Click on words to see what they mean.

वैशंपायन उवाच ।एतच्छ्रुत्वा वचस्तस्य वानरेन्द्रस्य धीमतः ।भीमसेनस्तदा वीरः प्रोवाचामित्रकर्शनः ॥ १ ॥
को भवान्किंनिमित्तं वा वानरं वपुराश्रितः ।ब्राह्मणानन्तरो वर्णः क्षत्रियस्त्वानुपृच्छति ॥ २ ॥
कौरवः सोमवंशीयः कुन्त्या गर्भेण धारितः ।पाण्डवो वायुतनयो भीमसेन इति श्रुतः ॥ ३ ॥
स वाक्यं भीमसेनस्य स्मितेन प्रतिगृह्य तत् ।हनूमान्वायुतनयो वायुपुत्रमभाषत ॥ ४ ॥
वानरोऽहं न ते मार्गं प्रदास्यामि यथेप्सितम् ।साधु गच्छ निवर्तस्व मा त्वं प्राप्स्यसि वैशसम् ॥ ५ ॥
भीम उवाच ।वैशसं वास्तु यद्वान्यन्न त्वा पृच्छामि वानर ।प्रयच्छोत्तिष्ठ मार्गं मे मा त्वं प्राप्स्यसि वैशसम् ॥ ६ ॥
हनूमानुवाच ।नास्ति शक्तिर्ममोत्थातुं व्याधिना क्लेशितो ह्यहम् ।यद्यवश्यं प्रयातव्यं लङ्घयित्वा प्रयाहि माम् ॥ ७ ॥
भीम उवाच ।निर्गुणः परमात्मेति देहं ते व्याप्य तिष्ठति ।तमहं ज्ञानविज्ञेयं नावमन्ये न लङ्घये ॥ ८ ॥
यद्यागमैर्न विन्देयं तमहं भूतभावनम् ।क्रमेयं त्वां गिरिं चेमं हनूमानिव सागरम् ॥ ९ ॥
हनूमानुवाच ।क एष हनुमान्नाम सागरो येन लङ्घितः ।पृच्छामि त्वा कुरुश्रेष्ठ कथ्यतां यदि शक्यते ॥ १० ॥
भीम उवाच ।भ्राता मम गुणश्लाघ्यो बुद्धिसत्त्वबलान्वितः ।रामायणेऽतिविख्यातः शूरो वानरपुंगवः ॥ ११ ॥
रामपत्नीकृते येन शतयोजनमायतः ।सागरः प्लवगेन्द्रेण क्रमेणैकेन लङ्घितः ॥ १२ ॥
स मे भ्राता महावीर्यस्तुल्योऽहं तस्य तेजसा ।बले पराक्रमे युद्धे शक्तोऽहं तव निग्रहे ॥ १३ ॥
उत्तिष्ठ देहि मे मार्गं पश्य वा मेऽद्य पौरुषम् ।मच्छासनमकुर्वाणं मा त्वा नेष्ये यमक्षयम् ॥ १४ ॥
वैशंपायन उवाच ।विज्ञाय तं बलोन्मत्तं बाहुवीर्येण गर्वितम् ।हृदयेनावहस्यैनं हनूमान्वाक्यमब्रवीत् ॥ १५ ॥
प्रसीद नास्ति मे शक्तिरुत्थातुं जरयानघ ।ममानुकम्पया त्वेतत्पुच्छमुत्सार्य गम्यताम् ॥ १६ ॥
सावज्ञमथ वामेन स्मयञ्जग्राह पाणिना ।न चाशकच्चालयितुं भीमः पुच्छं महाकपेः ॥ १७ ॥
उच्चिक्षेप पुनर्दोर्भ्यामिन्द्रायुधमिवोच्छ्रितम् ।नोद्धर्तुमशकद्भीमो दोर्भ्यामपि महाबलः ॥ १८ ॥
उत्क्षिप्तभ्रूर्विवृत्ताक्षः संहतभ्रुकुटीमुखः ।स्विन्नगात्रोऽभवद्भीमो न चोद्धर्तुं शशाक ह ॥ १९ ॥
यत्नवानपि तु श्रीमाँल्लाङ्गूलोद्धरणोद्धुतः ।कपेः पार्श्वगतो भीमस्तस्थौ व्रीडादधोमुखः ॥ २० ॥
प्रणिपत्य च कौन्तेयः प्राञ्जलिर्वाक्यमब्रवीत् ।प्रसीद कपिशार्दूल दुरुक्तं क्षम्यतां मम ॥ २१ ॥
सिद्धो वा यदि वा देवो गन्धर्वो वाथ गुह्यकः ।पृष्टः सन्कामया ब्रूहि कस्त्वं वानररूपधृक् ॥ २२ ॥
हनूमानुवाच ।यत्ते मम परिज्ञाने कौतूहलमरिंदम ।तत्सर्वमखिलेन त्वं शृणु पाण्डवनन्दन ॥ २३ ॥
अहं केसरिणः क्षेत्रे वायुना जगदायुषा ।जातः कमलपत्राक्ष हनूमान्नाम वानरः ॥ २४ ॥
सूर्यपुत्रं च सुग्रीवं शक्रपुत्रं च वालिनम् ।सर्ववानरराजानौ सर्ववानरयूथपाः ॥ २५ ॥
उपतस्थुर्महावीर्या मम चामित्रकर्शन ।सुग्रीवेणाभवत्प्रीतिरनिलस्याग्निना यथा ॥ २६ ॥
निकृतः स ततो भ्रात्रा कस्मिंश्चित्कारणान्तरे ।ऋश्यमूके मया सार्धं सुग्रीवो न्यवसच्चिरम् ॥ २७ ॥
अथ दाशरथिर्वीरो रामो नाम महाबलः ।विष्णुर्मानुषरूपेण चचार वसुधामिमाम् ॥ २८ ॥
स पितुः प्रियमन्विच्छन्सहभार्यः सहानुजः ।सधनुर्धन्विनां श्रेष्ठो दण्डकारण्यमाश्रितः ॥ २९ ॥
तस्य भार्या जनस्थानाद्रावणेन हृता बलात् ।वञ्चयित्वा महाबुद्धिं मृगरूपेण राघवम् ॥ ३० ॥
हृतदारः सह भ्रात्रा पत्नीं मार्गन्स राघवः ।दृष्टवाञ्शैलशिखरे सुग्रीवं वानरर्षभम् ॥ ३१ ॥
तेन तस्याभवत्सख्यं राघवस्य महात्मनः ।स हत्वा वालिनं राज्ये सुग्रीवं प्रत्यपादयत् ।स हरीन्प्रेषयामास सीतायाः परिमार्गणे ॥ ३२ ॥
ततो वानरकोटीभिर्यां वयं प्रस्थिता दिशम् ।तत्र प्रवृत्तिः सीताया गृध्रेण प्रतिपादिता ॥ ३३ ॥
ततोऽहं कार्यसिद्ध्यर्थं रामस्याक्लिष्टकर्मणः ।शतयोजनविस्तीर्णमर्णवं सहसाप्लुतः ॥ ३४ ॥
दृष्टा सा च मया देवी रावणस्य निवेशने ।प्रत्यागतश्चापि पुनर्नाम तत्र प्रकाश्य वै ॥ ३५ ॥
ततो रामेण वीरेण हत्वा तान्सर्वराक्षसान् ।पुनः प्रत्याहृता भार्या नष्टा वेदश्रुतिर्यथा ॥ ३६ ॥
ततः प्रतिष्ठिते रामे वीरोऽयं याचितो मया ।यावद्रामकथा वीर भवेल्लोकेषु शत्रुहन् ।तावज्जीवेयमित्येवं तथास्त्विति च सोऽब्रवीत् ॥ ३७ ॥
दश वर्षसहस्राणि दश वर्षशतानि च ।राज्यं कारितवान्रामस्ततस्तु त्रिदिवं गतः ॥ ३८ ॥
तदिहाप्सरसस्तात गन्धर्वाश्च सदानघ ।तस्य वीरस्य चरितं गायन्त्यो रमयन्ति माम् ॥ ३९ ॥
अयं च मार्गो मर्त्यानामगम्यः कुरुनन्दन ।ततोऽहं रुद्धवान्मार्गं तवेमं देवसेवितम् ।धर्षयेद्वा शपेद्वापि मा कश्चिदिति भारत ॥ ४० ॥
दिव्यो देवपथो ह्येष नात्र गच्छन्ति मानुषाः ।यदर्थमागतश्चासि तत्सरोऽभ्यर्ण एव हि ॥ ४१ ॥
« »