Click on words to see what they mean.

वैशंपायन उवाच ।नगोत्तमं प्रस्रवणैरुपेतं दिशां गजैः किंनरपक्षिभिश्च ।सुखं निवासं जहतां हि तेषां न प्रीतिरासीद्भरतर्षभाणाम् ॥ १ ॥
ततस्तु तेषां पुनरेव हर्षः कैलासमालोक्य महान्बभूव ।कुबेरकान्तं भरतर्षभाणां महीधरं वारिधरप्रकाशम् ॥ २ ॥
समुच्छ्रयान्पर्वतसंनिरोधान्गोष्ठान्गिरीणां गिरिसेतुमालाः ।बहून्प्रपातांश्च समीक्ष्य वीराः स्थलानि निम्नानि च तत्र तत्र ॥ ३ ॥
तथैव चान्यानि महावनानि मृगद्विजानेकपसेवितानि ।आलोकयन्तोऽभिययुः प्रतीतास्ते धन्विनः खड्गधरा नराग्र्याः ॥ ४ ॥
वनानि रम्याणि सरांसि नद्यो गुहा गिरीणां गिरिगह्वराणि ।एते निवासाः सततं बभूवुर्निशानिशं प्राप्य नरर्षभाणाम् ॥ ५ ॥
ते दुर्गवासं बहुधा निरुष्य व्यतीत्य कैलासमचिन्त्यरूपम् ।आसेदुरत्यर्थमनोरमं वै तमाश्रमाग्र्यं वृषपर्वणस्ते ॥ ६ ॥
समेत्य राज्ञा वृषपर्वणस्ते प्रत्यर्चितास्तेन च वीतमोहाः ।शशंसिरे विस्तरशः प्रवासं शिवं यथावद्वृषपर्वणस्ते ॥ ७ ॥
सुखोषितास्तत्र त एकरात्रं पुण्याश्रमे देवमहर्षिजुष्टे ।अभ्याययुस्ते बदरीं विशालां सुखेन वीराः पुनरेव वासम् ॥ ८ ॥
ऊषुस्ततस्तत्र महानुभावा नारायणस्थानगता नराग्र्याः ।कुबेरकान्तां नलिनीं विशोकाः संपश्यमानाः सुरसिद्धजुष्टाम् ॥ ९ ॥
तां चाथ दृष्ट्वा नलिनीं विशोकाः पाण्डोः सुताः सर्वनरप्रवीराः ।ते रेमिरे नन्दनवासमेत्य द्विजर्षयो वीतभया यथैव ॥ १० ॥
ततः क्रमेणोपययुर्नृवीरा यथागतेनैव पथा समग्राः ।विहृत्य मासं सुखिनो बदर्यां किरातराज्ञो विषयं सुबाहोः ॥ ११ ॥
चीनांस्तुखारान्दरदान्सदार्वान्देशान्कुणिन्दस्य च भूरिरत्नान् ।अतीत्य दुर्गं हिमवत्प्रदेशं पुरं सुबाहोर्ददृशुर्नृवीराः ॥ १२ ॥
श्रुत्वा च तान्पार्थिवपुत्रपौत्रान्प्राप्तान्सुबाहुर्विषये समग्रान् ।प्रत्युद्ययौ प्रीतियुतः स राजा तं चाभ्यनन्दन्वृषभाः कुरूणाम् ॥ १३ ॥
समेत्य राज्ञा तु सुबाहुना ते सूतैर्विशोकप्रमुखैश्च सर्वैः ।सहेन्द्रसेनैः परिचारकैश्च पौरोगवैर्ये च महानसस्थाः ॥ १४ ॥
सुखोषितास्तत्र त एकरात्रं सूतानुपादाय रथांश्च सर्वान् ।घटोत्कचं सानुचरं विसृज्य ततोऽभ्ययुर्यामुनमद्रिराजम् ॥ १५ ॥
तस्मिन्गिरौ प्रस्रवणोपपन्ने हिमोत्तरीयारुणपाण्डुसानौ ।विशाखयूपं समुपेत्य चक्रुस्तदा निवासं पुरुषप्रवीराः ॥ १६ ॥
वराहनानामृगपक्षिजुष्टं महद्वनं चैत्ररथप्रकाशम् ।शिवेन यात्वा मृगयाप्रधानाः संवत्सरं तत्र वने विजह्रुः ॥ १७ ॥
तत्राससादातिबलं भुजंगं क्षुधार्दितं मृत्युमिवोग्ररूपम् ।वृकोदरः पर्वतकन्दरायां विषादमोहव्यथितान्तरात्मा ॥ १८ ॥
द्वीपोऽभवद्यत्र वृकोदरस्य युधिष्ठिरो धर्मभृतां वरिष्ठः ।अमोक्षयद्यस्तमनन्ततेजा ग्राहेण संवेष्टितसर्वगात्रम् ॥ १९ ॥
ते द्वादशं वर्षमथोपयान्तं वने विहर्तुं कुरवः प्रतीताः ।तस्माद्वनाच्चैत्ररथप्रकाशाच्छ्रिया ज्वलन्तस्तपसा च युक्ताः ॥ २० ॥
ततश्च यात्वा मरुधन्वपार्श्वं सदा धनुर्वेदरतिप्रधानाः ।सरस्वतीमेत्य निवासकामाः सरस्ततो द्वैतवनं प्रतीयुः ॥ २१ ॥
समीक्ष्य तान्द्वैतवने निविष्टान्निवासिनस्तत्र ततोऽभिजग्मुः ।तपोदमाचारसमाधियुक्तास्तृणोदपात्राहरणाश्मकुट्टाः ॥ २२ ॥
प्लक्षाक्षरौहीतकवेतसाश्च स्नुहा बदर्यः खदिराः शिरीषाः ।बिल्वेङ्गुदाः पीलुशमीकरीराः सरस्वतीतीररुहा बभूवुः ॥ २३ ॥
तां यक्षगन्धर्वमहर्षिकान्तामायागभूतामिव देवतानाम् ।सरस्वतीं प्रीतियुताश्चरन्तः सुखं विजह्रुर्नरदेवपुत्राः ॥ २४ ॥
« »