपं विज्ञापयामास ।अस्त्यस्माकमभिप्रेतं भवन्तं कंचिदर्थमभिप्रष्टुम् ।साध्वागम्यतां तावदिति ॥ १५ ॥
एतच्छ्रुत्वा स कच्छपस्तस्मात्सरस उत्थायाभ्यगच्छद्यत्र तिष्ठामो वयं तस्य सरसस्तीरे ॥ १६ ॥
आगतं चैनं वयमपृच्छाम ।भवानिन्द्रद्युम्नं राजानमभिजानातीति ॥ १७ ॥
स मुहूर्तं ध्यात्वा बाष्पपूर्णनयन उद्विग्नहृदयो वेपमानो विसंज्ञकल्पः प्राञ्जलिरब्रवीत् ।किमहमेनं न प्रत्यभिजानामि ।अहं ह्यनेन सहस्रकृत्वः पूर्वमग्निचितिषूपहितपूर्वः ।सरश्चेदमस्य दक्षिणादत्ताभिर्गोभिरतिक्रममाणाभिः कृतम् ।अत्र चाहं प्रतिवसामीति ॥ १८ ॥
अथैतत्कच्छपेनोदाहृतं श्रुत्वा समनन्तरं देवलोकाद्देवरथः प्रादुरासीत् ॥ १९ ॥
वाचश्चाश्रूयन्तेन्द्रद्युम्नं प्रति ।प्रस्तुतस्ते स्वर्गः ।यथोचितं स्थानमभिपद्यस्व ।कीर्तिमानसि ।अव्यग्रो याहीति ॥ २० ॥
दिवं स्पृशति भूमिं च शब्दः पुण्यस्य कर्मणः ।यावत्स शब्दो भवति तावत्पुरुष उच्यते ॥ २१ ॥
अकीर्तिः कीर्त्यते यस्य लोके भूतस्य कस्यचित् ।पतत्येवाधमाँल्लोकान्यावच्छब्दः स कीर्त्यते ॥ २२ ॥
तस्मात्कल्याणवृत्तः स्यादत्यन्ताय नरो भुवि ।विहाय वृत्तं पापिष्ठं धर्ममेवाभिसंश्रयेत् ॥ २३ ॥
इत्येतच्छ्रुत्वा स राजाब्रवीत् ।तिष्ठ तावद्यावदिदानीमिमौ वृद्धौ यथास्थानं प्रतिपादयामीति ॥ २४ ॥
स मां प्राकारकर्णं चोलूकं यथोचिते स्थाने प्रतिपाद्य तेनैव यानेन संसिद्धो यथोचितं स्थानं प्रतिपन्नः ॥ २५ ॥
एतन्मयानुभूतं चिरजीविना दृष्टमिति पाण्डवानुवाच मार्कण्डेयः ॥ २६ ॥
पाण्डवाश्चोचुः प्रीताः ।साधु ।शोभनं कृतं भवता राजानमिन्द्रद्युम्नं स्वर्गलोकाच्च्युतं स्वे स्थाने स्वर्गे पुनः प्रतिपादयतेति ॥ २७ ॥
अथैनानब्रवीदसौ ।ननु देवकीपुत्रेणापि कृष्णेन नरके मज्जमानो राजर्षिर्नृगस्तस्मात्कृच्छ्रात्समुद्धृत्य पुनः स्वर्गं प्रतिपादित इति ॥ २८ ॥
« »