Click on words to see what they mean.

वैश्रवण उवाच ।युधिष्ठिर धृतिर्दाक्ष्यं देशकालौ पराक्रमः ।लोकतन्त्रविधानानामेष पञ्चविधो विधिः ॥ १ ॥
धृतिमन्तश्च दक्षाश्च स्वे स्वे कर्मणि भारत ।पराक्रमविधानज्ञा नराः कृतयुगेऽभवन् ॥ २ ॥
धृतिमान्देशकालज्ञः सर्वधर्मविधानवित् ।क्षत्रियः क्षत्रियश्रेष्ठ पृथिवीमनुशास्ति वै ॥ ३ ॥
य एवं वर्तते पार्थ पुरुषः सर्वकर्मसु ।स लोके लभते वीर यशः प्रेत्य च सद्गतिम् ॥ ४ ॥
देशकालान्तरप्रेप्सुः कृत्वा शक्रः पराक्रमम् ।संप्राप्तस्त्रिदिवे राज्यं वृत्रहा वसुभिः सह ॥ ५ ॥
पापात्मा पापबुद्धिर्यः पापमेवानुवर्तते ।कर्मणामविभागज्ञः प्रेत्य चेह च नश्यति ॥ ६ ॥
अकालज्ञः सुदुर्मेधाः कार्याणामविशेषवित् ।वृथाचारसमारम्भः प्रेत्य चेह च नश्यति ॥ ७ ॥
साहसे वर्तमानानां निकृतीनां दुरात्मनाम् ।सर्वसामर्थ्यलिप्सूनां पापो भवति निश्चयः ॥ ८ ॥
अधर्मज्ञोऽवलिप्तश्च बालबुद्धिरमर्षणः ।निर्भयो भीमसेनोऽयं तं शाधि पुरुषर्षभ ॥ ९ ॥
आर्ष्टिषेणस्य राजर्षेः प्राप्य भूयस्त्वमाश्रमम् ।तामिस्रं प्रथमं पक्षं वीतशोकभयो वस ॥ १० ॥
अलकाः सह गन्धर्वैर्यक्षैश्च सह राक्षसैः ।मन्नियुक्ता मनुष्येन्द्र सर्वे च गिरिवासिनः ।रक्षन्तु त्वा महाबाहो सहितं द्विजसत्तमैः ॥ ११ ॥
साहसेषु च संतिष्ठन्निह शैले वृकोदरः ।वार्यतां साध्वयं राजंस्त्वया धर्मभृतां वर ॥ १२ ॥
इतः परं च राजेन्द्र द्रक्ष्यन्ति वनगोचराः ।उपस्थास्यन्ति च सदा रक्षिष्यन्ति च सर्वशः ॥ १३ ॥
तथैव चान्नपानानि स्वादूनि च बहूनि च ।उपस्थास्यन्ति वो गृह्य मत्प्रेष्याः पुरुषर्षभ ॥ १४ ॥
यथा जिष्णुर्महेन्द्रस्य यथा वायोर्वृकोदरः ।धर्मस्य त्वं यथा तात योगोत्पन्नो निजः सुतः ॥ १५ ॥
आत्मजावात्मसंपन्नौ यमौ चोभौ यथाश्विनोः ।रक्ष्यास्तद्वन्ममापीह यूयं सर्वे युधिष्ठिर ॥ १६ ॥
अर्थतत्त्वविभागज्ञः सर्वधर्मविशेषवित् ।भीमसेनादवरजः फल्गुनः कुशली दिवि ॥ १७ ॥
याः काश्चन मता लोकेष्वग्र्याः परमसंपदः ।जन्मप्रभृति ताः सर्वाः स्थितास्तात धनंजये ॥ १८ ॥
दमो दानं बलं बुद्धिर्ह्रीर्धृतिस्तेज उत्तमम् ।एतान्यपि महासत्त्वे स्थितान्यमिततेजसि ॥ १९ ॥
न मोहात्कुरुते जिष्णुः कर्म पाण्डव गर्हितम् ।न पार्थस्य मृषोक्तानि कथयन्ति नरा नृषु ॥ २० ॥
स देवपितृगन्धर्वैः कुरूणां कीर्तिवर्धनः ।मानितः कुरुतेऽस्त्राणि शक्रसद्मनि भारत ॥ २१ ॥
योऽसौ सर्वान्महीपालान्धर्मेण वशमानयत् ।स शंतनुर्महातेजाः पितुस्तव पितामहः ।प्रीयते पार्थ पार्थेन दिवि गाण्डीवधन्वना ॥ २२ ॥
सम्यक्चासौ महावीर्यः कुलधुर्य इव स्थितः ।पितॄन्देवांस्तथा विप्रान्पूजयित्वा महायशाः ।सप्त मुख्यान्महामेधानाहरद्यमुनां प्रति ॥ २३ ॥
अधिराजः स राजंस्त्वां शंतनुः प्रपितामहः ।स्वर्गजिच्छक्रलोकस्थः कुशलं परिपृच्छति ॥ २४ ॥
वैशंपायन उवाच ।ततः शक्तिं गदां खड्गं धनुश्च भरतर्षभ ।प्राध्वं कृत्वा नमश्चक्रे कुबेराय वृकोदरः ॥ २५ ॥
ततोऽब्रवीद्धनाध्यक्षः शरण्यः शरणागतम् ।मानहा भव शत्रूणां सुहृदां नन्दिवर्धनः ॥ २६ ॥
स्वेषु वेश्मसु रम्येषु वसतामित्रतापनाः ।कामानुपहरिष्यन्ति यक्षा वो भरतर्षभाः ॥ २७ ॥
शीघ्रमेव गुडाकेशः कृतास्त्रः पुरुषर्षभः ।साक्षान्मघवता सृष्टः संप्राप्स्यति धनंजयः ॥ २८ ॥
एवमुत्तमकर्माणमनुशिष्य युधिष्ठिरम् ।अस्तं गिरिवरश्रेष्ठं प्रययौ गुह्यकाधिपः ॥ २९ ॥
तं परिस्तोमसंकीर्णैर्नानारत्नविभूषितैः ।यानैरनुययुर्यक्षा राक्षसाश्च सहस्रशः ॥ ३० ॥
पक्षिणामिव निर्घोषः कुबेरसदनं प्रति ।बभूव परमाश्वानामैरावतपथे यताम् ॥ ३१ ॥
ते जग्मुस्तूर्णमाकाशं धनाधिपतिवाजिनः ।प्रकर्षन्त इवाभ्राणि पिबन्त इव मारुतम् ॥ ३२ ॥
ततस्तानि शरीराणि गतसत्त्वानि रक्षसाम् ।अपाकृष्यन्त शैलाग्राद्धनाधिपतिशासनात् ॥ ३३ ॥
तेषां हि शापकालोऽसौ कृतोऽगस्त्येन धीमता ।समरे निहतास्तस्मात्सर्वे मणिमता सह ॥ ३४ ॥
पाण्डवास्तु महात्मानस्तेषु वेश्मसु तां क्षपाम् ।सुखमूषुर्गतोद्वेगाः पूजिताः सर्वराक्षसैः ॥ ३५ ॥
« »