Click on words to see what they mean.

वैशंपायन उवाच ।एवमुक्तो महाबाहुर्भीमसेनः प्रतापवान् ।प्रणिपत्य ततः प्रीत्या भ्रातरं हृष्टमानसः ।उवाच श्लक्ष्णया वाचा हनूमन्तं कपीश्वरम् ॥ १ ॥
मया धन्यतरो नास्ति यदार्यं दृष्टवानहम् ।अनुग्रहो मे सुमहांस्तृप्तिश्च तव दर्शनात् ॥ २ ॥
एवं तु कृतमिच्छामि त्वयार्याद्य प्रियं मम ।यत्ते तदासीत्प्लवतः सागरं मकरालयम् ।रूपमप्रतिमं वीर तदिच्छामि निरीक्षितुम् ॥ ३ ॥
एवं तुष्टो भविष्यामि श्रद्धास्यामि च ते वचः ।एवमुक्तः स तेजस्वी प्रहस्य हरिरब्रवीत् ॥ ४ ॥
न तच्छक्यं त्वया द्रष्टुं रूपं नान्येन केनचित् ।कालावस्था तदा ह्यन्या वर्तते सा न सांप्रतम् ॥ ५ ॥
अन्यः कृतयुगे कालस्त्रेतायां द्वापरेऽपरः ।अयं प्रध्वंसनः कालो नाद्य तद्रूपमस्ति मे ॥ ६ ॥
भूमिर्नद्यो नगाः शैलाः सिद्धा देवा महर्षयः ।कालं समनुवर्तन्ते यथा भावा युगे युगे ।बलवर्ष्मप्रभावा हि प्रहीयन्त्युद्भवन्ति च ॥ ७ ॥
तदलं तव तद्रूपं द्रष्टुं कुरुकुलोद्वह ।युगं समनुवर्तामि कालो हि दुरतिक्रमः ॥ ८ ॥
भीम उवाच ।युगसंख्यां समाचक्ष्व आचारं च युगे युगे ।धर्मकामार्थभावांश्च वर्ष्म वीर्यं भवाभवौ ॥ ९ ॥
हनूमानुवाच ।कृतं नाम युगं तात यत्र धर्मः सनातनः ।कृतमेव न कर्तव्यं तस्मिन्काले युगोत्तमे ॥ १० ॥
न तत्र धर्माः सीदन्ति न क्षीयन्ते च वै प्रजाः ।ततः कृतयुगं नाम कालेन गुणतां गतम् ॥ ११ ॥
देवदानवगन्धर्वयक्षराक्षसपन्नगाः ।नासन्कृतयुगे तात तदा न क्रयविक्रयाः ॥ १२ ॥
न सामयजुऋग्वर्णाः क्रिया नासीच्च मानवी ।अभिध्याय फलं तत्र धर्मः संन्यास एव च ॥ १३ ॥
न तस्मिन्युगसंसर्गे व्याधयो नेन्द्रियक्षयः ।नासूया नापि रुदितं न दर्पो नापि पैशुनम् ॥ १४ ॥
न विग्रहः कुतस्तन्द्री न द्वेषो नापि वैकृतम् ।न भयं न च संतापो न चेर्ष्या न च मत्सरः ॥ १५ ॥
ततः परमकं ब्रह्म या गतिर्योगिनां परा ।आत्मा च सर्वभूतानां शुक्लो नारायणस्तदा ॥ १६ ॥
ब्राह्मणाः क्षत्रिया वैश्याः शूद्राश्च कृतलक्षणाः ।कृते युगे समभवन्स्वकर्मनिरताः प्रजाः ॥ १७ ॥
समाश्रमं समाचारं समज्ञानमतीबलम् ।तदा हि समकर्माणो वर्णा धर्मानवाप्नुवन् ॥ १८ ॥
एकवेदसमायुक्ता एकमन्त्रविधिक्रियाः ।पृथग्धर्मास्त्वेकवेदा धर्ममेकमनुव्रताः ॥ १९ ॥
चातुराश्रम्ययुक्तेन कर्मणा कालयोगिना ।अकामफलसंयोगात्प्राप्नुवन्ति परां गतिम् ॥ २० ॥
आत्मयोगसमायुक्तो धर्मोऽयं कृतलक्षणः ।कृते युगे चतुष्पादश्चातुर्वर्ण्यस्य शाश्वतः ॥ २१ ॥
एतत्कृतयुगं नाम त्रैगुण्यपरिवर्जितम् ।त्रेतामपि निबोध त्वं यस्मिन्सत्रं प्रवर्तते ॥ २२ ॥
पादेन ह्रसते धर्मो रक्ततां याति चाच्युतः ।सत्यप्रवृत्ताश्च नराः क्रियाधर्मपरायणाः ॥ २३ ॥
ततो यज्ञाः प्रवर्तन्ते धर्माश्च विविधाः क्रियाः ।त्रेतायां भावसंकल्पाः क्रियादानफलोदयाः ॥ २४ ॥
प्रचलन्ति न वै धर्मात्तपोदानपरायणाः ।स्वधर्मस्थाः क्रियावन्तो जनास्त्रेतायुगेऽभवन् ॥ २५ ॥
द्वापरेऽपि युगे धर्मो द्विभागोनः प्रवर्तते ।विष्णुर्वै पीततां याति चतुर्धा वेद एव च ॥ २६ ॥
ततोऽन्ये च चतुर्वेदास्त्रिवेदाश्च तथापरे ।द्विवेदाश्चैकवेदाश्चाप्यनृचश्च तथापरे ॥ २७ ॥
एवं शास्त्रेषु भिन्नेषु बहुधा नीयते क्रिया ।तपोदानप्रवृत्ता च राजसी भवति प्रजा ॥ २८ ॥
एकवेदस्य चाज्ञानाद्वेदास्ते बहवः कृताः ।सत्यस्य चेह विभ्रंशात्सत्ये कश्चिदवस्थितः ॥ २९ ॥
सत्यात्प्रच्यवमानानां व्याधयो बहवोऽभवन् ।कामाश्चोपद्रवाश्चैव तदा दैवतकारिताः ॥ ३० ॥
यैरर्द्यमानाः सुभृशं तपस्तप्यन्ति मानवाः ।कामकामाः स्वर्गकामा यज्ञांस्तन्वन्ति चापरे ॥ ३१ ॥
एवं द्वापरमासाद्य प्रजाः क्षीयन्त्यधर्मतः ।पादेनैकेन कौन्तेय धर्मः कलियुगे स्थितः ॥ ३२ ॥
तामसं युगमासाद्य कृष्णो भवति केशवः ।वेदाचाराः प्रशाम्यन्ति धर्मयज्ञक्रियास्तथा ॥ ३३ ॥
ईतयो व्याधयस्तन्द्री दोषाः क्रोधादयस्तथा ।उपद्रवाश्च वर्तन्ते आधयो व्याधयस्तथा ॥ ३४ ॥
युगेष्वावर्तमानेषु धर्मो व्यावर्तते पुनः ।धर्मे व्यावर्तमाने तु लोको व्यावर्तते पुनः ॥ ३५ ॥
लोके क्षीणे क्षयं यान्ति भावा लोकप्रवर्तकाः ।युगक्षयकृता धर्माः प्रार्थनानि विकुर्वते ॥ ३६ ॥
एतत्कलियुगं नाम अचिराद्यत्प्रवर्तते ।युगानुवर्तनं त्वेतत्कुर्वन्ति चिरजीविनः ॥ ३७ ॥
यच्च ते मत्परिज्ञाने कौतूहलमरिंदम ।अनर्थकेषु को भावः पुरुषस्य विजानतः ॥ ३८ ॥
एतत्ते सर्वमाख्यातं यन्मां त्वं परिपृच्छसि ।युगसंख्यां महाबाहो स्वस्ति प्राप्नुहि गम्यताम् ॥ ३९ ॥
« »