Click on words to see what they mean.

वैशंपायन उवाच ।ततः सूर्योदये धौम्यः कृत्वाह्निकमरिंदम ।आर्ष्टिषेणेन सहितः पाण्डवानभ्यवर्तत ॥ १ ॥
तेऽभिवाद्यार्ष्टिषेणस्य पादौ धौम्यस्य चैव ह ।ततः प्राञ्जलयः सर्वे ब्राह्मणांस्तानपूजयन् ॥ २ ॥
ततो युधिष्ठिरं धौम्यो गृहीत्वा दक्षिणे करे ।प्राचीं दिशमभिप्रेक्ष्य महर्षिरिदमब्रवीत् ॥ ३ ॥
असौ सागरपर्यन्तां भूमिमावृत्य तिष्ठति ।शैलराजो महाराज मन्दरोऽभिविराजते ॥ ४ ॥
इन्द्रवैश्रवणावेतां दिशं पाण्डव रक्षतः ।पर्वतैश्च वनान्तैश्च काननैश्चोपशोभिताम् ॥ ५ ॥
एतदाहुर्महेन्द्रस्य राज्ञो वैश्रवणस्य च ।ऋषयः सर्वधर्मज्ञाः सद्म तात मनीषिणः ॥ ६ ॥
अतश्चोद्यन्तमादित्यमुपतिष्ठन्ति वै प्रजाः ।ऋषयश्चापि धर्मज्ञाः सिद्धाः साध्याश्च देवताः ॥ ७ ॥
यमस्तु राजा धर्मात्मा सर्वप्राणभृतां प्रभुः ।प्रेतसत्त्वगतीमेतां दक्षिणामाश्रितो दिशम् ॥ ८ ॥
एतत्संयमनं पुण्यमतीवाद्भुतदर्शनम् ।प्रेतराजस्य भवनमृद्ध्या परमया युतम् ॥ ९ ॥
यं प्राप्य सविता राजन्सत्येन प्रतितिष्ठति ।अस्तं पर्वतराजानमेतमाहुर्मनीषिणः ॥ १० ॥
एतं पर्वतराजानं समुद्रं च महोदधिम् ।आवसन्वरुणो राजा भूतानि परिरक्षति ॥ ११ ॥
उदीचीं दीपयन्नेष दिशं तिष्ठति कीर्तिमान् ।महामेरुर्महाभाग शिवो ब्रह्मविदां गतिः ॥ १२ ॥
यस्मिन्ब्रह्मसदश्चैव तिष्ठते च प्रजापतिः ।भूतात्मा विसृजन्सर्वं यत्किंचिज्जङ्गमागमम् ॥ १३ ॥
यानाहुर्ब्रह्मणः पुत्रान्मानसान्दक्षसप्तमान् ।तेषामपि महामेरुः स्थानं शिवमनामयम् ॥ १४ ॥
अत्रैव प्रतितिष्ठन्ति पुनरत्रोदयन्ति च ।सप्त देवर्षयस्तात वसिष्ठप्रमुखाः सदा ॥ १५ ॥
देशं विरजसं पश्य मेरोः शिखरमुत्तमम् ।यत्रात्मतृप्तैरध्यास्ते देवैः सह पितामहः ॥ १६ ॥
यमाहुः सर्वभूतानां प्रकृतेः प्रकृतिं ध्रुवम् ।अनादिनिधनं देवं प्रभुं नारायणं परम् ॥ १७ ॥
ब्रह्मणः सदनात्तस्य परं स्थानं प्रकाशते ।देवाश्च यत्नात्पश्यन्ति दिव्यं तेजोमयं शिवम् ॥ १८ ॥
अत्यर्कानलदीप्तं तत्स्थानं विष्णोर्महात्मनः ।स्वयैव प्रभया राजन्दुष्प्रेक्ष्यं देवदानवैः ॥ १९ ॥
तद्वै ज्योतींषि सर्वाणि प्राप्य भासन्ति नोऽपि च ।स्वयं विभुरदीनात्मा तत्र ह्यभिविराजते ॥ २० ॥
यतयस्तत्र गच्छन्ति भक्त्या नारायणं हरिम् ।परेण तपसा युक्ता भाविताः कर्मभिः शुभैः ॥ २१ ॥
योगसिद्धा महात्मानस्तमोमोहविवर्जिताः ।तत्र गत्वा पुनर्नेमं लोकमायान्ति भारत ॥ २२ ॥
स्थानमेतन्महाभाग ध्रुवमक्षयमव्ययम् ।ईश्वरस्य सदा ह्येतत्प्रणमात्र युधिष्ठिर ॥ २३ ॥
एतं ज्योतींषि सर्वाणि प्रकर्षन्भगवानपि ।कुरुते वितमस्कर्मा आदित्योऽभिप्रदक्षिणम् ॥ २४ ॥
अस्तं प्राप्य ततः संध्यामतिक्रम्य दिवाकरः ।उदीचीं भजते काष्ठां दिशमेष विभावसुः ॥ २५ ॥
स मेरुमनुवृत्तः सन्पुनर्गच्छति पाण्डव ।प्राङ्मुखः सविता देवः सर्वभूतहिते रतः ॥ २६ ॥
स मासं विभजन्कालं बहुधा पर्वसंधिषु ।तथैव भगवान्सोमो नक्षत्रैः सह गच्छति ॥ २७ ॥
एवमेष परिक्रम्य महामेरुमतन्द्रितः ।भावयन्सर्वभूतानि पुनर्गच्छति मन्दरम् ॥ २८ ॥
तथा तमिस्रहा देवो मयूखैर्भावयञ्जगत् ।मार्गमेतदसंबाधमादित्यः परिवर्तते ॥ २९ ॥
सिसृक्षुः शिशिराण्येष दक्षिणां भजते दिशम् ।ततः सर्वाणि भूतानि कालः शिशिरमृच्छति ॥ ३० ॥
स्थावराणां च भूतानां जङ्गमानां च तेजसा ।तेजांसि समुपादत्ते निवृत्तः सन्विभावसुः ॥ ३१ ॥
ततः स्वेदः क्लमस्तन्द्री ग्लानिश्च भजते नरान् ।प्राणिभिः सततं स्वप्नो ह्यभीक्ष्णं च निषेव्यते ॥ ३२ ॥
एवमेतदनिर्देश्यं मार्गमावृत्य भानुमान् ।पुनः सृजति वर्षाणि भगवान्भावयन्प्रजाः ॥ ३३ ॥
वृष्टिमारुतसंतापैः सुखैः स्थावरजङ्गमान् ।वर्धयन्सुमहातेजाः पुनः प्रतिनिवर्तते ॥ ३४ ॥
एवमेष चरन्पार्थ कालचक्रमतन्द्रितः ।प्रकर्षन्सर्वभूतानि सविता परिवर्तते ॥ ३५ ॥
संतता गतिरेतस्य नैष तिष्ठति पाण्डव ।आदायैव तु भूतानां तेजो विसृजते पुनः ॥ ३६ ॥
विभजन्सर्वभूतानामायुः कर्म च भारत ।अहोरात्रान्कलाः काष्ठाः सृजत्येष सदा विभुः ॥ ३७ ॥
« »