Click on words to see what they mean.

वैशंपायन उवाच ।तस्मिन्नगेन्द्रे वसतां तु तेषां महात्मनां सद्व्रतमास्थितानाम् ।रतिः प्रमोदश्च बभूव तेषामाकाङ्क्षतां दर्शनमर्जुनस्य ॥ १ ॥
तान्वीर्ययुक्तान्सुविशुद्धसत्त्वांस्तेजस्विनः सत्यधृतिप्रधानान् ।संप्रीयमाणा बहवोऽभिजग्मुर्गन्धर्वसंघाश्च महर्षयश्च ॥ २ ॥
तं पादपैः पुष्पधरैरुपेतं नगोत्तमं प्राप्य महारथानाम् ।मनःप्रसादः परमो बभूव यथा दिवं प्राप्य मरुद्गणानाम् ॥ ३ ॥
मयूरहंसस्वननादितानि पुष्पोपकीर्णानि महाचलस्य ।शृङ्गाणि सानूनि च पश्यमाना गिरेः परं हर्षमवाप्य तस्थुः ॥ ४ ॥
साक्षात्कुबेरेण कृताश्च तस्मिन्नगोत्तमे संवृतकूलरोधसः ।कादम्बकारण्डवहंसजुष्टाः पद्माकुलाः पुष्करिणीरपश्यन् ॥ ५ ॥
क्रीडाप्रदेशांश्च समृद्धरूपान्सुचित्रमाल्यावृतजातशोभान् ।मणिप्रवेकान्सुमनोहरांश्च यथा भवेयुर्धनदस्य राज्ञः ॥ ६ ॥
अनेकवर्णैश्च सुगन्धिभिश्च महाद्रुमैः संततमभ्रमालिभिः ।तपःप्रधानाः सततं चरन्तः शृङ्गं गिरेश्चिन्तयितुं न शेकुः ॥ ७ ॥
स्वतेजसा तस्य नगोत्तमस्य महौषधीनां च तथा प्रभावात् ।विभक्तभावो न बभूव कश्चिदहर्निशानां पुरुषप्रवीर ॥ ८ ॥
यमास्थितः स्थावरजङ्गमानि विभावसुर्भावयतेऽमितौजाः ।तस्योदयं चास्तमयं च वीरास्तत्र स्थितास्ते ददृशुर्नृसिंहाः ॥ ९ ॥
रवेस्तमिस्रागमनिर्गमांस्ते तथोदयं चास्तमयं च वीराः ।समावृताः प्रेक्ष्य तमोनुदस्य गभस्तिजालैः प्रदिशो दिशश्च ॥ १० ॥
स्वाध्यायवन्तः सततक्रियाश्च धर्मप्रधानाश्च शुचिव्रताश्च ।सत्ये स्थितास्तस्य महारथस्य सत्यव्रतस्यागमनप्रतीक्षाः ॥ ११ ॥
इहैव हर्षोऽस्तु समागतानां क्षिप्रं कृतास्त्रेण धनंजयेन ।इति ब्रुवन्तः परमाशिषस्ते पार्थास्तपोयोगपरा बभूवुः ॥ १२ ॥
दृष्ट्वा विचित्राणि गिरौ वनानि किरीटिनं चिन्तयतामभीक्ष्णम् ।बभूव रात्रिर्दिवसश्च तेषां संवत्सरेणैव समानरूपः ॥ १३ ॥
यदैव धौम्यानुमते महात्मा कृत्वा जटाः प्रव्रजितः स जिष्णुः ।तदैव तेषां न बभूव हर्षः कुतो रतिस्तद्गतमानसानाम् ॥ १४ ॥
भ्रातुर्नियोगात्तु युधिष्ठिरस्य वनादसौ वारणमत्तगामी ।यत्काम्यकात्प्रव्रजितः स जिष्णुस्तदैव ते शोकहता बभूवुः ॥ १५ ॥
तथा तु तं चिन्तयतां सिताश्वमस्त्रार्थिनं वासवमभ्युपेतम् ।मासोऽथ कृच्छ्रेण तदा व्यतीतस्तस्मिन्नगे भारत भारतानाम् ॥ १६ ॥
ततः कदाचिद्धरिसंप्रयुक्तं महेन्द्रवाहं सहसोपयातम् ।विद्युत्प्रभं प्रेक्ष्य महारथानां हर्षोऽर्जुनं चिन्तयतां बभूव ॥ १७ ॥
स दीप्यमानः सहसान्तरिक्षं प्रकाशयन्मातलिसंगृहीतः ।बभौ महोल्केव घनान्तरस्था शिखेव चाग्नेर्ज्वलिता विधूमा ॥ १८ ॥
तमास्थितः संददृशे किरीटी स्रग्वी वराण्याभरणानि बिभ्रत् ।धनंजयो वज्रधरप्रभावः श्रिया ज्वलन्पर्वतमाजगाम ॥ १९ ॥
स शैलमासाद्य किरीटमाली महेन्द्रवाहादवरुह्य तस्मात् ।धौम्यस्य पादावभिवाद्य पूर्वमजातशत्रोस्तदनन्तरं च ॥ २० ॥
वृकोदरस्यापि ववन्द पादौ माद्रीसुताभ्यामभिवादितश्च ।समेत्य कृष्णां परिसान्त्व्य चैनां प्रह्वोऽभवद्भ्रातुरुपह्वरे सः ॥ २१ ॥
बभूव तेषां परमः प्रहर्षस्तेनाप्रमेयेण समागतानाम् ।स चापि तान्प्रेक्ष्य किरीटमाली ननन्द राजानमभिप्रशंसन् ॥ २२ ॥
यमास्थितः सप्त जघान पूगान्दितेः सुतानां नमुचेर्निहन्ता ।तमिन्द्रवाहं समुपेत्य पार्थाः प्रदक्षिणं चक्रुरदीनसत्त्वाः ॥ २३ ॥
ते मातलेश्चक्रुरतीव हृष्टाः सत्कारमग्र्यं सुरराजतुल्यम् ।सर्वं यथावच्च दिवौकसस्तान्पप्रच्छुरेनं कुरुराजपुत्राः ॥ २४ ॥
तानप्यसौ मातलिरभ्यनन्दत्पितेव पुत्राननुशिष्य चैनान् ।ययौ रथेनाप्रतिमप्रभेण पुनः सकाशं त्रिदिवेश्वरस्य ॥ २५ ॥
गते तु तस्मिन्वरदेववाहे शक्रात्मजः सर्वरिपुप्रमाथी ।शक्रेण दत्तानि ददौ महात्मा महाधनान्युत्तमरूपवन्ति ।दिवाकराभाणि विभूषणानि प्रीतः प्रियायै सुतसोममात्रे ॥ २६ ॥
ततः स तेषां कुरुपुंगवानां तेषां च सूर्याग्निसमप्रभाणाम् ।विप्रर्षभाणामुपविश्य मध्ये सर्वं यथावत्कथयां बभूव ॥ २७ ॥
एवं मयास्त्राण्युपशिक्षितानि शक्राच्च वाताच्च शिवाच्च साक्षात् ।तथैव शीलेन समाधिना च प्रीताः सुरा मे सहिताः सहेन्द्राः ॥ २८ ॥
संक्षेपतो वै स विशुद्धकर्मा तेभ्यः समाख्याय दिवि प्रवेशम् ।माद्रीसुताभ्यां सहितः किरीटी सुष्वाप तामावसतिं प्रतीतः ॥ २९ ॥
« »