Click on words to see what they mean.

वैशंपायन उवाच ।यथागतं गते शक्रे भ्रातृभिः सह संगतः ।कृष्णया चैव बीभत्सुर्धर्मपुत्रमपूजयत् ॥ १ ॥
अभिवादयमानं तु मूर्ध्न्युपाघ्राय पाण्डवम् ।हर्षगद्गदया वाचा प्रहृष्टोऽर्जुनमब्रवीत् ॥ २ ॥
कथमर्जुन कालोऽयं स्वर्गे व्यतिगतस्तव ।कथं चास्त्राण्यवाप्तानि देवराजश्च तोषितः ॥ ३ ॥
सम्यग्वा ते गृहीतानि कच्चिदस्त्राणि भारत ।कच्चित्सुराधिपः प्रीतो रुद्रश्चास्त्राण्यदात्तव ॥ ४ ॥
यथा दृष्टश्च ते शक्रो भगवान्वा पिनाकधृक् ।यथा चास्त्राण्यवाप्तानि यथा चाराधितश्च ते ॥ ५ ॥
यथोक्तवांस्त्वां भगवाञ्शतक्रतुररिंदम ।कृतप्रियस्त्वयास्मीति तच्च ते किं प्रियं कृतम् ।एतदिच्छाम्यहं श्रोतुं विस्तरेण महाद्युते ॥ ६ ॥
यथा तुष्टो महादेवो देवराजश्च तेऽनघ ।यच्चापि वज्रपाणेस्ते प्रियं कृतमरिंदम ।एतदाख्याहि मे सर्वमखिलेन धनंजय ॥ ७ ॥
अर्जुन उवाच ।शृणु हन्त महाराज विधिना येन दृष्टवान् ।शतक्रतुमहं देवं भगवन्तं च शंकरम् ॥ ८ ॥
विद्यामधीत्य तां राजंस्त्वयोक्तामरिमर्दन ।भवता च समादिष्टस्तपसे प्रस्थितो वनम् ॥ ९ ॥
भृगुतुङ्गमथो गत्वा काम्यकादास्थितस्तपः ।एकरात्रोषितः कंचिदपश्यं ब्राह्मणं पथि ॥ १० ॥
स मामपृच्छत्कौन्तेय क्वासि गन्ता ब्रवीहि मे ।तस्मा अवितथं सर्वमब्रुवं कुरुनन्दन ॥ ११ ॥
स तथ्यं मम तच्छ्रुत्वा ब्राह्मणो राजसत्तम ।अपूजयत मां राजन्प्रीतिमांश्चाभवन्मयि ॥ १२ ॥
ततो मामब्रवीत्प्रीतस्तप आतिष्ठ भारत ।तपस्वी नचिरेण त्वं द्रक्ष्यसे विबुधाधिपम् ॥ १३ ॥
ततोऽहं वचनात्तस्य गिरिमारुह्य शैशिरम् ।तपोऽतप्यं महाराज मासं मूलफलाशनः ॥ १४ ॥
द्वितीयश्चापि मे मासो जलं भक्षयतो गतः ।निराहारस्तृतीयेऽथ मासे पाण्डवनन्दन ॥ १५ ॥
ऊर्ध्वबाहुश्चतुर्थं तु मासमस्मि स्थितस्तदा ।न च मे हीयते प्राणस्तदद्भुतमिवाभवत् ॥ १६ ॥
चतुर्थे समभिक्रान्ते प्रथमे दिवसे गते ।वराहसंस्थितं भूतं मत्समीपमुपागमत् ॥ १७ ॥
निघ्नन्प्रोथेन पृथिवीं विलिखंश्चरणैरपि ।संमार्जञ्जठरेणोर्वीं विवर्तंश्च मुहुर्मुहुः ॥ १८ ॥
अनु तस्यापरं भूतं महत्कैरातसंस्थितम् ।धनुर्बाणासिमत्प्राप्तं स्त्रीगणानुगतं तदा ॥ १९ ॥
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी ।अताडयं शरेणाथ तद्भूतं लोमहर्षणम् ॥ २० ॥
युगपत्तत्किरातश्च विकृष्य बलवद्धनुः ।अभ्याजघ्ने दृढतरं कम्पयन्निव मे मनः ॥ २१ ॥
स तु मामब्रवीद्राजन्मम पूर्वपरिग्रहः ।मृगयाधर्ममुत्सृज्य किमर्थं ताडितस्त्वया ॥ २२ ॥
एष ते निशितैर्बाणैर्दर्पं हन्मि स्थिरो भव ।स वर्ष्मवान्महाकायस्ततो मामभ्यधावत ॥ २३ ॥
ततो गिरिमिवात्यर्थमावृणोन्मां महाशरैः ।तं चाहं शरवर्षेण महता समवाकिरम् ॥ २४ ॥
ततः शरैर्दीप्तमुखैः पत्रितैरनुमन्त्रितैः ।प्रत्यविध्यमहं तं तु वज्रैरिव शिलोच्चयम् ॥ २५ ॥
तस्य तच्छतधा रूपमभवच्च सहस्रधा ।तानि चास्य शरीराणि शरैरहमताडयम् ॥ २६ ॥
पुनस्तानि शरीराणि एकीभूतानि भारत ।अदृश्यन्त महाराज तान्यहं व्यधमं पुनः ॥ २७ ॥
अणुर्बृहच्छिरा भूत्वा बृहच्चाणुशिराः पुनः ।एकीभूतस्तदा राजन्सोऽभ्यवर्तत मां युधि ॥ २८ ॥
यदाभिभवितुं बाणैर्नैव शक्नोमि तं रणे ।ततोऽहमस्त्रमातिष्ठं वायव्यं भरतर्षभ ॥ २९ ॥
न चैनमशकं हन्तुं तदद्भुतमिवाभवत् ।तस्मिन्प्रतिहते चास्त्रे विस्मयो मे महानभूत् ॥ ३० ॥
भूयश्चैव महाराज सविशेषमहं ततः ।अस्त्रपूगेन महता रणे भूतमवाकिरम् ॥ ३१ ॥
स्थूणाकर्णमयोजालं शरवर्षं शरोल्बणम् ।शैलास्त्रमश्मवर्षं च समास्थायाहमभ्ययाम् ।जग्रास प्रहसंस्तानि सर्वाण्यस्त्राणि मेऽनघ ॥ ३२ ॥
तेषु सर्वेषु शान्तेषु ब्रह्मास्त्रमहमादिशम् ।ततः प्रज्वलितैर्बाणैः सर्वतः सोपचीयत ।उपचीयमानश्च मया महास्त्रेण व्यवर्धत ॥ ३३ ॥
ततः संतापितो लोको मत्प्रसूतेन तेजसा ।क्षणेन हि दिशः खं च सर्वतोऽभिविदीपितम् ॥ ३४ ॥
तदप्यस्त्रं महातेजाः क्षणेनैव व्यशातयत् ।ब्रह्मास्त्रे तु हते राजन्भयं मां महदाविशत् ॥ ३५ ॥
ततोऽहं धनुरादाय तथाक्षय्यौ महेषुधी ।सहसाभ्यहनं भूतं तान्यप्यस्त्राण्यभक्षयत् ॥ ३६ ॥
हतेष्वस्त्रेषु सर्वेषु भक्षितेष्वायुधेषु च ।मम तस्य च भूतस्य बाहुयुद्धमवर्तत ॥ ३७ ॥
व्यायामं मुष्टिभिः कृत्वा तलैरपि समाहतौ ।अपातयच्च तद्भूतं निश्चेष्टो ह्यगमं महीम् ॥ ३८ ॥
ततः प्रहस्य तद्भूतं तत्रैवान्तरधीयत ।सह स्त्रीभिर्महाराज पश्यतो मेऽद्भुतोपमम् ॥ ३९ ॥
एवं कृत्वा स भगवांस्ततोऽन्यद्रूपमात्मनः ।दिव्यमेव महाराज वसानोऽद्भुतमम्बरम् ॥ ४० ॥
हित्वा किरातरूपं च भगवांस्त्रिदशेश्वरः ।स्वरूपं दिव्यमास्थाय तस्थौ तत्र महेश्वरः ॥ ४१ ॥
अदृश्यत ततः साक्षाद्भगवान्गोवृषध्वजः ।उमासहायो हरिदृग्बहुरूपः पिनाकधृक् ॥ ४२ ॥
स मामभ्येत्य समरे तथैवाभिमुखं स्थितम् ।शूलपाणिरथोवाच तुष्टोऽस्मीति परंतप ॥ ४३ ॥
ततस्तद्धनुरादाय तूणौ चाक्षय्यसायकौ ।प्रादान्ममैव भगवान्वरयस्वेति चाब्रवीत् ॥ ४४ ॥
तुष्टोऽस्मि तव कौन्तेय ब्रूहि किं करवाणि ते ।यत्ते मनोगतं वीर तद्ब्रूहि वितराम्यहम् ।अमरत्वमपाहाय ब्रूहि यत्ते मनोगतम् ॥ ४५ ॥
ततः प्राञ्जलिरेवाहमस्त्रेषु गतमानसः ।प्रणम्य शिरसा शर्वं ततो वचनमाददे ॥ ४६ ॥
भगवान्मे प्रसन्नश्चेदीप्सितोऽयं वरो मम ।अस्त्राणीच्छाम्यहं ज्ञातुं यानि देवेषु कानिचित् ।ददानीत्येव भगवानब्रवीत्त्र्यम्बकश्च माम् ॥ ४७ ॥
रौद्रमस्त्रं मदीयं त्वामुपस्थास्यति पाण्डव ।प्रददौ च मम प्रीतः सोऽस्त्रं पाशुपतं प्रभुः ॥ ४८ ॥
उवाच च महादेवो दत्त्वा मेऽस्त्रं सनातनम् ।न प्रयोज्यं भवेदेतन्मानुषेषु कथंचन ॥ ४९ ॥
पीड्यमानेन बलवत्प्रयोज्यं ते धनंजय ।अस्त्राणां प्रतिघाते च सर्वथैव प्रयोजयेः ॥ ५० ॥
तदप्रतिहतं दिव्यं सर्वास्त्रप्रतिषेधनम् ।मूर्तिमन्मे स्थितं पार्श्वे प्रसन्ने गोवृषध्वजे ॥ ५१ ॥
उत्सादनममित्राणां परसेनानिकर्तनम् ।दुरासदं दुष्प्रहसं सुरदानवराक्षसैः ॥ ५२ ॥
अनुज्ञातस्त्वहं तेन तत्रैव समुपाविशम् ।प्रेक्षतश्चैव मे देवस्तत्रैवान्तरधीयत ॥ ५३ ॥
« »